०१ जैनाभिमतमोक्षसाधनानामप्रामाणिकत्वम्

धर्मस्य सुखहेतुत्वमपि केनावगम्यते

जैनाभिमतमोक्षसाधनानामप्रामाणिकत्वम्

धर्मस्य सुखहेतुत्वमपि केनावगम्यते

सुधा

इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याह धर्मस्येति ।

अनुव्याख्यानम्

धर्मस्य सुखहेतुत्वमपि केनावगम्यते ॥

सुखं मोक्षः ॥ जिनवाक्येनावसीयत इति वदतः पूर्ववत्सत्प्रतिपक्षतेत्याह हत्याया इति ।

हत्याया मोक्षहेतुत्वं कुतो मानान्निवार्यते ॥

मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः । हनस्त चेत्यत्र सुपीति नानुवर्तते । ब्रह्महत्यादयस्तु षष्ठीसमासाः । अतो हत्येति साधुः । ‘सन्ति खल्वक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवती’त्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां मोक्षसाधनमिति ॥

वाक्यार्थचन्द्रिका

सुखं मोक्ष इति । धर्मस्य सुखामत्रहेतुत्वमपि नोपपद्यते किमुतानन्तसुखमोक्षहेतुत्वमिति दर्शयितुं मूले मोक्षेत्यनुक्त्वा सुखेत्येवोक्तमिति भावः । ननु हत्येति कथम् । न च हन्तेर्हनस्त चेति क्यपि नकारस्य तकारे च सति हत्येति रूपनिष्पत्तिरिति वाच्यम् । वदः सुपि क्यप् चेत्यतः सुपीत्यस्य भुवो भाव इत्यस्य चात्रानुवृत्त्याऽनुपसर्गे सुप्युपपदे सत्येवानेन भावे हन्तेः क्यप्प्रत्ययविदानेन प्रकृते च सुबन्तस्योपपदस्याभावादनेन क्यप्प्रत्ययस्यासम्भवादित्यत आह हनस्तचेत्यत्रेति ॥ नानुवर्तत इति । नानुवृत्तिः कार्या प्रयोजनाभावादित्याशयः । ननु ब्रह्महत्येत्यत्र समाससिद्धिरेव तत्प्रयोजनम् । तथा हि । अत्र हि उपपदमतिङिति उपपदसमासः कार्यः । तत्र सुपीत्यनुवृत्तौ सप्तमीनिर्दिष्टतया ब्रह्मण इत्यस्य तत्रोपपदं सप्तमीस्थमिति उपपदत्वप्राप्तस्योपपदमतिङिति उपपदस्य ब्रह्मण इत्यस्यातिङन्तेन हत्याशब्देन समासोपपत्तावपि तदननुवृत्तौ सप्तम्यनिर्दिष्टतया ब्रह्मण इत्यस्योपपदत्वाभावेन तत्समासासम्भवादित्यत आह ब्रह्महत्यादय इति । नात्रोपपदतिङित्यनेन नित्यसमासः किन्तु षष्ठीत्यनेन विहितो ब्रह्मणो हत्या ब्रह्महत्येति वैकल्पिकषष्ठीसमास एव । अतो हनस्त चेत्यत्र सुपीत्यस्याननुवृत्तौ बाधकाभावादसत्यपि सुबन्ते उपपदे भावे क्यप्प्रत्यये हत्येति रूपनिष्पत्तिरप्रत्यूहेति भावः ॥ सन्ति खल्वक्षय्यमिति । एतच्च वारुणप्रघासकमेषीमेषरूपपशुहिंसासद्भावमभ्युपेत्योक्तमिति भावः ।

परिमल

ननु हनस्त चेति तृतीयाध्यायप्रथमपादीयसूत्रे हन हिंसागत्योरिति धातोः क्यप्प्रत्ययो नकारस्य तकारादेशश्चेति विधानात् । तत्र च वदः सुपि क्यप् चेति पूर्वस्मात्सुपीत्यनुवृत्तौ सुबन्तोपपदाभावात्कथं हत्येत्युक्तिरित्यत आह हनस्तचेत्यत्रेति । कथं तर्हि ब्रह्महत्या गोहत्येत्यादौ उपपदश्रवणमित्यतस्तत्रापि बह्मादिशब्दे उपपदे सति हन्तेर्नक्यबादिविधानं किन्तु केवलस्यैव । तथा च ब्रह्मणो हत्या ब्रह्महत्येति हत्यापदेन षष्ठीसमासः । नोपपदमतिङित्यनेन समास इत्यर्थः । एतेन वृत्त्या सुबनुवृत्या कृतं व्याख्यानं नादर्तव्यमित्युक्तं भवति । न चैव व्याघात इत्यादौ घञ्बाधेन क्यबेव स्यादिति शङ्क्यम् । वाऽसरूपोऽस्त्रियामिति असरूपप्रत्ययेनेति विकल्पेन बाधोक्तेरबाधपक्षे घञुपपत्तेर्द्वयमपि समाहितम् । कृत्यल्युटो बहुलमिति बहुलग्रहणाद्वा एवमादिषु घञ्निर्वाह इति भावः । हिंसाया मुक्तिहेतुत्ववादिन एव न सन्ति । येन एवं सत्प्रतिपक्षत्वमित्यत आह सन्ति खल्विति । जैननिरासः ।

