विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात्
विज्ञानवाद्युक्तमोक्षसाधननिरासः
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात्
सुधा
विज्ञानवाद्युक्तं मोक्षसाधनं दूषयति विज्ञानेति ।
अनुव्याख्यानम्
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ॥
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् ॥
द्वितैव द्वैतम् । स्वार्थिकोऽण् । न द्वैतमद्वैतम् । विज्ञानस्याद्वैतं विज्ञानाद्वैतम् । विज्ञानमेकमेव तत्त्वं न ततोऽन्यदस्तीति वेदनात् । विज्ञानभावनाद् विज्ञानाद्वैतध्यानात् । आद्यश्चशब्दो वादिसमुच्चये । द्वितीयः साधनसमुच्चये । एवशब्दो नैव घटत इत्याद्यः सम्बध्यते । द्वितीयस्तु साधननियमार्थः । विज्ञानवादिन इति तेनै(ताभ्यां)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः । सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः । यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना । कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, न तु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।
वाक्यार्थचन्द्रिका
द्वितैवेति । द्वयोर्भावो द्विता भेद इत्यर्थः ॥ स्वार्थिक इति । द्विताशब्दात्प्रज्ञादित्वात्स्वार्थिकेऽण्प्रत्यये कृते णित्त्वादादिवृद्धौ यस्येति चेत्याकारलोपे द्वैतशब्दनिष्पत्तिरिति भावः ॥ वादिसमुच्चय इति । न केवलं शून्यवादिनः किन्तु विज्ञानवादिनश्चेति वादिसमुच्चय आद्यश्चशब्द इत्यर्थः ॥ साधनसमुच्चय इति । अत्र समुच्चयपदमितरेतरयोगपरं ज्ञेयम् । विज्ञानाद्वैतवेदनविज्ञानाद्वैतध्यानरूपसाधनयोः परस्परापेक्षयोरेव मोक्षरूपैककार्यसम्बन्धादितरेतरयोगे द्वितीयश्चशब्द इत्यर्थः । साधननियमार्थ इति । विज्ञानाद्वैतवेदनादिकमेव मोक्षसाधनं नान्यदिति मोक्षसाधननियमार्थ इत्यर्थः । तेनेति । अनेन विज्ञानवादिन इति षष्ठी व्यत्ययेन तृतीयार्थ इत्युक्तं भवति । भवतीति प्रतिपादित इति पूरणेनान्वयदोषः परिहृतो भवति । तत्तद्वाद्युक्तमोक्षसाधननिरासप्रस्तावे विज्ञानवाद्युक्तमोक्षसाधनस्यैवानुपपन्नताया वक्तव्यत्वान्मोक्षानुपपन्नत्वोक्तिरसङ्गतेत्यतस्तथोक्तेस्तात्पर्यमाह सामर्थ्यादिति । अस्मिन्पक्षे सामर्थ्यादिकमाश्रयणीयं भवतीत्यपरितोषात्तदुक्तसाधननिषेधकतया वाक्ययोजनामाह यद्वेति । सर्वं स्मारयितुमिति । अयमाशयः । यदि विज्ञानाद्वैतवेदनान्मोक्षो भवतीत्युच्यते तर्हि ज्ञानोदयानन्तरमेव मोक्षप्रसक्त्या तत्र विलम्बाभावप्रसङ्गात् । प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बादर्शनात् । अङ्गीक्रियन्ते च विज्ञानाद्वैतवेदनान्तरं संसरन्तः पुरुषाः परेण । असम्भावनाविपरीतभावनासद्भावाद् विलम्ब इति चेत् । ते किं संवृतिकार्ये न वा । नेति पक्षे विज्ञानवदनिवृत्त्यापत्त्याऽनिर्मोक्षत्वप्रसङ्गः । आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिरन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् । संवृत्यनिवृत्तौ च कथं ज्ञानविरोधित्वं पश्चादपि कथं तदनिवृत्तिरित्यादिकं सर्वं स्मारयितुं क्वचिदित्येकदेशमात्रोत्कीर्तनं कृतमिति ।
परिमल
द्वितैवेति । भेद इत्यर्थः । द्वयोर्भावो द्वितेति व्युत्पत्तेः ॥ स्वार्थिकेति । प्रज्ञादिभ्यश्चेति सूत्रेण स्वार्थे अण्प्रत्यये यस्येति लोपादिवृद्ध्योर्द्वैतमिति सिद्धेरिति भावः ॥ साधननियमेति । विज्ञानाद् द्वैतवेदनविज्ञानभावने एव साधने मुक्तेर्नान्यदिति नियमार्थ इत्यर्थः । विज्ञानवादिन इति षष्ठीप्रतिपाद्यप्रतिपादकभावरूपसम्बन्धार्थेत्युपेत्य फलितार्थमाह विज्ञानवादिन इतीत्यादिना । मुक्तिहेतुत्वनिरासप्रस्तावे मोक्षनिरासो न युक्त इत्यत आह सामर्थ्यादिति । प्रकरणबलादित्यर्थः ॥ पूर्वं विज्ञानवादिन इत्येतन्मोक्षान्विततया व्याख्याय साधनान्विततया व्याचष्टे यद्वेति ॥ पूर्वोक्तमिति । ‘यदीदानीं कथं न स’ इत्यादिनोक्तमित्यर्थः । क्वचिदित्यनुवादः काल इति व्याख्या । विज्ञानवादिनिरासः ॥ विज्ञानादिशब्दार्थः समयपादे व्यक्तः । उक्तमार्गेणेत्यनुवादः क्षणिकत्वेनेति व्याख्या ॥
यादुपत्यं
द्वितैवेति । द्वयोर्भावो द्विता भेद इत्यर्थः ।
श्रीनिवासतीर्थीया
द्वितैवेति । द्वयोर्भावो द्विता भेद इत्यर्थः । औतमेकत्वम् ॥ सामर्थ्यादिति । मोक्षसाधननिराकरणप्रसङ्गादित्यर्थः ॥ क्वचित्काले ह्यसाविति । ज्ञानोदयानन्तरं कालविशेषे विलम्बेन भवतीत्यर्थः ।
वाक्यार्थरत्नमाला
अन्योन्यनिरपेक्षयोरेककार्यं सम्बन्धस्थल एव समुच्चयस्य दृष्टे प्रकृते चोक्तसम्बन्धाभावात्समुदायपदायोग इत्यतः समुच्चयपदमितरेतरयोगोपलक्षणतया व्याचष्टे । अत्र समुच्चयपदमिति ।