०९ निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियं प्रत्यक्षम्

कथं तत्स्यात्प्रमाणमनुमानतः

निर्दोषविषयसन्निकृष्टनिर्दोषेन्द्रियं प्रत्यक्षम्

कथं तत्स्यात्प्रमाणमनुमानतः

सुधा

दूषयति कथमिति ।

अनुव्याख्यानम्

………. कथं तत्स्यात्प्रमाणमनुमानतः ॥

तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् । अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं तन्नोपपद्यत इत्यर्थः ।

कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाह विषयानिति ।

अनुव्याख्यानम्

विषयान्प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ॥

प्रत्यक्षशब्दानुसारादनुमेति प्रकीर्तिता ॥

आसमन्ताद्गमयति धर्माधर्मौ परं पदम् ॥

यच्चाप्यतीन्द्रियं त्वन्यत्तेनासावागमः स्मृतः ॥

विषयान्निर्दोषान्प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्टमिन्द्रियम् । जातावेकवचनम् । यस्येन्द्रियस्य यो विषयोऽन्वयव्यतिरेकाभ्यामवगतस्तेनादोषेण सन्निकृष्टमदुष्टं तत्प्रत्यक्षमित्यर्थः ॥ अनेन प्रादिसमासोऽयं नाव्ययीभाव इति सूचितम् । तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत । यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् । तथापि योग्यतया विषयाणां सम्बन्ध इति हिशब्देनाचष्टे ।

प्रत्यक्षशब्दानुसारात् । प्रत्यक्षागमानुसारेणैव मानत्वात् । अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च । प्रकीर्तिताऽनुमेति शेषः । याऽनुमा प्रसिद्धा साऽस्मान्निमित्तादनुमेति प्रकीर्तिता । यद्यप्यनुसृता माऽनुमा तथाऽपि सामर्थ्यात्प्रत्यक्षादिसम्बन्धः । अनुमानमूलाऽनुमाऽप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।

आ इत्यनुवादेन समन्तादिति व्याख्यानम् । सम्यक् चेत्यपि ग्राह्यम् । गमयति ज्ञापयति । करणे कर्तृत्वोपचारः । ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि कारके भावे वा अपो विधानात् । अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् । यच्च धर्मादिभ्योऽन्यदतीन्द्रियमपिशब्दादननुमितं च । तुशब्दोऽवधारणे । तेनैवेति सम्बध्यते । यद्यप्या सम्यक् समन्तात्सर्वं गम्यते अनेनेत्यागमः । तथाऽपि प्रत्यक्षानुमानावगतेऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् । तस्य विवरणं धर्मेत्यादि । य आगमः प्रसिद्धोऽसौ ।

वाक्यार्थचन्द्रिका

तात्पर्यमाह अनुमानेनेति ॥ हेतुं वक्तुमिति । ‘अतोऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेदि’त्यादिनेति शेषः । अतिसामीप्यादिदोषयुक्तविषयैः सन्निकृष्टस्याक्षस्यापि विषयसन्निकृष्टाक्षत्वेन प्रत्यक्षत्वापत्तिरित्यतो निर्दोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षमित्यादिग्रन्थान्तरानुसारेण निर्दोषत्वरूपविषयविणस्यात्राभिप्रेतत्वान्नानुपपत्तिरित्याशयेनाह निर्दोषानिति । प्रतिस्थितत्वोक्तेस्तात्पर्यमाह तैरिति ॥ अक्षमिति । अदुष्टमिन्द्रियं त्वक्षमिति वचनादिति भावः । विषयानित्यनेकत्वस्य विषयेषु श्रुतत्वात्तादृशविषयसन्निकृष्टत्वमेकस्येन्द्रियस्य कथमित्यतो नेदमेकवचनं व्यक्तिरूपार्थैक्यविवक्षानिमित्तं येनोक्तानुपपत्तिः स्यात् । किन्तु जातिरूपार्थैक्यविवक्षानिमित्तमिति नानुपपत्तिरित्याशयेनाह जातावेकवचनमिति । मूले विषयग्रहणस्यानर्थक्यमाशङ्क्याकाशादिसन्निकृष्टचक्षुरादिव्युदासार्थत्वान्न तदित्यभिप्रेत्य केवलान्वयित्वेन विषयत्वस्याकाशादिसाधारणत्वात्कथमनेन तद्व्यावृत्तिरित्यतोऽत्र विषयपदस्येन्द्रियविषयपरत्वेन विषयमात्रपरत्वाभावादिन्द्रियविषयत्वस्य चाकेवलान्वयित्वाद्युक्तमाकाशादिव्यावर्तकत्वमित्याशयने तथाऽपि चक्षुरादिना गन्धादिग्रहणप्रसङ्गो दुर्वार एवेत्यतो विषयपदस्य तत्तदिन्द्रियविषयपरत्वं नियामकोक्त्या कथयन्नेव लक्षणवाक्यार्थमाह यस्येन्द्रियस्येत्यादि ।

