लोकवाक्याद्विशेषश्चाव्यभिचारेण सिध्यति
लीलावत्युक्तमोक्षसाधकानुमानभङ्गः
लोकवाक्याद्विशेषश्चाव्यभिचारेण सिध्यति
सुधा
आत्मा कदाचिद्ध्वस्ताविगुणो विभुत्वे सति कार्यविगुणवत्त्वान् महाप्रलयावस्थायामाकाशवदिति चासत् । सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् । असिद्धेश्च । जीवात्मपक्षीकारेऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् । तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् । जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।
आत्मत्वं कदाचिद्ध्वस्ताविगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । तथा सति हेतोरसिद्धिप्रसङ्गात् । जातित्वं हेतुरिति चेन्न । पूर्वानुमानदोषापरिहारात् । घटत्वादावनैकान्तिकत्वाच्च ।
अविगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न । सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् । विभुकार्यविगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न कोऽपि दोष इति चेन्न । कार्यविगुणवत्पदस्य वैयर्थ्यात् । तत्त्यागेऽप्यर्थान्तरत्वात् । अविगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।
वाक्यार्थचन्द्रिका
श्रीवल्लभोक्तमनुमानमाशङ्कते आत्मेति । धर्माणामिदानीमुपलभ्यमानतया बाधपरिहारार्थं कदाचिदित्युक्तम् । पर्यायेण ध्वंसस्य संसारदशायां सिद्धत्वेनार्थान्तरतानिवृत्त्यर्थमग्रहणम् । तेन युगपदिति चात्र विवक्षितम् । सङ्ख्यापरिमाणादीनां मोक्षदशायामपि विद्यमानत्वेन बाधपरिहाराय विपदम् । पीलुपाकपक्षे घटादिषु विगुणैः सह ध्वंस्यमानेषु व्यभिचारनिवृत्त्यर्थं विभुत्वे सतीति हेतुविणम् । ईश्वरे व्यभिचारनिवृत्त्यर्थं कार्यविगुणवत्त्वादित्युक्तम् । दृष्टशन्ते च शब्दव्यक्तिभेदमादायापदसार्थक्यमिति ध्येयम् । किमत्रात्ममात्रस्य पक्षत्वमभिमतं किंवेश्वरव्यतिरिक्तस्यात्मन इति विकल्पद्वयं मनसि निधायाद्यं दूषयति सर्वेति । तद्गुणानां नित्यत्वादिति भावः ॥ असिद्धेश्चेति । तद्गुणानामकार्यत्वेन विभुत्वे सति कार्यविगुणवत्त्वस्येश्वरात्मन्यभावादसिद्धेश्चेत्यर्थः । द्वितीयेऽपि किं जीवात्ममात्रं पक्ष इत्यभिप्रेतं नित्यसंसारिव्यतिरिक्तजीवा वेति विकल्पं मनसि निधायाद्यं प्रत्याह जीवात्मेति । नान्त्य इत्याह तदतिरिक्तेति ॥ तत्रैवेति । नित्यसंसारिष्वेवेत्यर्थः । तत्र विभुत्वे सति कार्यविगुणवत्त्वसत्त्वेऽपि नित्यसंसारितया कदाचिद् ध्वस्ताविगुणवत्त्वाभावादिति भावः ॥ विभुत्वाभावेनेति । उत्क्रान्तिगत्यागतीनामित्यधिकरणोक्तन्यायेनेति शेषः ।
