०२ पाशुपताद्युक्तमोक्षनिरासः

न च पाशुपताद्युक्तशिवादीनामनुग्रहात्

पाशुपताद्युक्तमोक्षनिरासः

न च पाशुपताद्युक्तशिवादीनामनुग्रहात्

सुधा

पाशुपताद्युक्तं मोक्षसाधनं निराकरोति न चेति ।

अनुव्याख्यानम्

न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ॥

पाशुपतशब्देन चतुर्विधा अपि गृह्यन्ते । आदिपदेन स्कान्दसौरादयः । द्वितीयेनादिपदेन स्कन्दादयः । अनुग्रहान्मोक्षो भवतीति शेषः ।

ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विणम् । असामर्थ्येन समासानुपपत्तेः । तथा सति पाशुपताद्युक्तादिति स्यात् । अत एव न मोक्षस्य विणम् । तथा सति पाशुपताद्युक्त इति भवेत् । शिवादिविणत्वे तु वैयर्थ्यमिति ।

उच्यते । अस्तु तावदनुग्रहविणम् । तत्र शिवादीनामनुग्रह इति समास एव । षष्ठ्या आक्रोश इति षष्ठ्या अलुक् । ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेती’त्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् । यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव । यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति । ‘मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च । उत्तरेषां प्रसादेन नीचानां नान्यथा भवेदि’त्यादिवाक्यविरोधपरिहाराय पाशुपताद्युक्तेत्यनुग्रहो विशेषितः । अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः । न तु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति । यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् । सुपां सुलुगिति पञ्चम्या लुक् । यद्वा प्रथमाया लुक् । मोक्षस्य चेदं विणम् । तत्र वादिनिर्देशप्रयोजनं व्यक्तमेव । यद्वाऽस्तु यथाश्रुतं शिवादीनामेव । ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोप एव । अतोऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः।

वाक्यार्थचन्द्रिका

चतुर्विधा अपीति । शैवाः पाशुपताः कालामुखा महाव्रताश्चेत्येवं चतुर्विधा अपीत्यर्थः । स्कन्दसूर्यगणेशादिमतानीति समयपादीयानुव्याख्यानानुसारेण पाशुपतादीत्यादिपदसङ्ग्राह्यमाह आदिपदेनेति । आद्येनादिपदेनेत्यर्थः ॥ द्वितीयेनेति । शिवादीनामिति द्वितीयादिपदेनेत्यर्थः । स्कन्दादय इत्यादिपदेन सूर्यादिपरिग्रहः ।

असामर्थ्येनेति । तथा सत्यसामर्थ्येन समासानुपपत्तेः पाशुपताद्युक्तादिति स्यादिति सम्बन्धः । पाशुपताद्युक्तेत्यस्यानुग्रहविणत्वे तदन्वितत्वापत्त्या शिवादीनामित्यनेनान्वेतुमसमर्थत्वेन तेन सह समासानुपपत्त्या भिन्नपदत्वावश्यम्भावात् । अनियतलिङ्गवचनविणानां च विशेष्यनिघ्नत्वादनुग्रहादिति विशेष्यवचनानुरोधेन पाशुपताद्युक्तादिति पञ्चम्यैकवचनप्रयोगप्रसङ्गादित्यर्थः । अत एवेत्युक्तमेव विशदयति तथा सतीति । मोक्षविणत्वे पाशुपतेत्यस्यासामर्थ्येन शिवादीत्यनेन समासानुपपत्त्या भिन्नपदत्वावश्यम्भावान्मोक्षरूपविशेष्यलिङ्गवचनप्रसक्त्या पाशुपताद्युक्त इति प्रथमैकवचनप्रगप्रसङ्गादित्यर्थः । अस्तु तर्हीदं यथाश्रुतं शिवादीनामेव विणमित्यत आह शिवादिविणत्वे त्विति ।