यादुपत्यं

ननु हत्येति कथम् । न च हन्तेर्हनस्त चेत्यनेन क्यप्प्रत्यये नकारस्य तकारे च हत्येति रूपमिति वाच्यम् । हनस्त चेत्यत्र वदः सुपि क्यप् चेत्यतः सुपीत्यस्य भुवो भाव सत्यतो भाव इत्यस्य चानुवृत्त्याऽनुपसर्गे सुप्युपपदे भावे हन्तेः क्यब्विधानेन प्रकृते सुप उपपदस्याभावान्न तत्सूत्रप्राप्तिरित्यत आह हनस्त चेत्यत्रेति । ‘कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवमि’त्यादिप्रयोगसद्भावात्सुपीत्यस्यानुवृत्त्या व्याख्यानमज्ञानमूलमिति भावः । ननु यदि हनस्त चेत्यत्र सुप उपपदत्वं नेत्युच्यते तर्हि ब्रह्महत्येत्यत्र कथमुपपदमतिङित्यनेन कुम्भकार इत्यादाविव नित्यसमासविधानमित्यत आह ब्रह्महत्यादय इति । आदिपदेनाश्वहत्यादिसङ्ग्रहः । नात्रोपपदमतिङित्यनेन नित्यसमासः किन्तु षष्ठीत्यनेन विहितो ब्रह्मणो हत्या ब्रह्महत्येति वैकल्पिकः षष्ठीसमास एवातो हत्येति रूपाङ्गीकारे न किञ्चिद्बाधकमिति भावः ॥

श्रीनिवासतीर्थीया

ननु हनस्त च हन्तेर्धातोः क्यप्प्रत्ययः स्यान्नकारस्य च तकार इति सूत्रार्थः । तथा च हन्धातोः क्यप्प्रत्यये ककारपकारयोलोपे नकारस्य च तकारे हत्येति रूपं भवति । इदं चानुपपन्नम् । हनस्त चेत्यत्र पूर्वसूत्रात्सुपीत्यनुवृत्तेरत्र च सुबन्तोपपदस्याभावादित्यत आह हनस्त चेत्यत्रेति । ननु यद्यत्र सूत्रे सुपीति नानुवर्तते तर्हि ब्रह्महत्येति रूपं कथं सिध्येत् । तत्र सुबन्तस्य ब्रह्मपदस्योपपदस्य सत्त्वादित्यत आह ब्रह्महत्यादयस्त्विति । ब्रह्महत्यादयः शब्दा इत्यर्थः । यथा लोके राजन्शब्दः स्वतन्त्रः प्रसिद्धस्तथा पुरुषशब्दश्च तयोः समासे षष्ठीत्यनेन सूत्रेण विहिते सति राजपुरुष इति भवति । एवं ब्रह्मशब्दः स्वतन्त्रः प्रसिद्धस्तथा हत्याशब्दश्च । ‘कलौ पापं कियन्मात्रं हत्यास्तेयादिसम्भवमि’ति प्रयोगात् । तयोः स्वतन्त्रशब्दयोः समासे सति ब्रह्मणो हननं ब्रह्महत्येति ब्रह्महत्यादयः शब्दाः षष्ठीसमासा एव भविष्यन्तीति न तदर्थं सुपीत्यस्यानुवृत्तिः कल्पनीयेति न काऽप्यनुपपत्तिरिति भावः । ननु हत्याया मोक्षहेतुत्वं वदन्तो वादिनो न सन्त्येव तेषां साधकाभावादित्यत आह सन्ति खल्विति । चातुर्मास्ययागे पशुहिंसायाः प्रसिद्धत्वाच्चातुर्मास्ययाजिनः पशुहिंसोपेतचातुर्मास्ययागजनितं सुकृतमक्षयं भवति । अक्षयमोक्षफलकं भवतीत्यर्थः । हिंसात्मकस्य हिंसाप्रधानकस्य । तथा च हत्याया इति मूलस्य चातुर्मास्ययागीयपशुहिंसाया इत्यर्थो द्रष्टव्यः ।