मूले विषयान्प्रति स्थितमक्षमित्युक्तरीत्या प्रत्यक्षशब्दनिर्वचनस्यानर्थक्यमाशङ्क्य प्रत्यक्षशब्दे प्रादिसमासत्वज्ञापनद्वाराऽव्ययीभावत्वनिवृत्तिसूचनार्थत्वान्न तदिति भावेन तन्निर्वचनप्रयोजनमाह अनेनेति । विषयान्प्रतीत्यादिप्रत्यक्षशब्दनिर्वचनेनेत्यर्थः ॥ प्रादिसमास इति । प्राचार्यः प्रान्तेवासीत्यादौ वृत्तिविषये गताद्यर्थे वर्तमानानां प्रादीनामगतित्वेऽपि कुगतिप्रादय इत्यत्र प्रादिग्रहणात् प्रथमान्तेनाचार्यादिपदेन प्रगत आचार्यः प्राचार्यः प्रकृष्टोऽन्तेवासी प्रान्तेवासीति समासतद्वृत्तिविषये गताद्यर्थ इत्यादिपदग्राह्यस्थितार्थे वर्तमानस्य प्रतिशब्दस्य गतित्वाभावेऽपि कुगतिप्रादय इत्यत्र प्रादिग्रहणात्प्रथमान्तेनाक्षशब्देन प्रतिस्थितमक्षं प्रत्यक्षमिति प्रादिसमास इत्यर्थः । प्रतिस्थितमित्युक्तिस्तु गताद्यर्थे वृत्तिम् अस्वपदविग्रहेण नित्यसमासत्वं च सूचयितुमिति द्रष्टव्यम् । न च प्रत्यक्षशब्देन प्रादिसमासोऽङ्गीकर्तुं शक्यते । तथा सति प्रत्यक्षशब्दस्यार्धपिप्पलीत्यादिवत् ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरि’ति परवल्लिङ्गताविधानेन नियतलिङ्गत्वापत्त्या प्रत्यक्षोऽर्थः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गत्वाभावापातादिति वाच्यम् । वार्तिककृता कात्यायनेन प्राप्तापन्नालंगतिपूर्वसमासेषु प्रतिषेध इति गतिसमासे परवल्लिङ्गताप्रतिषेधात् । गतिग्रहणस्यान्यस्यासम्भवेन प्राद्युपलक्षणताया आकरे स्थितत्वात्प्रादिसमासस्य परवल्लिङ्गत्वाभावेन विशेष्यनिघ्नतया निष्कौशाम्बिरित्यादिवदभिधेयलिङ्गत्वोपपत्तेः । न च प्रादिसमासे कर्मप्रवचनीयानां न समास इति कर्मप्रवचनीयस्य प्रतिशब्दस्य समासनिषेधात्कथमत्राक्षशब्देन प्रतिशब्दस्य प्रादिसमासः स्यादिति वाच्यम् । लक्षणेत्थम्भूताख्यानेत्यादिरूपकर्मप्रवचनीयत्वप्रयोजकस्यात्राभावेनाकर्मप्रवचनीयत्वात् प्रतिशब्दस्याक्षशब्देन समासोपपत्तेः । न चैवं विषयानिति विषयशब्दे द्वितीयानुपपत्तिः । कर्मप्रवचनीययोगाभावेन कर्मप्रवचनीययुक्ते द्वितीयेत्यनेन तदप्राप्तेर्लक्षणान्तरस्य चाभावादिति वाच्यम् । बुभुक्षितं न प्रतिभाति किञ्चनेत्यादाविव उभसर्वतसोः कार्येत्यादिवार्तिककृदुक्तरीत्याऽकर्मप्रवचनीयप्रतिशब्दयोगेऽपि द्वितीयाया उपपन्नत्वात् । एतच्च तद्वार्तिकव्याख्यानावसरे आकर एव स्पष्टम् ।

नन्वक्षस्याक्षस्य प्रतीति प्रत्यक्षमिति वात्स्यायनभाष्यकृदुक्तरीत्या विग्रहाश्रयणेनाव्ययीभावस्याप्यत्र वक्तुं शक्यत्वात्किं प्रादिसमासत्वाश्रयणेनेत्यतस्तथा सति प्रतिशब्दयोगे षष्ठ्या अविधानात् प्रति अक्षस्येति विग्रहेऽक्षस्येति षष्ठ्या अश्रवणप्रसङ्गान् न तथाविग्रहाश्रयणेनाव्ययीभावत्वमङ्गीकर्तुं शक्यमित्याह तथा सतीति । यद्वा नन्वक्षमक्षं प्रति वर्तते इति प्रत्यक्षमिति निर्वचनाश्रयणेन प्रत्यक्षशब्देऽव्ययीभावस्यापि सति सम्भवे परित्यागायोगान्न तन्निवृत्तिसूचकत्वं सम्भवतीत्यतस्तथा सत्युपकुम्भादिवन्नियतनपुंसकत्वेन विशेष्यनिघ्नत्वाभावापत्त्या प्रत्यक्षोऽर्थः प्रत्यक्षा बुद्धिरित्याद्यभिधेयलिङ्गता न स्यात् । इन्द्रियगुणकर्मसामान्येष्वतिव्याप्तिश्चेत्यादिदोषे सत्येव स्पष्टत्वाच्छिष्यैरेवोह्यतामिति भावेन तमुपेक्ष्य तत्पक्षे उद्योतकारवार्तिकोक्तं दोषमेवाह तथा सतीति । अव्ययीभावत्व इत्यर्थः । प्रत्यक्षस्य लक्षणमाहेत्याद्यभियुक्तप्रयोगेष्विति शेषः । नाव्ययीभावादतोन्त्वपञ्चम्या इति पञ्चम्या अमादेशनिषेधेऽपि तृतीयासप्तम्योर्बहुलमिति तृतीयासप्तम्योर्विकल्पेन तद्विधानेऽप्यन्यत्र नियमेनाऽऽम्विधानात्प्रत्यक्षमित्येव भाव्यत्वेन प्रत्यक्षस्येति षष्ठी न श्रूयतेत्यर्थः । यद्यपि प्रत्यक्षे प्रत्यक्षाणीति प्रथमाद्वितीयाद्विवचनबहुवचने चतुर्थीषष्ठीद्विवचनबहुवचने च परीक्षकप्रयोगेषु श्रूयन्त इति तदश्रवणमप्यापादयितुं शक्यम् । तथाऽपि प्रत्यक्षस्येति प्रयोगस्य प्रायिकत्वात्तदश्रवणमेवापादितमिति द्रष्टव्यम् ।