नन्वेवमसमर्थत्वेन शिवादिपदेन समासानुपपत्त्या भिन्नपदत्वावश्यम्भावात्पाशुपताद्युक्तादिति स्यादित्युक्तमित्यतोऽनुग्रहविणस्यास्य शिवादीत्यनेनासमर्थतया पाशुपताद्युक्ताश्च ते शिवादयश्चेति विणसमासानुपपत्तावपि पाशुपताद्युक्तश्चासौ शिवादीनामनुग्रहपदेन तत्समासम्भवेन भिन्नपदत्वाभावान्न पञ्चमीप्रसङ्ग इत्यभिप्रेत्य शिवादीनामनुग्रह इति पदभेदश्रवणात्कथमेतदित्यतो नैते भिन्ने पदे किन्तु शिवादीनामनुग्रह इति षष्ठीसमास एवेत्यतो न पाशुपताद्युक्तेत्यस्य विणसमासानुपपत्तिरित्याशयेनाह तत्रेति । ननु न शिवादीनामनुग्रह इति षष्ठीसमासोऽङ्गीकर्तुं शक्यते । तथा सति कृत्तद्धितसमासाश्चेति समासतया प्रातिपदिकसंज्ञायां सुपो धातुप्रातिपदिकयोरिति प्रातिपदिकतया सुब्लोपप्रसङ्गेन शिवाद्यनुग्रहादित्येव वक्तव्यतया शिवादीनामिति षष्ठ्यश्रवणप्रसङ्गादित्यतः षष्ठ्या आक्रोश (निन्दा) इति निन्दायां गम्यमानायां षष्ठ्या अलुग्विधानेन निन्दितत्वसूचनार्थत्वान्न तच्छ्रवणानुपपत्तिरित्याशयेनाह षष्ठ्या इति । किं निन्दितत्वसूचनस्यापि प्रयोजनमित्यत आह ज्ञात्वेति । निन्दितोऽयं शिव इत्यलुकाभिहिते निन्दितत्वविणसामर्थ्यादनिन्दितोऽपि शिवोऽस्तीति सिद्धं भवति । तथा च ज्ञात्वेत्यादिवाक्यस्यानिन्दितशिवपरत्वान्न तद्विरोध इत्युक्तं भवति । श्रुतिविरोधपरिहारमेव प्रकटयति य इति । ननु समासत्वाश्रयणेनानुग्रहविणत्वपक्षे पाशुपताद्युक्तादिति पञ्चम्यप्रसङ्गेऽपि विणवैयर्थ्यं स्यादेवेत्यतस्तत्प्रयोजनमाह मोक्ष इति । विरोधपरिहारप्रकारमेव दर्शयति अङ्गीक्रियत एवेति । एवं समासत्वमाश्रित्य पाशुपताद्युक्तेत्यस्यानुग्रहविणत्वे षष्ठ्या अलुगाश्रयणं ज्ञावा शिवं शान्तिमत्यन्तमेतीत्यादिश्रुतिविरोधपरिहाररूपतत्प्रयोजनाश्रयणं च भवतीत्यपरितोषाद्विणसमासाद्यनाश्रयणेनैवानुग्रहविशेणत्वं समर्थयते ॥ यद्वेति । तर्हि पाशुपताद्युक्तादिति स्यादित्युक्तमित्यत आह सुपामिति । पाशुपताद्युक्तेत्यस्यानुग्रहविणत्वे श्रुतिविरोधपरिहाररूपप्रयोजनविशेषः कल्पनीयो भवतीत्यपरितोषात्तद्विणत्वं परित्यज्य मोक्षविशेणत्वे प्रागुक्तं दोषं परिहरन्नेव तं पक्षमुपादत्ते यद्वेति ॥ प्रथमाया लुगिति । सुपां सुलुगिति तत्स्मरणादिति भावः । माऽस्त्वयं दोषो वैयर्थ्यं तु स्यादेवेत्यत आह तत्रेति ॥ व्यक्तमेवेति । अतो न पक्षान्तरवत्तद्व्युत्पादनं क्रियत इति भावः । अनुग्रहविणत्वे वा तस्य यथाश्रुतविणविशेष्यभावपरित्यागो भवतीत्यपरितोषात्पक्षान्तरमाह यद्वेति । विणमिति वर्तते । तत्पक्षोक्तदोषं परिहरति ये शिवादय इति ।