वाक्यार्थरत्नमाला

अतो हत्येति साधुरिति मूले । हत्येतत्प्रातिपदिकसिद्धौ हत्याया इति षष्टीसुलभेत्याशयेन प्रातिपदिकमेव साधुतयोक्तं तदनुसारेण हत्येति प्रथमान्तमेवाक्षिपति । ननु हत्येति कथमिति । हनस्तचेति । हन्तेः क्यप् तकारश्चान्तादेश इति सूत्रार्थः । सुप्यनुपसर्ग इति वर्तते भावे इति चेति काशिकानुसारेणाह । वदः सुपीत्यादि । प्रकृते चेति । केवलहत्यापद इत्यर्थः । अनुवृत्तेर्व्याख्यानात्कथं नानुवर्तत इत्युच्यते इत्यतः सत्यं व्याख्यातानुवृत्तिरिति । परन्तु सा न कर्तव्येति मूलकाराभिप्रायान्नानुपपत्तिरित्याह । नानुवृत्तिः कार्येति । ब्रह्महत्येत्यत्रेति । ब्रह्महत्यादावित्यर्थः । अश्वहत्येत्यादावुपलक्षणत्वस्य सिद्धत्वात् । उपपदमतिङितीति । उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते स तत्पुरुष इति सूत्रार्थः । नित्यश्चायं समासः । नित्यं क्रीडेत्यतो नित्यमित्यनुवृत्तेः । तत्रेति । अत्र तत्रेत्यावर्तते । आद्यस्य तथात्वे चेत्यर्थः । द्वितीयस्य च हनस्तचेति सूत्रार्थः । तथाचोपपदमित्यनेन समासपक्षे हनस्तचेत्यत्र सुपीत्यनुवृत्ताविति विन्यासः सिध्यतीति ज्ञेयम् ।

सप्तमीनिर्दिष्टतयेति । सप्तम्यन्तपदेनोच्चारिततयेत्यर्थः । अयमर्थः । उपपदमित्यनेन समासो हि उपपदस्य भवति । स च ब्रह्मेत्येतत्कदा स्यात् । यदि ब्रह्म इत्येतदुपपदं स्यात् । तस्योपपदत्वं च तदा स्यात् । यदि ब्रह्मपदं हनस्त चेत्यत्र सप्तम्यन्तपदेन निर्दिष्टं स्यात् । तथा निर्दिष्टत्वं च तदा भवेत् । यदि सुपीत्यस्य हनस्त चेति सूत्रेऽनुवृत्तिः स्यात् । तथाचोक्तसूत्रे सुपीत्यनुवृत्तौ सुबन्तविब्रह्मपदस्य सप्तम्यन्ततया निर्दिष्टत्वादुपपदत्वं प्राप्नोति । यथा कर्मण्यणित्यण्विधौ कर्मणीति सप्तमीनिर्देशात्तद्विकुम्भस्योपपदसंज्ञा भवति तद्वदिति । तदननुवृत्ताविति । हनस्त चेत्यत्र सुपीत्यस्याननुवृत्तावित्यर्थः । सुबन्ते उपपदे हन्तेः क्यबित्यर्थाप्रतिपादने ब्रह्मेत्यस्य सुबन्ते इति सप्तम्या निर्दिष्टत्वाभावेन प्रयुक्तोपपदसंज्ञाया अपि प्राप्त्ययोगादित्यर्थः । नित्यसमास इति । कुम्भकारादाविव नित्यसमास इत्यर्थः । कुम्भं करोतीति द्वितीयान्तेन विग्रहः षष्ट्यन्तेन समास इत्यस्वपदविग्रहत्वान्नित्यसमासतेत्यस्मिन् पक्षे कुम्भस्य कार इत्यलौकिकं प्रक्रियावाक्यं लोके तु तिङन्तेनार्थः प्रदर्श्यते कुम्भं करोतीत्येतस्मिन्नपि पक्षे विग्रहसमासयोरेकप्रकारत्वाभावः । ब्रह्महत्यापदे तु ब्रह्मणो हननं हत्येति विग्रहानुसारेणैव समास इति नित्यसमासत्वविशिष्टमिति ज्ञेयम् । षष्टीत्यनेनेति । कारकशब्दयोगे कर्तृकर्मणोः कृतीत्यनेन कुम्भपदे षष्टीवद्धत्यापदयोगेऽपि ब्रह्मपदेऽपि कृद्योगनिमित्ता भवतीति षष्टीसमासप्राप्तिरिति भावः । वैकल्पिक इति । तत्र नित्यग्रहणाभावाद् विभाषेति महाविभाषाधिकारेण वैकल्पिकस्य प्राप्तिरति भावः ।

ननु चातुर्मास्ययागे च वैश्वदेववरुणप्रघाससाकमेधशुनासीराख्यचतुर्ष्वपि पर्वसु पशुहिंसाया अभावात्कथं चातुर्मास्ययागे हिंसात्मकत्वमित्यतो यद्यपीदानीमनुष्ठेयपक्षे तथात्वाभावस्तथापि वरुणप्रघासे हिंसानुष्ठानकारिपक्षे मेषीमेषरूपपशुहिंसासद्भावात्तत्पक्षानुसारेण हिंसात्मकत्वमस्त्येवेत्याशयेनाह ॥ एतच्च वारुणेति । उक्तमिति । ज्ञेयमिति पाठः । भावपदं लेखकायातम् । एतत्प्रमेयं पूर्वमीमांसायां स्पष्टम् ।