आत्मत्वमिति । तथा च किमत्रात्ममात्रस्य पक्षत्वं किंवेश्वरात्मव्यतिरिक्तजीवात्मनामित्यादिविकल्पदोषोऽनवसरग्रस्त इति भावः । उक्तप्रतिज्ञायामपि किं विभुत्वे सति कार्यविगुणवत्त्वमेव हेतुतयाऽभिमतं तदन्यद्वा किञ्चिदिति विकल्पद्वयं मनसि निधायाद्यं दूषयति तथा सतीति । आत्मत्वस्य विभुत्वे सति कार्यविगुणवत्त्वाभावादिति भावः । द्वितीयं शङ्कते जातित्वमिति ॥ पूर्वानुमानेति । जातित्वस्य हेतुत्वे हीदमनुमानान्तरमेव विवक्षितमोक्षसाधकतयोक्तं स्यात् । न चैतावताऽऽत्मा कदाचिद् ध्वस्ताविगुणः । विभुत्वे सति कार्यविगुणवत्त्वादिति लीलावतीकारोक्तानुमानस्य जीवात्मनां विभुत्वाभावेनासिद्धिलक्षणो यो दोष उक्तस्तस्यापरिहारेत्यर्थः । मास्त्वनेन पूर्वानुमानदोषपरिहारः । अनुमानान्तरमेवैतन्मोक्षसाधकमस्त्वित्यत आह घटत्वादाविति । तत्र जातित्वे सत्यपि कदाचिद् ध्वस्ताविगुणद्रव्यनिष्ठत्वरूपसाध्यस्यासत्त्वादिति भावः । यद्वा सन्ततित्वानुमाने दृष्टान्ते साध्यवैकल्यरूपो यो दोष उक्तस्तस्यात्रापरिहारात् । अत्रानुमाने दृष्टान्तीकृतस्याकाशस्यावृत्तितया ध्वस्ताविगुणद्रव्यनिष्ठात्वाभावात्साध्यवैकल्पमित्यर्थः । नाचात्राकाशत्वं दृष्टान्तः । तच्च कदाचिद् ध्वस्ताविगुणद्रव्यनिष्ठमिति न साध्यवैकल्यमिति वाच्यम् । तथाऽपि तस्याजातित्वेन साधनवैकल्यापरिहारादित्याशयात् । दृष्टान्तान्तरमेव क्रियत इति न तद्वैकल्यमित्यरुचेराह घटत्वादावितीति योज्यम् । यद्वाऽत्मत्वस्य जातितायाः पूर्वं निरस्तत्वेनात्मत्वे जातित्वरूपहेत्ववृत्त्या हेत्वसिद्धिरूपात्मपक्षकानुमानदोषस्यात्रानुमानेऽपि प्राप्तेरित्यर्थः । अथवा ध्वस्ता अशेषा विशेषा गुणा यस्येति द्रव्यस्य ध्वस्तागुणवत्त्वमुक्तम् । तत्र विगुणानामशेषाणां ध्वस्तत्वमिति कोऽर्थः । किं सर्वेऽपि विगुणा ध्वस्ता भवन्तीति किंवा निःतया ध्वस्ता भवन्तीति । अथवा तत्र विगुणान्तरानुत्पादेनेति । आद्ये सिद्धसाधनता । सर्वेषामप्यात्मविगुणानां परेणानित्यतायाः स्वीकारात् । अत एव न द्वितीयः । न हि गुणाः सावयवा येन सशेषं ध्वस्ता भवन्तीति शङ्क्यते । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । महाप्रलयानन्तरमाकाशे पुनः शब्दान्तरोत्पादसम्भवात् । महाप्रलयानन्तरं पुनर्न सृष्टिरित्यस्य च मानाभावेनासिद्धेरिति । दुःखसन्ततेरात्यन्तिकोच्छेदसाधकपूर्वानुमानदोषाणामात्मत्वपक्षकानुमानेऽपि साम्यादित्यर्थः । पीलुपाकपक्षमाश्रित्याह घटत्वादाविति । यद्वा पूर्वानुमाने आत्मत्वपक्षकानुमाने ये दोषा उक्तास्तेषामप्यत्राप्यपरिहारादित्यर्थः । तथा हि । आत्मत्वस्यानुगतत्वाभावेन प्रातिस्विकतया सर्वात्मत्वानां पक्षीकारे परमात्मत्वे बाधः । तद्व्यतिरिक्तजीवात्मत्वपक्षीकारे नित्यसंसार्यात्मत्वेषु बाधः । तद्व्यतिरिक्तजीवात्मत्वपक्षीकारे च नित्यसंसार्यात्मत्वेऽनैकान्त्यम् । अनेकसमवेतत्वरूपजातित्वस्यात्मत्वेऽभावादसिद्धेश्चेति ।
घटत्वादेर्ध्वस्ताविगुणद्रव्यनिष्ठत्वाभावेऽप्यविगुणशून्यप्रथमक्षणावच्छिन्नघटादिनिष्ठत्वेन साध्यस्यापि सत्त्वान्न तत्र व्यभिचार इत्याशङ्कते अशेषेति । एवमपि घटत्वादौ नानैकान्त्यपरिहारः । घटादेरविगुणशून्यद्रव्यत्वाभावेन तादृशद्रव्यनिष्ठत्वस्य घटत्वादावभावात् । न च प्रथमक्षणे घटादेर्निर्गुणस्यैवोत्पत्तेर्नाविगुणशून्यत्वाभाव इति वाच्यम् । सगुणद्रव्यस्यैवोत्पत्त्या प्रथमक्षणे निर्गुणत्वस्यासम्मतेरित्याह सगुणानामेवेति ॥ समर्थितत्वादिति । ‘कारणस्य गुणास्तेन भवेयुः कार्यगा अपी’त्यादिना वैशेषिकपरीक्षायामिति शेषः ॥ विभ्विति । विभुत्वे सति यत्कार्यविगुणवद्वृत्तिजातित्वादित्यर्थः । तथा च घटस्य विभुत्वे सति कार्यविगुणत्त्वाभावान्न तादृशद्रव्यवृत्तिजातित्वं घटत्वस्येति न तत्र व्यभिचार इति भावः । अत्राप्यात्मत्वस्य विभुकार्यविगुणवद्वृत्तिधर्मत्वेऽपि गुणवद्वृत्तिजातित्वाभावादसिद्धिरिति सत्येव दोष दोषान्तरमाह कार्येति । विभुवृत्तिजातित्वादित्येतावतैव घटत्वादिजातौ व्यभिचारपरिहारादित्यर्थः । अस्तु तहि तत्त्यागेन विभुवृत्तिजातित्वमात्रं हेतुरित्यत आह तत्त्यागेऽपीति । अर्थान्तरतामेवोपपादयति अशेषेति । एवञ्चात्मनि कदाचिद् ध्वस्ताविगुण इति लीलावत्युक्तानुमानाभिप्रायमपि बोध्यम् । तथा चात्मा कदाचिद् ध्वस्ताविगुण इत्याद्युमानैरविगुणध्वंससिद्धावपि तन्मात्रस्य मोक्षत्वाभावादात्यन्तिकदुःखनिवृत्तिविशिष्टपरमानन्दावाप्तेरेव च मोक्षत्वात्तस्याश्चोक्तानुमानैरसिद्धत्वान्नानुमानेन मोक्षसिद्धिरिति भावः ॥ वक्ष्यमाणत्वादिति । ‘साङ्ख्यनैयायिकाद्याश्च प्राहुर्मोक्षं तु निःसुखम् । इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयमि’त्यादिना चतुर्थस्य द्वितीयपाद इति शेषः ।
परिमल