नन्वनुसरणस्य चेतनधर्मत्वात्त्कथमचेतनस्यानुमानस्य तदुक्तिरित्यतोऽत्राभिमतमनुसरणं दर्शयति अनुसरणं चेति । केचित्तु शब्दस्यापि स्वरूपस्वसहकारिशक्त्यादिग्राहकप्रत्यक्षशब्दानुसारिण एव प्रमाणत्वात्तत्रास्य लक्षणस्यातिव्याप्तिः स्यादित्यतः शब्दव्यावृत्तप्रत्यक्षाद्यनुसारित्वस्यैवात्रानिसरणपदेन विवक्षितत्वाददोष इत्याशयेन तदुपदर्शयत्यनुसरणं चेतीत्याहुः । विशेष्यानुक्तेः कथं केत्याकाङ्क्षापरिपूर्तिरत्रेत्यतोऽपेक्षितं पूरयति ॥ अनुमेति इति । या प्रत्यक्षानुसारादनुमेति प्रकीर्तिता साऽनुमेति यथास्थितवचनव्यक्तावाश्रीयमाणायामसिद्धस्यानुवादः सिद्धस्य विधानं भवतीत्यतोऽत्रान्यथावचनव्यक्तिमाह याऽनुमेति ॥ अनुमानमूलाऽपीति । या चक्षुरादिपक्षीकारेण प्रवृत्तेत्यर्थः ॥ प्रागिति । व्याप्यस्यान्यस्य तौ पुनरि’त्यादिनेत्यर्थः ।

आसमन्तादित्यनयोरन्यतरवैयर्थ्यपरिहारायाह आ इत्यनुवादेनेति । न केवलं समन्तादित्येव आ इत्यस्य व्याख्यानं किन्त्वन्यदपीत्याह सम्यक् चेत्यपीति । आ इत्येतद्व्याख्यानतयेति शेषः । अत एव वक्ष्यति । आ सम्यक् समन्तादित्यादीति भावः । गमकत्वं नाम प्रापकत्वमिति प्रतीयते । तथा च नानेनागमलक्षणसूचनमुपपद्यते इत्यतो व्याचष्टे ज्ञापयतीति । गमयतीति प्रत्ययोक्तं ज्ञापनकर्तृत्वमेव निर्वचनलभ्यं प्रवृत्तिनिमित्तमागमशब्दस्येति प्रतीतिनिरासायाह करण इति । करणे कर्तृत्वोपचारेणैव युक्तम् । न तु निर्वचनलभ्यप्रवृत्तिनिमित्तकथनमेतदिति शेषः । न चोपचाराश्रयणमनर्थकम् । स्वातन्त्र्यज्ञापनार्थत्वात् । ननु निर्वचनलभ्यप्रवृत्तिनिमित्तकथनमेवैतत्किन्न स्यादित्यत आह ग्रहेति । अकर्तरि कारकेऽप्प्रत्ययविधानात् । ज्ञापनकर्तृत्वं नागमशब्दनिर्वचनलभ्यं तच्छब्दप्रवृत्तिनिमित्तमिति भावः । ननु यदि भावेऽप्यप्प्रत्ययो विधीयते तर्ह्यासमन्ताद्गमयतीति भाष्यकारीयव्याख्यानस्य न्यूनत्वं भावार्थानुसारेणाप्यागमशब्दार्थस्य वक्तव्यत्वादित्यत आह अनुप्रमाणेति । अनुप्रमाणप्रायपाठादिति भावः । आ इत्यस्य व्याख्यानं सम्यगिति समन्तादिति च । समन्तादित्यस्य विवरणं सर्वमिति । असावित्युक्तः कः कथं च तस्य सिद्धत्वं येनोद्देश्यता स्यादित्यतस्तत्परामर्शविषयं दर्शयन्नेव तस्योद्देश्यत्वोपयोगिनीं सिद्धतामाह य आगमः प्रसिद्धोऽसाविति । यद्वाऽसावित्यनेन परामृष्टव्यं दर्शयन्नेव तस्य परामर्शोपयोगिनीं बुद्धिस्थितां सूचयति य आगम इत्यादि ।

