लोकवाक्याद्विशेषश्चाव्यभिचारेण सिध्यति
किरणावल्युक्तमोक्षसाधनानुमानभङ्गः
लोकवाक्याद्विशेषश्चाव्यभिचारेण सिध्यति
सुधा
अपरे पुनरनुमिमते । दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति । तदसत् । सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् । नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात्समर्थयिष्यमाणत्वाच्च । तद्व्यतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् । पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च । सर्वमुक्तिपक्षे फलमूलयोरभावेन सोऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न । सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् । कालक्षणसन्ताने व्यभिचाराच्च ।
किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् । आद्ये सिद्धसाधनता । मोक्षमनङ्गीकुर्वताऽपि दुःखानां विनाशिताभ्युपगमात् । अत एवात्यन्तमित्युक्तमिति चेत् । कोऽस्यार्थः । किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति । उत निःतयोच्छिद्यन्त इति । अथवा तत्र दुःखान्तरानुत्पादेनेति । न प्रथमः । सिद्धसाधनताऽनिस्तारात् । सर्वेषामपि दुःखानां परेणानित्यतायाः स्वीकृतत्वात् । अत एव न द्वितीयः । न हि दुःखं सावयवद्रव्यम् । येन समुच्छिद्यत इति शङ्क्येत । न तृतीयः । दृष्टान्तस्य साध्यविकलत्वात् । न हि दीपज्वालासन्ततिरेवमुच्छिद्यते । तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् ॥ न द्वितीयः । दुःखधर्मो हि जातिर्वा तदन्यो वा । आद्येऽपसिद्धान्तः । जातेर्नित्यत्वाङ्गीकारात् । न द्वितीयः । आश्रयासिद्धेः । गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् । अङ्गीकारेऽप्यर्थान्तरता स्यात् । न हि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिद्धिरिति ।
वाक्यार्थचन्द्रिका
अपर इति । किरणाबलीकारादय इत्यर्थः ॥ अत्यन्तमुच्छिद्यत इति । दुःखप्रागभावासमानकालीनध्वंसप्रतियोगिनीत्यर्थः । प्रलयावस्थायां दुःखसन्ततेरुच्छेदस्वीकारात्सिद्धसाधनतानिवृत्त्यर्थमत्यन्तपदम् ॥ तैरपीति । कन्दलीकारलीलावतीकारप्रभृतिभिः । कैश्चिद्वैशेषिकैः सर्वमुक्त्यनङ्गीकारेण केषाञ्चिदात्मनां संसार्येकस्वभावताऽङ्गीकारादिति भावः ॥ समर्थयिष्यमाणत्वाच्चेति । त्रिविधजीवयोग्यताया अनादिनित्यत्वसमर्थनेन नित्यसंसारिजीवानां सत्त्वस्य ॥ सर्वथापि तु त एवोभयलिङ्गाद् इत्यत्र समर्थयिष्यमाणत्वाच्चेत्यर्थः ॥ तत्रैवेति । नित्यसंसारिदुःखसन्ततावेवेत्यर्थः ॥ पार्थिवेति । तत्र हि सन्ततित्वे सत्यपि नात्यन्तोच्छित्तिरस्ति सर्गान्तरेषु सरूपाद्युत्पत्तेरित्यर्थः । अत्र तदीयमेव परिहारमुद्भावयति सर्वमुक्तिपक्ष इति ॥ फलमूलयोरभावेनेति । सर्वमुक्तिपक्षे साऽपि सन्ततिरत्यन्तमुच्छिद्यत एव । सर्वात्मना ध्वस्ताविगुणवत्त्वेन धार्मधार्मख्यनिमित्तस्य सुखदुःखोपभोगलक्षणप्रयोजनस्य चाभावादित्यर्थः ॥ निराकरिष्यमाणत्वादिति । ‘सर्वथापि तु त एवोभयलिङ्गादि’त्यादिनेति शेषः । तत्र नित्यसंसारिजीवसमर्थनादिति भावः ॥ काल(ल)क्षणसन्तान इति । न च तस्याप्यत्यन्तोच्छेदान्न व्यभिचारः । तथा सति कदेति प्रश्नस्य निरुत्तरत्वापातात् ।