मोक्षसाधकमनुमानान्तरं शङ्कते आत्मेति । ध्वस्तसामान्यगुणवत्त्वेनार्थान्तरतावारणाय साध्ये विपदम् । घटादावव्यभिचाराय हेतौ सत्यन्तम् । ईश्वरात्मन्यव्यभिचाराय कायेर्त्युक्तिः । कालादावव्यभिचाराय विपदम् । आकाशे तदा शब्दमात्रस्य नाशात् साध्यानुगमो दृष्टशन्त इति भावः ॥ असिद्धेश्चेति । ईश्वरात्मनीत्यनुषङ्गः ॥ स्वयमेवोररीकृतत्वेनेति ॥ संसार्येकस्वभावा एव केचिदात्मान इत्युदयनोक्तेरिति भावः ॥ विभुत्वाभावेनेति । उत्क्रान्तिनये जीवाणुत्वस्य साधनादिति भावः ॥ असिद्धिप्रसङ्गादिति । आत्मत्वे गुणवत्त्वाभावेन हेतोरभावादिति भावः ॥ पूर्वानुमानेति । जातित्वारूपहेत्वन्तरोक्तावपि पूर्वानुमाने यो दोषोऽसिध्यादिरुक्तस्तत्परिहारस्याप्राप्तेरित्यर्थः । ईशानीशात्मगतात्मत्वपक्षीकारे ईशस्य नित्यसंसारिणां ध्वस्तागुणवत्त्वाभावेनांशे बाध इति भावः । अस्त्वेवमस्मिन्हेतौ को दोष इत्यत आह घटत्वादाविति । यद्वा ईश्वरात्मत्वपक्षीकारे बाधासिद्धी । (सर्वजी)जीवात्मत्वपक्षीकारे तु संसार्येकस्वाभावत्वेनाङ्गीकृतजीवान्तरांशे बाधः । आत्मत्वसामान्यस्य पक्षत्वे तु तस्य वैशेषिकनयोक्तदिशा जातित्वाभावेनासिद्धेरिति पूर्वानुमानोक्तबाधादिदोषपरिहादित्यर्थः । व्यभिचारं चाह घटत्वादाविति । यद्वा पूर्वानुमाने दुःखसन्ततिपक्षानुमाने यः प्रतिज्ञार्थविकल्पेन दोष उक्तस्तस्यापरिहारादित्यर्थः । तथाहि । ध्वस्ताशेषेत्यादिप्रतिज्ञार्थः को विवक्षितः । सर्वे विगुणा नश्यन्तीति उत निश्शेषतयेति अथ विगुणान्तरोत्पादराहित्येन । नाद्यः । सिद्धसाधनात् । न द्वितीयः। निरवयवत्वात् । न तृतीयः । सर्वमुक्तोक्तेरपाकरणेन संसारिस्वभावात्मनां परेणाप्यङ्गीकृतत्वेन चात्मत्वस्य विगुणान्तरोत्पादसमानाधिकरणतया बाधात् । (अ)सर्वमुक्तिपक्षे गगने शब्दान्तरोत्पादसम्भवाच्चेति ॥ समर्थितत्वादिति । वैशेषिकनये ‘कारणस्य गुणाः सर्वे भवेयुः कार्यगा अपी’त्यादिनेति भावः । तथा चाद्यक्षणेऽपि गुणसत्वाद् घ(टत्वादा)टादावनैकान्त्यमेवेति ज्ञेयम् । एतद्दोषपरिहाराय विशिष्टं हेतुमाशङ्कते विभुकार्येति । विभुत्वे सति कार्यविगुणवद् यद्द्रव्यं तद्वृत्तिजातित्वादित्यर्थः ॥ वैयर्थ्यादिति । विभुद्रव्यवृत्तिजातित्वादित्युक्त्यैवानैकान्त्यनिरासादिति भावः। मोक्षासिद्धिरूपमर्थान्तरत्वं व्यनक्ति अशेषेति । चतुर्थे वैशेषिकाभिमतमोक्षनिरासप्रस्तावे वक्ष्यमाणत्वादित्यर्थः ।
यादुपत्यं