परिमल

चतुर्विधा इति । शैवपाशुपतकालामुखमहाव्रतभेदभिन्नाः समयपादसुधोक्ताश्चतुर्विधा इत्यर्थः ॥ असामर्थ्येनेति । सामर्थ्यमाकाङ्क्षा अनुग्रहपदेनान्वितपाशुपताद्युक्तेतिपदस्य शिवादिपदेना काङ्क्षाभावात् । तयोः पदयोः समासो न स्यात् । समर्थः पदविधिरित्यधिकृत्य द्वितीयाद्यपादे समर्थयोरेव समासविधानादिति भावः ॥ वैयर्थ्यमिति । द्विविधशिवाद्यभावेन व्यावर्त्याभावादिति भावः । उक्तेत्यन्तस्यानुग्रहविणत्वमुपेत्याह समास एवेति । ननु समासश्चेत्तर्हि कृत्तद्धितसमासाश्चेति प्रातिपदिकसंज्ञायां सुपो धातुप्रातिपदिकयोरिति षष्ठ्या लुक् प्राप्नोतीत्यत आह षष्ठ्या आक्रोश इति । आक्रोशो निन्दा तस्यां गम्यमानायां षष्ठ्या अलुक् स्यादितीति षष्ठतृतीयपादे उक्तेः । इह मुक्तिहेतुतया पाशुपताद्युक्तशिवानुग्रहस्य निन्दासूचनाच्चोरस्य कुलमित्यादाविवालुगित्यर्थः । निन्दासूचनस्य किं फलमित्यत आह ज्ञात्वा शिवमिति । पाशुपताद्युक्तशिवानुग्रहस्य निन्दितत्वान्न तत्परेयं श्रुतिः । किन्तु अन्यपरेत्येवं विरोधपरिहार इति भावेन तत्तात्पर्यमाह यः संसारेति । एवमनुग्रहविणे कथमुदाहृतवाक्याविरोध इत्यत आह अङ्गीक्रियत एवेति । भिन्नपदत्वे पाशुपताद्युक्तादिति स्यादित्यत आह सुपां सुलुगिति । सुपां सुलुक् पूर्वसवर्णाच्छेयाडाड्यायाजाल इति षष्ठान्त्यपादीयसूत्रेण सुपां लुग्भवतीत्युक्तेर्लुगित्यर्थः । यथा सान्तमहतः संयोगस्येत्यत्र संयोगस्येत्येतद्विणे सान्तेतिपदे षष्ठ्या अश्रवणं तथेह पञ्चम्या इति भावः ।

यादुपत्यं

चतुर्विधा अपीति । शैवाः पाशुपताः कालामुखा महाव्रताश्चेति चतुर्विधा इत्यर्थः । असामर्थ्येनेति । तथा सति पाशुपताद्युक्तेत्यस्य शिवादीनामित्यनेनान्वेतुं सामर्थ्याभावेन तेन सह समासानुपपत्तेः पाशुपताद्युक्तादिति स्यादिति सम्बन्धः । ननु तर्हि सुपो धातुप्रातिपादिकयोरिति षष्ठ्या लोपेन भाव्यमित्यत आह षष्ठ्या आक्रोश इति । आक्रोशो निन्दा । तस्यां गम्यमानायां षष्ठ्या अलुग्भवतीत्यर्थः । उदाहरणं तु चोरस्य कुलमिति । ननु तत्र चोरकुलनिन्दया तस्य हेयत्वज्ञापनं प्रयोजनम् । प्रकृते तु पाशुपताद्युक्तशिवाद्यनुग्रहनिन्दया किं प्रयोजनमित्यत आह ज्ञात्वा शिवमिति ॥ सुपां सुलुगिति । सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः । सुपमेति आदेशाः स्युरित्यर्थः । यथाऽऽर्द्रचर्मणीति प्राप्ते सप्तम्या लुकि आर्द्रे चर्मन् इति भवति । तथाऽत्र पञ्चम्या लुगिति भावः ।

श्रीनिवासतीर्थीया

तत्प्रयोजनं निन्दाप्रयोजनम् । तदुपपादयति यः संसारधर्मैरिति । संसरन्तीत्यत्रेति संसारा देहास्तद्धर्मैर्दुःखादिभिरित्यर्थः । परमशिवो भगवान् ॥ यस्त्विति । प्रसिद्धो महादेव इत्यर्थः ।

वाक्यार्थरत्नमाला

पाशुपताद्युक्तादिति स्यादितीति पाठः । एवमुत्तरत्र । अनुग्रहादिति विशेष्यवचनेति पाठः । इति पञ्चम्यन्तं यद्विशेष्यवचनमिति । नन्वेवमिति । पाशुपताद्युक्तेत्यस्यानुग्रहविणत्वे तदन्वितत्वापत्या शिवादीनामित्यनेनान्वेतुमसमर्थत्वेन समासानुपपत्तेरित्यर्थः । एवं समासत्वमाश्रित्येति । यद्यपि यद्वेति पक्षेऽपि पञ्चम्या लुगाश्रयणं श्रुतिविरोधपरिहाररूपप्रयोजनाश्रयणं च समम् । तथापि षष्ट्या अलुगाश्रयणमुत्तरपक्षे नास्तीत्येव स्वारस्यमित्यत्र तात्पर्यम् । अत एव श्रुतिविरोधपरिहारप्रयोजकत्वाश्रयणदोषः यद्वेति पक्षे वक्ष्यति । अतिनिर्दिष्टपक्षं तूत्तरत्र वक्ष्यति मूलकृदित्यत्र तात्पर्यात्तत्र तत्र तत्तद्दोषाभिधानं न दोषायेति भावः ।