अत एवेति । मोक्षमनङ्गीकुर्वताऽपि दुःखादीनां विनाशताऽभ्युपगमेन सिद्धसाधनत्वप्रसङ्गादेव तत्परिहारार्थमत्यन्तमिति साध्ये विणं गृहीतमित्यर्थः ॥ दुःखान्तरेति । स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वमेव दुःखोच्छेदस्यात्यन्तिकत्वमित्यर्थः ॥ सिद्धसाधनतानिस्तारादिति । सिद्धसाधनताया अनिस्तारादपरिहारादित्यर्थः । एतदेव प्रपञ्चयति सर्वेषामपीति ॥ अत एवेति । सिद्धसाधनत्वप्रसङ्गादेवेत्यर्थः । अत एवेत्युक्तमेव प्रथयति न हीति ॥ तत्रैवेति । दीपारोपणेनेति शेषः। आद्यद्वितीयं निषेधति न द्वितीय इति ॥ अङ्गीकारादिति । अन्यथा नित्यमनेकसमवेतमिति लक्षणव्याघातादिति भावः ॥ गुणेष्विति । तत्र द्रव्यगुणकर्मविशेषाणामनभ्युपगमात् समवायस्य च धर्मनिरूपितत्वेन तद्रूपत्वानभ्युपगमात् । उपाधिरूपसामान्यस्य च परम्परासम्बन्धाज्जातिरेवोपाधिरिति पक्षे जातिकोटिप्रवेशात् । पक्षान्तरे च तस्य धर्मिस्वरूपत्वेन दुःखवृत्तित्वासम्भवात् प्रध्वंसात्यन्तान्योन्याभावानां नित्यत्वेन बाधप्रसक्त्याऽसम्भवात् । प्रागभावस्य नित्यत्वभावेऽपि दुःखेऽसम्भवान्न जात्वन्यो धर्मस्तत्र सम्भवतीत्याशयः । अभ्युपेत्यापि यत्किञ्चिद्धर्मसम्भवं दूषयति अङ्गीकारेऽपीति ।
परिमल
एवं स्वमते प्रत्यक्षादिप्रमाणत्रयेण मोक्षास्तित्वमुपपाद्य तार्किकोक्तं मोक्षास्तित्वसाधकानुमानमनूद्य निराह अपर इति ॥ अत्यन्तमिति । तदुच्छेदस्यैव मुक्तित्वमिति भावः ॥ तैरपीति । तार्किकैरपीति भावः ॥ समर्थयिष्यमाणत्वाच्चेति । ज्ञानपादे ‘अनादियोग्यतां चैव कलिवाणीश्वरावधिम् । को निवारयितुं शक्त इत्यादिना अनादियोग्यतोक्तिप्रकरणे ‘चोष्कूयते विश इन्द्रो मनुष्यानि’त्यादिवाक्योदाहरणेन समर्थयिष्यमाणत्वाच्चेत्यर्थः ॥ फलमूलयोरिति । फलं कार्ये द्व्यणुकादौ रूपाद्युत्पादः । मूलमदृष्टं तेजस्संयोगादि तयोरभावादित्यर्थः ॥ निराकरिष्यमाणत्वादिति । चतुर्थे तत्र मोक्षस्वरूपं त्वित्यदिना शून्यवादाद्यभिमतमोक्षस्वरूपनिरासेनेत्येके । ज्ञानपादे त्रिविधजीवसमर्थनेनेत्यन्ये ॥ गणेषु जातिव्यतिरिक्तेति । जातिव्यतिरिक्तधर्मस्यौपाधिकत्वादुपाधेश्च द्रव्यगुणाद्यनतिरेकात् । गुणेषु च द्रव्यगुणाद्यन्यतमस्याप्यभावादिति भावः ।
यादुपत्यम्
एवं स्वमते विप्रतिपन्नं प्रति प्रत्यक्षानुमानागमैर्मोक्षसाधनप्रकारमुक्त्वेदानीमुदयनोक्तं मोक्षसाधनप्रकारमनूद्य दूषयति अपरे पुनरिति ॥ तैरप्यङ्गीकृतत्वादिति । यथाऽऽहोदयनः ‘संसार्येकस्वभावा एव केचिदात्मान इति स्थितम्’ इति ॥ समर्थयिष्यमाणत्वादिति । ‘सर्वथाऽपि तु त एवोभयलिङ्गादि’त्यत्रेति शेषः । तत्र त्रिविधजीवयोग्यताया अनादिनित्यत्वसमर्थने नित्यसंसारिणां जीवानां सिद्धिरिति द्रष्टव्यम् ॥ फलमूलयोरभावेनेति । महाप्रलयानन्तरं परमाणुषु पुना रूपाद्युत्पत्तेः फलं रूपरसादीनामनुभवरूपो भोगो मूलमदृष्टम् । इदमुभयं सर्वमुक्तिपक्षे न सम्भवति । सर्वात्मना ध्वस्ताविगुणत्वादित्यर्थः । यथाऽऽह किरणावलीकारः ‘न हि सर्वमुक्तिपक्षे सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्यापायात्तदुत्पत्तिबीजमस्ति । न च सर्वभोक्तॄणामपवृक्तौ तदुत्पत्तेः प्रयोजनमस्ति । न हि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ती’ति । निराकरिष्यमाणत्वादिति । नित्यसंसारिजीवसमर्थनेनेति शेषः ॥ दुःखान्तरानुत्पादेनेति । तथा च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वं दुःखोच्छेदस्यात्यन्तिकत्वमिति भावः ॥ जातिव्यतिरिक्तधर्मेति । औपाधिकधर्माणां द्रव्यादिपदार्थघटितमूर्तिकत्वेन द्रव्याद्यनाश्रयेषु गुणेषु कथं ते धर्मा अङ्गीकर्तुं शक्या इति भावः । ननु गुणेषु द्रव्यगुणकर्मविशेषाणां वृत्त्यभावेन तद्घटितोपाधिकधर्माणां तत्राङ्गीकर्तुमशक्यत्वेऽपि समवायाभावयोस्तेषु सत्त्वेन तद्घटितधर्माणां तत्राङ्गीकारे न किञ्चिद्बाधकमित्याशयेनाह अङ्गीकारेऽपीति ।