परिमल

हेतुं वक्तुमिति । अतोऽनुमेत्यादिना वक्तुमित्यर्थः ॥ निर्दोषानिति ॥ अतिदूरस्थत्वातिसामीप्यादिदोषशून्यानित्यर्थः । बहुवचनलब्धविषयबाहुल्येन एकाक्षस्य सन्निकृष्टत्वधीनिरासायाह जाताविति । अक्षत्वस्य जातित्वं सदृशधर्मत्वमेवेति ज्ञेयम् । प्रादिसमासोऽयमिति । कुगतिप्रादय इति द्वितीयाध्यायद्वितीयपादीयसूत्रेण कुशब्दो गतिसंज्ञकशब्दाः प्रादय उपसर्गाश्च समर्थेन सुबन्तेन समस्यन्त इति विधानात् । प्रतिशब्दस्य प्रादिषु पाठात्कुपुरुषः दूरीकृतं सुपुरुष इतिवत् । प्रतिस्थितं च तद् अक्षं चेति प्रादिसमास इत्यर्थः ॥ नाव्ययीभाव इति । प्रादेरव्ययत्वात् । अव्ययं विभक्तीत्यादिनाव्ययीभावसमासो नेत्यर्थः । तथा सतीति । अक्षं प्रति प्रत्यक्षमिति अव्ययीभावत्वे उपकुम्भमित्यादाविवाव्ययीभावस्याव्ययत्वेनाव्ययादाप्सुप इति सुपो लुकि प्राप्ते नाव्ययीभावादिति लुगपवादतया आदेशे सति ‘प्रत्यक्षस्यैव मानत्वमिति केनावसीयत’ इति समयपादीयचार्वाकमतनिरासप्रस्तावादौ कृतषष्ठीनिर्देशो न युक्तः स्यादित्यर्थः । उपलक्षणमेतत् । प्रत्यक्षः कस्यचिद्धर्मो वस्तुत्वादिति जिज्ञासासूत्रानुभाष्यादौ प्रथमादिर्न श्रूयेतेत्यपि ज्ञेयम् । नन्वनुमेति सत्यपि पुनः शेषोक्तौ कथं योजनेत्यत आह याऽनुमा प्रसिद्धेति । अनुमानमूलाप्यनुमास्ति कथं प्रत्यक्षशब्दानुसारादित्युक्तमित्यत आह अनुमानमूलेति ॥ उक्तं प्रागिति । ‘प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि । न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः’ इत्येतत्पादीयादिभागानुव्याख्यानान्त्यपादीयतट्टीकयोरुक्तमित्यर्थः ॥ इत्यपि ग्राह्यमिति । आङर्थतयेति भावः ॥ कर्तर्येव निष्पन्नोस्त्वागमशब्द इत्यत आह ग्रहेति ॥ तृतीयस्य तृतीयपादे ऋदोरप् इति पूर्वसूत्रानुवृत्तस्याप्प्रत्ययस्य गृहादिभ्यो धातुभ्यः कर्तृभिन्ने कर्मादिकारके भावे च विधानेन ग्रहो वरो दरो निश्चय इतिवदागम इति निष्पत्तेरिति भावः । केवलप्रमाणे कथं घटनैतन्निरुक्तेरित्यत आह अनुप्रमाणेति । असावित्यनुवादघटनायाह य आगमः प्रसिद्ध इति ।