लीलावत्युक्तमनुमानमाशङ्कते आत्मेति । इदानीमात्मनि विगुणानामुपलम्भेन तद्ध्वंससाधने बाधो ऽतः कदाचिदित्युक्तम् । सुषुप्तिदशायां बुद्ध्यादिविगुणध्वंससत्त्वेन सिद्धसाध्यतावारणायाशेषेति । तदानीं भावनाया धर्माधर्मयोश्च सत्त्वान्नागुणध्वंस इति भावः । सङ्ख्यादिसामान्यगुणानामात्मनि मोक्षदशायामपि सत्त्वेन बाधपरिहाराय विशेषेति । पीलुपाकपक्षे, सति घटादौ तद्रूपादिध्वंसाभावेन तत्र व्यभिचारोऽतो विभुत्वे सतीत्युक्तम् । ईश्वरात्मनि व्यभिचारवारणाय कार्येति । ईश्वरे कालादौ च कार्यभूतसंयोगादीनां सत्त्वेन तत्र व्यभिचारोऽतो विशेषेति । गुणवत्त्वं च समवायेन विवक्षितमतो जगदाधारताप्रयोजकसम्बन्धेन विगुणवति काले न व्यभिचारतादवस्थ्यमिति द्रष्टव्यम् । समवायेनैव कार्यविवत्त्वलाभाय गुणग्रहणम् । इदानीमाकाशे शब्दसत्त्वेन साध्यवैकल्यपरिहाराय महाप्रलयेति । अपदं विद्यमानापरं न त्वेनेकापरम् । अत एकविगुणवत्याकाशेऽनेकागर्भसाध्याभावात्साद्यवैकल्यमिति शङ्काऽनवकाशः । शब्दव्यक्तीनामेवानेकत्वमभिप्रेत्येदमित्यपि केचित् ॥ पूर्वानुमानदोषापरिहारादिति । ध्वस्ताविगुणवत्त्वस्य कोऽर्थः । किं सर्वेऽपि विगुणा ध्वस्ता भवन्तीति । उत निश्शेषतया ध्वस्ता भवन्तीति । अथवा तत्र विगुणान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनत्वप्रसङ्गात् । सर्वेषामप्यात्मविगुणानां परेणानित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि गुणाः सावयवा येन सशेषं ध्वस्ता भवन्तीति शङ्केत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । महाप्रलयानन्तरमाकाशे पुनः शब्दान्तरोत्पत्तिसम्भवात् । महाप्रलयानन्तरं पुनर्न सृष्टिरित्यस्य परं प्रत्यसिद्धेरिति दुःखसन्ततेरात्यन्तिकोच्छेदसाधकपूर्वानुमाने ये दोषा उक्तास्तेषामपरिहारादित्यर्थः । केचित्तु पूर्वानुमाने आत्मपक्षके ये दोषा उक्तास्तेषामत्रापरिहारादित्यर्थः । तथा हि । आत्मत्वस्यानुगतस्याभावेन प्रातिस्विकतया सर्वात्मत्वानां पक्षीकारे परमेश्वरात्मत्वे बाधः । जीवात्मत्वानां पक्षीकारे नित्यसंसार्यात्मत्वेषु बाधः । तदतिरिक्तात्मत्वपक्षीकारे तत्रैवानैकान्त्यम् । अनेकसमवेतत्वरूपजातित्वस्यात्मत्वेऽभावेनासिद्धेश्चेत्याहुः । पीलुपाकपक्षमाश्रित्याह घटत्वादाविति ॥ अविगुणशून्येति । अत्र शून्यशब्दः संसर्गाभावमात्रपरः । तेन प्रथमक्षणे घटादावप्यगुणप्रागभावसत्त्वेन घटत्वादौ साध्यसत्त्वान्न व्यभिचार इत्याशयः ॥ समर्थितत्वादिति । समयपादे ‘कारणस्य गुणास्तेन भवेयुः कार्यगा अपि’ इत्यत्र यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुरिति समर्थितत्वादित्यर्थः । घटत्वादौ व्यभिचारवारणाय हेतौ विणं देयमित्याशङ्कते विभुकार्येति । विभुत्वे सति यत्कार्यविगुणवत्तद्वृत्तिजातित्वादित्यर्थः ॥ वक्ष्यमाणत्वादिति । चतुर्थाध्याय इति शेषः । तथा चात्यन्तिकदुःखनिवृत्तिविशिष्टपरमानन्दावाप्तेरेव मोक्षत्वात्तस्याश्चानेन सिद्ध्याऽर्थान्तरतेति भावः ।
श्रीनिवासतीर्थीया
आत्मा कदाचिदिति । इदानीमात्मनि विगुणोपलम्भेन तद्ध्वंससाधने बाधः स्यादतः कदाचिदित्युक्तम् । सुषुप्तिदशायां बुद्ध्यादिविगुणध्वंससत्त्वेन सिद्धसाधनतावारणायाशेषेत्युक्तम् । तदानीम्भावनासंस्कारस्य धर्माधर्मयोश्च सद्भावान्नाविगुणध्वंस इति नोक्तदोषः । सङ्ख्यादिसामान्यगुणानामात्मनि मोक्षदशायामपि सत्त्वेन बाधवारणाय विपदम् । हेतौ घटादौ व्यभिचारवारणाय विभुत्वे सतीत्युक्तम् । ईश्वरे व्यभिचारवारणाय कार्येत्युक्तम् । कालदिशोः कार्यभूतसंयोगादिगुणवत्त्वेन हेतुत्वसद्भवाद्विगुणवत्त्वाभावेन तद्ध्वंसायोगेन साध्याभावाद्व्यभिचारः स्यात्तद्वारणाय विपदम् । जगदाधारताप्रयोजकसम्बन्धातिरिक्तसमवायसम्बन्धेन विगुणवत्त्वस्य विवक्षितत्वान्न पुनः कालादौ व्यभिचार इति द्रष्टव्यम् । इदानीमाकाशे शब्दरूपविगुणस्यैव सद्भावेन साध्यवैकल्यपरिहाराय महाप्रलयावस्थायामित्युक्तम् । आकाशेऽपि स्थित्यवस्थायां कार्यविगुणवत्त्वमस्ति कदाचिन्महाप्रलयावस्थायां ध्वस्तागुणवत्त्वं चास्तीत्यर्थः॥ असिद्धेश्चेति । जीवात्मनामपि पक्षकोटिनिविष्टत्वेन तेषामणुत्वस्य ज्ञोऽत एवेति साधितत्वेन विभुत्वरूपविणस्यासिद्धेरित्यर्थ ॥ जीवात्मेति । ईश्वरातिरिक्तेत्यर्थः । तथा च न बाध इति भावः । तेषां मोक्षाभावादिति भावः ॥ संसारीति । तेषां मोक्षाभावादित्यर्थः ॥ विगुणद्रव्येति । विगुणवद्द्रव्येत्यर्थः ॥ प्रतिज्ञार्थ इति । आत्मकदाचिद्ध्वस्ताविगुण इति प्रतिज्ञार्थ इत्यर्थः ॥ हेतोरिति । विभुत्वे सति कार्यविगुणवत्त्वरूपहेतोरात्मत्वेऽभावेनासिद्धिप्रसङ्गादित्यर्थः ॥ अविशेषेति । ध्वस्तपदं परित्यज्यत इत्यर्थः । ननु प्रथमक्षणावच्छिन्नघटमादाय साध्यस्यापि सत्त्वान्न व्यभिचार इत्यत आह सगुणानामेवेति । तथा च प्रथमं निर्गुणमेव द्रव्यमुत्पद्यते पश्चात्तत्समवेता गुणा उत्पद्यन्त इति पक्षस्य दूषितत्वादित्यर्थः । तथा च घटत्वादौ व्यभिचारः स्यादेवेति भावः ॥ हेतुत्वादिति । तथा च यत्र कदाचिद्ध्वस्ताविगुणवद्द्रव्यनिष्ठत्वाभावस्तत्र विभुत्वे सति यत्कार्यविगुणवत्तद्वृत्तिजातित्वाभाव इति व्यतिरेकव्याप्तौ घटत्वं दृष्टान्त इति द्रष्टव्यम् ॥ वैयर्थ्यादिति । विभुवृत्तिजातित्वादित्येव हेतुरस्त्विति भावः ॥ अर्थान्तरेति । अनेनानुमानेनाविगुणध्वंसस्य मोक्षत्वसिद्धेस्तस्य च मोक्षत्वाभावस्य वक्ष्यमाणत्वादिति भावः । तथा च बाध इत्यत्र तात्पर्यम् ।
