०३ मोक्षाभाववादस्याप्रामाणिकत्वम्

तत्केन मानेन दृष्टं

मोक्षाभाववादस्याप्रामाणिकत्वम्

तत्केन मानेन दृष्टं

सुधा

तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छति तदिति ।

अनुव्याख्यानम्

…… तत्केन मानेन दृष्टं ……….

मोक्षो नैवास्तीति वाक्यार्थं तदिति परामृशति । केन मानेनेति । प्रत्यक्षेण वा तदितरेण वेत्यर्थः । दृष्टमवगतम् । द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाह प्रत्यक्षेति ।

अनुव्याख्यानम्

…… …… ….. प्रत्यक्षवादिना ॥

प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता । पूर्वेण सम्बन्धः । आद्यं निराकरोति न हीति ।

न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते ॥

अनुमानादिकं तावत्परस्य मानं न भवति । यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् । मोक्षो हि नाम परमानन्दावाप्तिविशिष्टात्यन्तिकी दुःखनिवृत्तिः । तदभावश्चैवमवगन्तव्यः । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेति । न च पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हिशब्दार्थः ।

वाक्यार्थचन्द्रिका

‘न हि प्रत्यक्षमानेन मोक्षाभावोऽवसीयते’ इत्युत्तरग्रन्थविरोधापत्त्या तदिति न भोगपरामर्शः । नापि मोक्षाभावपरामर्शः । तस्यापदार्थतया केनापि पदेनाप्रकृतत्वादित्याशङ्क्य लाघवेन प्रकृतत्वमात्रस्यैव परामर्शप्रयोजकत्वस्थित्या पदप्रकृतत्वस्यातथात्वान्मोक्षाभावस्यापदार्थत्वेऽपि वाक्यार्थत्वेन प्रकृतत्वात्तत्परामर्शकत्वमुपपन्नमित्याशयेनाह वाक्यार्थमिति ॥ प्रत्यक्षेणेति स्वपररीत्योक्तम् । तदितरेणेति तु सम्भावनामात्रेण । न हि प्रतिवादिन्याश्वासोऽस्ति । येन स्वमतमपहाय नैव शङ्केतीति निश्चिनुम इति भावः । ननु चार्वाकस्य प्रत्यक्षवादित्वात्तदितरप्रमाणेनाभिमतप्रमेयस्य साधनं तेन कर्तुं न शक्यत इत्ययुक्तम् । तथा सति तदितरसर्ववादिनामपि तद्वादित्वात्तेषामपि प्रत्यक्षेतरप्रमाणेनाभिमतसमर्थनस्याशक्यत्वप्रसङ्गादित्यतः सावधारणमित्याशयेन प्रत्यक्षवादित्वं व्याचष्टे प्रत्यक्षमिति ॥ पूर्वेणेति । दृष्टमित्यनेनेत्यर्थः । प्रत्यक्षेणेत्येव वक्तव्ये मानेनेत्यधिकमित्यतस्तथोक्त्या लब्धमर्थमाह अनुमानादिकमिति ॥ मोक्षो हीति । आनन्दविशिष्टदुःखनिवृत्तिमात्रस्य संसारावस्थायामपि सत्त्वादिति भावः ॥ सुखदुःखे तदभावौ वेति । यद्यप्यत्र पुरुषान्तर्वर्तिनोः सुखाभावदुःखयोर्न पुरुषान्तरप्रत्यक्षतेत्येव वक्तव्यं सुखस्य दुःखाभावस्य चाप्रत्यक्षत्वकथनं त्वनर्थकं प्रकृतानुपयोगात् । तथापि ससंर्गाभावप्रत्यक्षे प्रतियोगियोग्यत्वस्य तन्त्रत्वात् । सुखरूपमोक्षाभावस्याप्रत्यक्षत्वोपपादनाय तत्प्रतियोगिनः सुखस्य दुःखाभावरूपमोक्षाभावरूपस्य दुःखस्याप्रत्यक्षत्वोपपादनाय तत्प्रतियोगिनो दुःखाभावस्य चाप्रत्यक्षत्वमुक्तमित्यवधेयम् ।

परिमल

तदिति परामृशतीति । सामान्ये नपुंसकलिङ्गमिति भावः । केनेति प्रश्नस्य प्रमाणसामान्यपरत्वव्याख्यानानुरोधेनाह दृष्टमवगतमिति । न हि प्रत्यक्षेति विशिष्योक्तिं घटयति अनुमानादिकमिति ॥ सुखदुःखे तदभावौ वेति ।

यादुपत्यं

तदितरेण दृष्टत्वासम्भवादाह दृष्टमवगतमिति । प्रत्यक्षेणेत्यनुक्त्वा प्रत्यक्षमानेनेत्युक्त्या लब्धमर्थं दर्शयति अनुमानादिकमिति ॥ सुखदुःखे तदभावौ वेति । अत्र यद्यपि पुरुषान्तरवर्तिनोः सुखाभावदुःखयोर्न पुरुषान्तरप्रत्यक्षतेत्येव वक्तव्यम् । सुखस्य दुःखाभावस्य चाप्रत्यक्षत्वकथनं व्यर्थं प्रकृतासङ्गतत्वात् । तथाऽपि संसर्गाभावप्रत्यक्षे प्रतियोगियोग्यत्वस्य तन्त्रत्वेन सुखरूपमोक्षाभावस्याप्रत्यक्षत्वोपपादनाय तत्प्रतियोगिनः सुखस्याप्रत्यक्षत्वमुक्तम् । एवं दुःखाभावरूपमोक्षाभावस्यापि दुःखपर्यवसन्नस्याप्रत्यक्षत्वोपपादनाय तत्प्रतियोगिनो दुःखाभावस्याप्यप्रत्यक्षत्वमुक्तमित्यवगन्तव्यम् ।

श्रीनिवासतीर्थीया

वाक्यार्थमिति । सामान्ये नपुंसकमिति वचनादिति भावः । ननु प्रत्यक्षेण दृष्टमिति सम्भवेऽपि तदितरप्रमाणेन दृष्टमित्ययुक्तमतो व्याचष्टे दृष्टमवगतमिति ।

वाक्यार्थरत्नमाला

उत्तरग्रन्थविरोधेति । तत्र मोक्षाभावस्य प्रत्यक्षप्रमाणकत्वाभावोक्तया प्रागपि तस्यैव प्रतिज्ञातव्यत्वादिति भावः । वाक्यार्थत्वेन प्रकृतत्वादिति । वाक्येन प्रकृतत्वादित्यर्थः । तथापि संसर्गाभावेति । नास्ति कोऽपि पुरुषः परमानन्दानुभवी सर्वोऽपि दुःखी चेत्युत्तरमूलानुसारेणेदम् । सुखरूपमोक्षाभावस्येति । सुखरूपः यो मोक्षस्तदभावस्येति योज्यम् ।