यादुपत्यं

जातावेकवचनमिति । अत्र जातिपदेन समुदायो विवक्षितः । अत एव विप्राणां भोजनं यथेत्यत्र भोजनमित्येकवचनं समुदायापेक्षयेति व्याख्यातम् । एवं चास्मन्मते जातेरेकत्वाभावात्कथं तत्रैकवचनमिति शङ्कानवकाशः ॥ अनेनेति । वृत्तिविषयतया स्थितरूपार्थप्रदर्शनेनेत्यर्थः ॥ प्रादिसमास इति । कुगतिप्रादय सत्यत्र प्रादयो गताद्यर्थे प्रथमयेति वार्तिकेन विहितः समासः प्रादिसमासो वृत्तिविषये गताद्यर्थे वर्तमानाः प्रादयो गतित्वाभावेऽपि प्रथमान्तेन समस्यन्त इति वार्तिकार्थः । एवं च प्रगत आचार्यः प्राचार्यः प्रगतः पितामहः प्रपितामह सत्यादिवत्प्रतिस्थितमक्षं प्रत्यक्षमित्ययमपि प्रादिसमास इत्यर्थः । ननु ‘लक्षणेनाभिप्रती आभिमुख्य’ इति वचनादक्षं प्रति प्रत्यक्षमित्यव्ययीभाव एव किन्न स्यादित्यत आह नाव्ययीभाव इति ॥ षष्ठी न श्रूयेतेति । प्रत्यक्षस्य लक्षणमाहेत्यादिपरीक्षकप्रयोगेष्वित्यर्थः । यद्यपि नाव्ययीभावादतोन्त्वमपञ्चम्या इति पञ्चम्या अमादेशो नियमेन निषिद्धः । तृतीयासप्तम्योर्बहुलमिति तृतीयासप्तम्योर्विकल्पेनैव स विहितः । तथाऽप्यन्यत्र नियमेन तद्विधानात्प्रत्यक्षमित्येव स्यान्न प्रत्यक्षस्येतीत्यर्थः । उपलक्षणं चैतत् । प्रत्यक्षे प्रत्यक्षाणीति प्रथमाद्वितीयाद्विवचनबहुवचने चतुर्थीषष्ठीद्विवचनबहुवचने च परोक्षकप्रयोगेषु न श्रूयेरन्नित्यपि द्रष्टव्यम् । प्रत्यक्षस्येति प्रयोगस्य प्रायिकत्वात्स्वपदेन ग्रहणमित्यवधेयम् । नन्वेवं पूरणेऽनुमाऽनुमापदवाच्याऽनुमेति प्रकीर्तितेति पौनरुक्त्यमित्यत आह याऽनुमा प्रसिद्धेति । तथा च याऽनुमा प्रसिद्धा निर्दोषोपपत्तिरूपा सेति तामनूद्य तत्रावयवार्थरूपनिमित्तयोगेनानुमाशब्दवाच्यत्वं विधीयत इति न पौनरुक्त्यमिति भावः ॥ प्रागिति । ‘न्यायस्यान्यस्य तौ पुनरित्यत्रेति शेषः ॥ करण इति । तथा च करण एव प्रत्ययो न कर्तरीति भावः । अत एव सर्वं गम्यतेऽनेनेत्यागम इत्युत्तरत्रानुवादः । ननु कर्तर्येव प्रत्ययोऽस्तु ततश्च मुख्यमेव कर्तृत्वं तत्र कथञ्चिद्भविष्यतीत्यत आह ग्रहेत्यादि । ग्रहादिभ्यो धातुभ्योऽप्प्रत्ययो भवतीति सूत्रार्थः । उदाहरणन्तु ग्रहः वरः दरः निश्चयः ॥ गम इति । एरजिति सूत्रव्याख्यावसरे काशिकायां भावेऽकर्तरि च कारक इति प्रकृतमनुवर्तते यावत् कृत्यल्युटो बहुलमित्युक्तत्वादकर्तरि कारके भावे वेत्युक्तमिति ज्ञातव्यम् । तथा च कर्तरि न भवतीत्युक्तत्वात्कर्तृत्वोपचार इत्युक्तं युक्तमिति भावः । ननु भाव इत्यप्यनुवृत्तिसद्भावादागमनमागम इत्येव कस्मान्न निरुच्यत इत्यत आह अनुप्रमाणविषयमिति । आचार्यैः क्रियमाणमित्यर्थः । पूर्वोत्तरवाक्यबलादिति भावः । असावागम आगमः स्मृत इत्युक्तौ पौनरुक्त्यमत आह य आगम इति । तथा च य आगमप्रसिद्धो निर्दोषशब्दरूपोऽसावुक्तनिमित्तेनागमशब्दवाच्य इति विवक्षितत्वान्न पौनरुक्त्यमिति भावः ।

श्रीनिवासतीर्थीया

वाक्येन जिनदर्शितवाक्येन । रूपरसादिविषयान्प्रति स्थितस्याक्षस्यैकत्वाभावादक्षमित्येकवचनानुपपत्तिरित्यित आह जाताविति । तथा चाक्षाणीत्यर्थः । अदोषेण विषयेण ॥ तत्प्रत्यक्षमिति । तदिन्द्रियप्रत्यक्षमित्यर्थः । अनुमेति प्रकीर्तितमिति वक्तव्यमित्यत आह माऽनुमेति । नन्वागमस्य ज्ञानकरणत्वेन गमयतीति कथं कर्तृत्वोक्तिरित्यत आह करणे कर्तृत्वोपचार इति । ननूपचार इति कुतो व्याख्येयं मुख्यमेव कर्तृत्वं किं न स्यादित्यत आह ग्रहेत्यादि । आगमशब्दस्तावदाङ्पूर्वकाद्गम्लृगतावित्यस्मादप्प्रत्यये पकारलोपे च सति निष्पन्नः । सचाप्प्रत्ययो ग्रहेत्यादि सूत्रेण गन्धातोः कर्तृकारकभिन्नकारकविवक्षायामेव विहितो न कर्तरि । अतः कर्तृत्वमुपचरितमित्येव व्याख्येयमिति भावः ।

