०१ समर्थितार्थपिण्डीकरणम्

प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि

समर्थितार्थपिण्डीकरणम्

प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि

सुधा

उक्तमर्थं बुद्ध्यारोहाय सङ्क्षिप्याह प्रामाण्य इति ।

अनुव्याख्यानम्

प्रामाण्ये संशयः किं स्यात्तयोः पुरुषयोरपि ॥

स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि यः ॥

यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ॥

अतीतानागतं सर्वं लोकानुभवमापयन् ॥

(अत्र) प्रामाण्यशब्देनाप्तत्वमुच्यते । किमित्याक्षेपे । अपिशब्दो गर्हायाम् । स्वेत्युपलक्षणम् । दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य । चशब्दो विणसमुच्चये । देवोक्तीत्यतीन्द्रियान्तरस्याप्युपलक्षणम् । स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।

यः स्वजीवनविरुद्धोक्तित्वादिविणो लोकायताचार्यो यश्चातीन्द्रियदेवोक्तिश्रोतृत्वादिविणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः स्यात्किं, न स्यादेव । किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।

वाक्यार्थचन्द्रिका

उक्तस्यैव पुनर्वचनात्पौनरुक्त्यमित्यत आह उक्तमर्थमिति । सङ्क्षिप्योक्तेः प्रयोजनमाह बुध्यारोहायेति । पुरुषस्य प्रामाण्याभावात्प्रामाण्य इत्यस्यानुपपत्तिमाशङ्क्याह अत्रेति । प्रामाण्यं प्रमापकत्वमाप्तत्वमिति यावत् ॥ आक्षेप इति । उत्तराभावेन प्रश्नार्थत्वायोगादिति भावः । समुच्चयाद्यर्थत्वासम्भवादाह अपिशब्द इति । अपिः पदार्थसम्भावनान्वयगर्हासमुच्चयेष्विति स्मरणादिति भावः । आप्तत्वानाप्तत्वव्याप्यधर्मवत्तया निश्चिततया सन्देहायोगाद्गर्हितत्वमिति द्रष्टव्यम् ॥ स्वेत्युपलक्षणमिति । स्वपरजीवनविरुद्धोक्तिरिति द्रष्टव्यमित्यर्थः । ननु दृष्टस्याज्ञ इति विरुद्धमित्यत आह दर्शनयोग्यस्येति । एवं पदार्थमुक्त्वा व्यवहितत्वादाकाङ्क्षाक्रमेण वाक्ययोजनामाह य इत्यादिना ॥ आद्यस्येति । लोकायताचार्यस्यानाप्तत्वमित्यर्थः ॥ द्वितीयस्येति । वसिष्ठादेराप्तत्वमित्यर्थः ॥

परिमल

अपिशब्दो गर्हायामिति । द्वयोरसाम्यादाप्तत्वसंशयो गर्हितोऽयुक्त इत्यर्थः ॥ उपलक्षणमिति । स्वपरजीवनेत्यर्थो लक्षणमित्यर्थः ।

यादुपत्यं

गर्हायामिति । आप्तत्वानाप्तत्वव्याप्यविणवत्त्वेनानयोर्निश्चितत्वात्संशयो गर्हित इत्यर्थः ।

श्रीनिवासतीर्थीया

दृष्टस्याप्यज्ञ इति व्याहतमतो व्याचष्टे दृष्टस्येति । अप्रामाण्यम् अप्रमापकत्वम् । अनाप्तत्वमिति यावत् । प्रामाण्यं प्रमापकत्वमाप्तत्वमिति यावत् ।

वाक्यार्थरत्नमाला

उक्तस्यैव पुनर्वचनादिति ॥ यदुक्तं वाक्यप्रामाण्यं प्रत्यक्षेणेत्यादिभाष्येण वशिष्ठादिवाक्यस्य प्रत्यक्षसंवादित्वं लोकयताचार्यवाक्यस्य स्वजीवनविरोधित्वादिकं प्रागुक्तम् । तस्यैवोत्तरमूलेन वचनादित्यर्थः । स्मरणादिति ॥ पाणिनेः प्रथमस्य चतुर्थे स्मरणादित्यर्थः । स्वपरेति । अत्र परजीवनविरुद्धोक्तिरित्यपि द्रष्टव्यमित्यर्थ इति वक्तव्ये स्वपरेत्यादिवचनम् । श्रुतोपलक्षणमूलनेन किं योऽनर्थःसंपन्न इत्यतस्तं दर्शयितुं तेनैवोपलक्षणीयदर्शनलाभान्न तदनुक्तिर्दोषप्रसङ्ग इति ज्ञेयम् । आप्तत्वमुच्यत इति मूलम् । प्रमाणं निर्णयाय स्युरिति न विलक्षणाधिकरणे तु प्रमाश्रये प्रमाणत्वोपचार इति मूलोक्तम् । तथा विप्राः प्रमाणमित्यत्रोपचारोपपादनं प्रमाणलक्षणविचारावसरे युक्तिपादे । पक्षभेदोपपादनं कार्यम् । अतीन्द्रियान्तरस्याप्युपलक्षणमिति मूलम् । उपलक्षणं चैतत् । श्रोतेत्येतदपि ज्ञानानन्तरोपलक्षणमिति द्रष्टव्यम् । प्रामाण्यपदमाप्तत्वार्थतया मूले व्याख्यातमिति तदनुसारेणाह ॥ अनाप्तत्वमित्यर्थ इत्यादि ॥