श्रीनिवासतीर्थीया
अपरे तार्किकाः ॥ अनुमिमत इति । अनुमानेन मोक्षं साधयन्तीत्यर्थः ॥ दीपज्वालासन्ततिवदिति । करदीपज्वालासन्ततिवदित्यर्थः ॥ तमेवांशे बाधमुपपादयति नित्यसंसारिणामिति । सकलजीवमध्ये तेषामपि पतितत्वेन तद्गतदुःखसन्ततेरपि पक्षकोटिनिविष्टत्वेन तस्या अत्यन्तमुच्छेदाभावाद्बाधः नित्यसंसारित्वेन तेषां मोक्षाभावादिति भावः ॥ सोऽपीति । पार्थिवपरमाण्वादौ पाकजरूपादिसन्तानेत्यर्थः ॥ दुःखान्येवेति । समुदायस्य समुदाय्यनतिरिक्तत्वादिति भावः । तद्धर्म इति । समुदायिनां दुःखानां धर्मभूतस्तदतिरिक्तः कश्चित्समुदाय इत्यर्थः । अनङ्गीकुर्वता चार्वाकेण ॥ अत एवेति । सिद्धसाधनतापरिहारार्थमेवेत्यर्थः । अस्य अत्यन्तपदस्य । अत एवेत्युक्तं विशदयति न हीति शङ्केतेति । एवं शङ्कायामेव हि निश्शेषतयोच्छेदः साध्यत इति भावः । दीपज्वालासन्ततिः करदीपज्वालासन्ततिः । एवं ज्वालान्तरानुत्पादेन । कुतो नैवमुच्छिद्यत इत्यत आह तत्रैवेति । करदीपिकायामेव परमात्मनि कार्यविगुणवत्त्वाभावादित्यपरः पक्षीभूते प्रकारः शेषः ॥ न द्वितीय इति । तद्धर्मः कश्चिदिति द्वितीयः पक्षो नेत्यर्थः ॥ अनङ्गीकारादिति । अनङ्गीकारे तेषां द्रव्याद्यन्तर्भावासम्भवेन षट्पदार्थातिरेकः स्यादिति भावः । तामेवोपपादयति तथा हीत्यादिना । दुःखनाशासिद्धेरिति भावः ।
वाक्यार्थरत्नमाला
दुःखसन्ततिपक्षकानुमानस्य किरणावलीकारेणोक्तत्वेऽप्यन्यैरुक्तत्वाभावादपर इति बहुवचनायोग इत्यतो नेदमनुमातृबहुत्वाभिप्रायं बहुवचनम् । किं त्वेकस्मिन् बहुमानप्रयुक्तं बहुवचनं युष्मदादि गुरावेकेषामित्यस्य भाष्यवार्त्तिकानुक्तत्वेऽपि काशिकाकारेणोक्तस्य केवलयुष्मदर्थेऽपि बहुत्वाभिधायकतया तेन बहुवचनमित्याशयेनाह किरणावलीकारा इत्यर्थ इति । एतच्चान्यत्रास्माभिः प्रतिपादितं तद्रीत्या युष्मदर्थोपाधिकं बहुवचनमिति ज्ञेयम् । उपपादयिष्यते चोत्तरत्र । जनानामिति बहुवचनोपपादनावसरे । किरणावल्यादौ विस्तरेण प्रतिपादनात्तं प्रकारं परित्यज्य निष्कृष्टं किरणावलीकारीयमनुमानमस्तु तर्हि दुःखसन्ततिरित्यादि तत्वप्रदीपिकायामनूद्य निराकृतम् । तन्नयनप्रसादिन्यनुसारेणाह । दुःखप्रागभावेत्यादि ॥ प्रपञ्चस्तु वर्धमानादौ ज्ञेयः । कदलीकारादिभिरङ्गीकारेऽपि किरणावलीकारेणानङ्गीकारात्तदीयानुमाने पराङ्गीकारानुसारेण दोषोद्भावनं न युक्तम् । संसार्येकस्वभावा एव केचिदात्मान इति स्थितेऽहमेव यदि तथा स्यात् तदा मम विपरीतप्रयोजनं पारिव्राजकमिति शङ्कायमानकश्चिदर्थं ब्रह्मचर्यादिदुःखमनुभवेदित्यादियुक्तया सर्वमुक्तिपक्षस्यैव स्वीकारादित्यतः सर्वान् प्रत्यपि सर्वमुक्तयभावस्य समर्थयिष्यमाणत्वाद्बाधः स्यादेवेत्याशेयेनाह । समर्थयिष्पमाणत्वाच्चेति मूलम् । तद्व्याचष्टे। त्रिविधजीवयोग्यताया इति ॥ नयनप्रसादिन्यनुसारेणाह ॥ सर्वमुक्तिपक्ष इत्यादि ॥