वाक्यार्थरत्नमाला

तत्प्रामाण्यं कथं स्यादिति समानाधिकरण्यमुपपादयितुं प्रमाणत्वेन प्रतिपत्तव्यं प्रामाण्यमिति व्युत्पत्तिं मनसि कृत्वा व्याख्याति ॥ प्रमाणमिति प्रतिपत्तव्यमिति मूलम् । प्रत्ययादिविचारः । वचनादितीति । ब्रह्मतर्कवचनादित्यर्थः । नन्वेतद्वचनबलादक्षशब्दस्यैवादुष्टार्थत्वेन तेनैवादुष्टत्वलाभान्निर्दोषाक्षोद्भवमिति प्रत्यक्षलक्षणे निर्दोषपदं व्यर्थमित्याशङ्क्येन्द्रियं त्वक्षं तच्च दुष्टमिह विवक्षितमिति तद्-व्याख्यानादिति नविलक्षणत्वाधिकरणीय मूले प्रतिपादितम् । तत्कथं पूर्वमूलविरुद्धम् अक्षमदुष्टमिन्द्रियमिति मूलकारीयं व्याख्यानम् । कथञ्च तदुपोद्बलकत्वेनोक्तब्रह्मतर्कवचनोदाहरणं टीकाकारीयं, तथात्वे च निर्दोषाक्षोद्भवमित्यत्र निर्दोषपदव्यर्थतापरिहारेण स्यादेवेति चेत्सत्यम् । सर्वत्र निर्दोषपदसार्थक्याय ब्रह्मतर्कवाक्यं व्याख्यायात्रादुष्टमिन्द्रियमिति व्याकुर्वता हि पूर्वोक्तप्रकारेणाक्षमिन्द्रियं यच्चादुष्टमिह विवक्षितमित्येव तात्पर्यार्थः । स च शिष्यैरेव सुज्ञेय इति भावेन मूलकृता विवेकमकृत्वा विशिष्ट एवार्थः प्रतिपादितः । तेन पूर्वानुसारेणैवात्रापि प्रतिपादनान्न तद्विरोधशङ्का कार्या । टीकाकृतापि यद्वचनमूलकमिदं व्याख्यानं तद्वाक्यं प्रागेव मूले व्याख्यातमिति किमेतद्-व्युत्पादनेनेत्याशयेनोक्तव्याख्यानमूलभूतं ब्रह्मतर्कवचनमात्रमेवोदाहृतम् । तेन पूर्वस्मारणेन विवक्षितार्थो मूलाभिप्रायोऽपि स्मारित एवेति न तत्राप्यनुपपत्तिः । अक्षशब्दस्यैव निर्दोषेन्द्रियपरत्वानङ्गीकाराच्च निर्दोषाक्षेत्यत्रत्यनिर्दोषपदं च सार्थकमेवेति न कश्चिद्दोष इत्यवगन्तव्यम् ।

केचित्तु ब्रह्मतर्कवाक्यं प्रतिपन्नार्थमेव भवतीत्यतोऽत्रत्यमूलटीकयोर्यथास्थितेनैव प्रवृत्तिः पूर्वमूले तु निर्दोषाक्षेत्युक्तार्थबाधकतापरिहाराय वर्णकान्तरमुक्तमित्याहुः । अत एव समुदायापेक्षमित्यादिकमन्यथाख्यातिस्थव्याख्याननिराकरणावसरे विनोदेऽनेकत्वेऽप्येकत्वविवक्षयैकवचनोपपत्तेरित्युक्तम् । जातेरपि स्वमतेऽनेकत्वेऽपि जातिपदस्य जातित्वं सादृश्यपरत्वमित्यादिकं वैराग्यपादे टीका ज्ञेयम् । वस्तुतस्तु जातेरनेकत्वेऽपि तदेकविवक्षामाश्रित्यैकवचनमित्येव तत्वम् । अन्यथा जातौ बहुवचनं युक्तिपादीय ‘‘कथास्तिस्रो विजानतां, जल्प’’ इत्यादावाश्रितमयुक्तं स्यात् । सादृश्यस्यैकत्वेन द्य्वेकयोरित्यनेनैकवचनोपपत्तावपि तस्य बहुत्वाभावेन जातित्वानाश्रयणे बहुवचनायोगप्रसङ्गात् । शिष्टं वैराग्यपादे द्रष्टव्यम् । दोषयुक्ताक्षस्य प्रत्यक्षत्वापत्तिरित्यतो व्याचष्ट इत्येवमवतारोऽपि निर्दोषानित्येतदधिकस्वीकारावतारानुसारेण शिष्यैरेव स्पष्टतया ज्ञातुं शक्य इति भावेनोक्तरीत्याक्षमदुष्टमिन्द्रियमित्येतन्नावतारितमित्यदोषः ।