वाक्यार्थरत्नमाला
श्रीवल्लभोक्तमिति ॥ लीलावतीकारोक्तमित्यर्थः । इदानीमुपलभ्यमानतयेत्यादिनयनप्रसादिन्यनुसारेण कृत्यान्याह ॥ धर्माणामिदानीमित्यादि ॥ पीलुपाकपक्ष इति ॥ पीलवः परमाणव एव पाकदशायां पच्यंते पाकेन परमाणुपर्यन्तनाशे सति पिठरपदोक्तघटादिरूपावयविनः पाकदशायामनवस्थानेन तत्पाकासम्भव इति पक्ष इत्यर्थः । अत्र पक्षे द्रव्यस्य स्वगुणैः सहैव ध्वस्यमानतया द्रव्यसत्ताकाले तद्ध्वंसाभावेन ध्वस्तेत्युक्तध्वंसपूर्वकालत्वाभावादुक्तसाध्याभावः । अत एव पूर्वकालत्वाभावमुपपादयितुं सहैव ध्वस्यमानेष्वित्युक्तम् । पिठरस्यावयविन एव पाकपक्षे तु तत्सद्भाव एव पाकदशायामविगुणध्वंसाङ्गीकारेण ध्वस्तेति साध्यस्यापि सत्वेन व्यभिचारायोगात्तत्परित्यागं वक्तुं पक्षविशेषोपादानमिति ज्ञेयम् । तत्वप्रदीपिकायां नित्यत्वे सत्यनित्येत्युक्ते द्दिक्कालयोर्व्यभिचारस्तत्परिहाराय कार्यगुणवत्वादिति विशेष्ये उक्ते पुनस्तत्रैव व्यभिचारप्राप्तौ तन्निवृत्तये विपदम् ।
विगुणवत्वदिविशेषिते ईश्वरे व्यभिचारात्तत्परिहाराय कार्येत्युक्तमिति मनसि कृत्वाह । ईश्वर इति । अपदसार्थक्यमिति आकाशे शब्दाख्यस्यैकस्यैव विस्य सत्वेन पदार्थासम्भवादपदमाकाशे निरर्थकमिति न मन्तव्यम् । शब्दव्यक्तिभेदाङ्गीकारेण तासां चानेकत्वेनापदस्य तदर्थत्वोपपत्तेरित्यर्थः । मूलगतासिद्धिश्चेति स्थलद्वये विशेष्यविणयोः क्रमेण असिद्धिप्रतिपादनमिति स्पष्टम् । पूर्वानुमाने यो दोषो ऽसिध्यादिस्तस्यात्रापरिहारादिति प्रतीतिनिरासाय व्याचष्टे । जातित्वस्येति । अत्र पक्षे प्रतीयमानार्थत्यागं मनसि निधाय पूर्वत्वं व्यवहितमङ्गीकृत्य प्रतीयमानार्थानुसारेण व्याचष्टे । यद्वेत्यादिना ॥ पीलुपाकपक्षमाश्रित्याह । घटात्वादावितीत्यन्तेन । घटत्वादाविति वाक्यस्य तत्र जातित्वे सत्यपि ध्वस्ताविगुणद्रव्यनिष्टत्वरूपसाध्यस्याभावेन तत्रानैकान्त्यमिति पूर्वोक्तार्थः सिद्ध इति मत्वा पुनरव्याख्याय तद्वाक्यतदुक्तदोषोद्धारपरतयाऽशेषेति वाक्यमवतारयति । घटत्वादेरित्यादिना ॥ इदानीं पूर्वत्वमव्यवहितमङ्गीकृत्याप्याह । यद्वा पूर्वानुमान इति ।