वाक्यार्थमाहेति । विषयानिति बहुवचनेनाक्षमिति जातावेकवचनेन च लब्धवीप्साभिप्रायं मनसि निधायेति शेषः । एवं च यस्येन्द्रियस्येत्यादेर्यस्येन्द्रियस्येत्यादिरूपेण योजना सिध्यति । अत्र निर्दोषाक्षोद्भवमिति युक्तिपादीयानुव्याख्यानमर्यादया प्रत्यक्षावगममिति नवमगीताभाष्यपर्यालोचनया चाक्षं प्रतिस्थितमित्यपि लभ्यते । तथापि गीताभाष्यटीकाव्याख्यानकृताऽत्यादयः क्रान्ताद्यर्थे द्वितीयेत्यनेनैव शेष्याद्युक्तरीत्या तत्र द्वितीयासमास एवोक्तः । अतो नैकविध्यं सर्वत्र, युक्तिपादे तु फलितार्थकथनमित्यादिलेख्यम् । ननु प्रादिसमासविधायके ‘‘कुगति प्रादाय’’ इत्यत्र गतिसंज्ञकानामेव प्रादीनां समर्थशब्दान्तरेण समासविधानात्प्रादीनां चोपसर्गाः क्रियायोगे गतिश्चेति क्रियायोग एव गतिसंज्ञाविधानेन यत्क्रियायुक्तास्तां प्रत्येव गतित्वेनाक्रियारूपाक्षं प्रति गतित्वाभावेन गतिसंज्ञकप्रतिशब्दयोगाभावेन कुगतीत्यनेन समासायोगात्कथमत्र प्रादिसमास इत्यतो गतिग्रहणेनैव गतिसंज्ञकार्थादितिशब्दव्ययत डजन्तानामिव प्रादीनामपि ग्रहणसम्भवेन प्रादिग्रहणवैयर्थ्यापत्या तद्ग्रहणसामर्थ्यादगतिसंज्ञानामपि प्रादीनां समर्थशब्दान्तरेण समास इत्यत्राभिप्रायप्रदर्शनपरेण प्रादयो गताद्यर्थे प्रथमयेति वार्तिकेण प्राचार्य इत्यादौ समासवत्प्रकृते समास इत्याशयेन दृष्टान्तकथनेन प्रादिसमासमुपपादयति । प्राचार्य इत्यादिना । वृत्तिविषये गताद्यर्थवृत्तयः गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्ते इतीति हरदत्तोक्तिं ‘‘वृत्तिविषये गताद्यर्थे वर्त्तमानाः प्रादयो गतित्वाभावेऽपि प्रादिग्रहणेन समस्यन्ते प्रथमान्तेनेत्यर्थ इति शेषीं च मनसि निधायोक्तं वृत्तिविषये गताद्यर्थ इत्यादि । प्रादिग्रहणादिति । प्रादिग्रहणसामर्थ्यलब्दार्थप्रदर्शनपरभूतप्रादिसमासविधायक ‘‘प्रादयो गताद्यर्थे प्रथमये’’ति वार्तिकेणेत्यर्थः । उक्तवार्त्तिकस्मारणायैव गताद्यर्थ इत्यादिकमुक्तम् । अत एवोक्तं कुगतीति सूत्रीयमञ्जर्याम् । सूत्रे प्रादिग्रहणमगत्यर्थमिति कर्मप्रवचनीयानामित्यादि । एवमुत्तरत्र वाक्येऽपि प्रादिग्रहणादित्यपि ज्ञेयम् । वस्तुतस्तु वार्तिकेणोक्तरीत्या सूत्रीयप्रादिग्रहणसामर्थ्यप्रदर्शनेन तद्-व्याख्यानात्सूत्रगतप्रादिग्रहणमेव साधकतयोपन्यस्तमिति तथैव टीकायामुक्तम् । एतेन वार्तिकविषये प्राचार्य इति सूत्रेण समासवचनायोग इति निरस्तम् ।

गताद्यर्थ इत्यत्रापि पदसङ्ग्राह्योक्तिः प्रकृष्ट इति । अनेन गताद्यर्थवृत्तिम् अस्वपदविग्रहेण नित्यसमासत्वं च दर्शयतीत्यादि शेष्याद्युक्तिं मनसि निधायाह । प्रतिस्थितमित्युक्तिस्त्विति । ‘‘कुगति प्रादय’’ इति प्रतिगतमक्षं प्रत्यक्षमित्युच्यते एवमपि ‘‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरि’’ति स दोषस्तदवस्थ एवेति चेन्न । पीतपातञ्जलजलानामेतच्चोद्यं चमत्कारं न करोतीत्यादिचान्नभट्टीं मनसि निधायाशङ्क्य निराकरोति । न च प्रत्यक्षशब्द इत्यादि । नियतलिङ्गत्वापत्येति प्रत्यक्षपदगतनपुंसकलिङ्गस्यैव नियमेनापत्येत्यर्थः । अभिधेयलिङ्गत्वेति । अक्षातिरिक्ततत्तदभिधेयलिङ्गत्वाभावेत्यर्थः । द्विगुप्राप्तापन्नालंगतिपूर्वसमासेष्विति पाठः । द्विगुपदाभावस्तु लेखकप्रसादात् । अयं चार्थानुवादो पूर्वगतिशब्दपूर्वके समासे च परवल्लिङ्गता न भवतीत्यर्थात् । पूर्वपदस्य प्रागेव सत्वेऽपि गतिशब्देऽपि सम्भवाभिप्रायेण तथा व्याख्यानमाश्रितम् । क्वचित्प्रक्रियायां गतिपूर्वेत्येव पाठः । क्वचिदिह टीकायां पूर्वगतीत्यपीत्यवधेयम् । अत्र न्यायवाचस्पत्याद्यनुसारेण तत्र तत्र व्याख्यानं ज्ञातव्यम् । सम्बन्धस्तु दर्शनीयोऽस्ति ।

ननु गतिशब्दस्य गतिमात्रपरत्वात्कथं प्रतिशब्दस्य तत्र निवेश इत्यतः गतिग्रहणमिह प्राद्युपलक्षणमन्यासम्भवादिति परवल्लिङ्गसूत्रीयशेष्यनुसारेणाह । गतिग्रहणस्येति । गतिशब्देन प्रादयस्तत्संज्ञका गृहीता इत्यर्थः । गतिग्रहणस्य प्राद्युपलक्षणत्वादेव काशिकादौ निष्कौशांबिरित्येव गतिसमासोदाहरणं कृतमित्याशयेन तदेवात्र विशेष्यनिघ्नतायामुदाहृत इति ज्ञेयम् । प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्य इति कुगतीति सूत्रीयकाशिकां मनसि कृत्वा शङ्कते । न च प्रादिसमास इति ।

ननु कर्मप्रवचनीयानां प्राप्तिरेव नास्ति प्रादीनां गतिग्रहणेन विशेषितत्वात् । कर्मप्रवचनीय संज्ञायागत्युपसर्गसंज्ञापवादकतया तस्यां सत्यां गतित्वाभावप्रसङ्गादिति चेन्न । निष्कौशांबिरित्यादौ समाससिद्धये प्रादीनामगत्यर्थानामपि ग्रहणाय प्रादिग्रहणस्य सूत्रे उक्तरीत्या कृतत्वेन कर्मप्रवचनीयानामपि प्राप्त्या समासप्राप्तेस्तन्निषेधसम्भवादिति ध्येयम् ।

कर्मप्रवचनीयत्वप्रयोजकेति । वृक्षं प्रति विद्योतते विद्युदित्यादाविव लक्षणादीनां प्रयोजकानामभावादित्यर्थः । प्रादिषु समासप्रतिषेधवचनस्य सुपुरुषो ऽतिपुरुष इत्यादिप्रयोगानुसारेण हरदत्तादिभिः समासो भवत्येवेति सङ्कोचितत्वेनात्र विषयेऽपि सङ्कोचकल्पनोपपत्तेरिति समाधातुं शक्यम् । तथापि स्पष्टत्वात्तच्छिष्यैरेवोह्यतामिति भावेन प्रकारान्तरमेतदुक्तम् । एतेनोक्तपक्षे कर्मप्रवचनीययोगादेव द्वितीयोपपत्तिरिति न चेति शङ्कानवकाश इत्यपि निरस्तम् । वस्तुस्थितिकथनाय तत्पक्षपरित्यागेन कर्मप्रवचनीयत्वाभावाश्रयणेन शङ्कोदयात् । बुभुक्षितमिति । बुभुक्षितस्येत्यर्थः । तथैव शेष्यादौ । तथा सति प्रतिशब्देति । तथा सति षष्ट्या आश्रयणप्रसङ्गः । ततश्च न तथेति योज्यम् । यद्वा तथा सति तथाङ्गीकारे प्राप्ते यो आश्रयणप्रसङ्गस्तस्मादिति योज्यम् । आश्रयणं प्रसज्यत इति तु फलितोऽर्थः । अत्र पक्षे अक्षस्येति षष्टीत्येव पूर्णमिति न प्रत्यक्षस्येति विशिष्टोपादानव्यर्थमित्यपरितोषाच्च न भट्टानुसारेण प्रकारान्तरेणावतारयति । यद्वा ननु अक्षमक्षं प्रतिवर्त्तत इति । इन्द्रियगुणकर्मेति । इन्द्रियस्य यानि गुणकर्मसामान्यानि तेषामक्षं प्रतिवर्तमानत्वादिति प्राप्तिरित्यर्थः । उपलक्षणं चैतत् । लक्ष्यभूतचक्षुरादिप्रत्यक्षेऽक्षं प्रति स्थितत्वाभावेनासम्भवः स्यादिति ज्ञेयम् । उद्योतकरवार्त्तिकेति । न्यायवार्त्तिकेत्यर्थः ।

ननु नाव्ययीभावादतोऽं त्वपञ्चम्या इत्यादिनामादेशविधानेऽपि अपञ्चम्या इत्यादिनिषेधात्प्रकृते अमादेशाभावः किन्नस्यादित्यतस्तन्निषेधकं हि अपञ्चम्या इत्येकं तृतीयासप्तम्योर्बहुलमिति चापरम् । ताभ्यां पञ्चमीतृतीयासप्तमीषु अमभावप्राप्तवपि षष्ट्यास्तन्निषेधाभावादमादेशस्याभावेत्याशयेनाह । नाव्ययीभावादिति । चतुर्थीषष्ठीद्विवचनबहुवचने चेति ॥ अत्र चतुर्थीति संप्रसारणचतुर्थीग्रहणम् । तेन वचनस्यापि सङ्ग्रह इति ध्येयम् । स्वसहकारि यच्छक्तयादीति विग्रहः । शब्दव्यावृत्त्येति । शब्दे अविद्यमानं यादृशं प्रत्यक्षाद्यनुसारित्वं तस्यैव विवक्षितत्वादित्यर्थः । इत्यतो व्याचष्ट इति । गत्यर्थस्य ज्ञनार्थत्वमाश्रित्येति शेषः । अप्प्रत्यये पकारद्वययुक्त एव पाठः ।