१० यमादेः कर्तव्यत्वोपसंहारः

तेन सम्प्रोक्तगुणसंयुतः

यमादेः कर्तव्यत्वोपसंहारः

तेन सम्प्रोक्तगुणसंयुतः

सुधा

स्वपक्षसाधनमुपसंहरति तेनेति ।

अनुव्याख्यानम्

…… …… तेन सम्प्रोक्तगुणसंयुतः ॥

उपासीत हरिं दृष्ट्वा मुक्तिस्तैनेव जायते ॥

प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः । यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिर्गुणैरङ्गैः संयुतः । तेनैव तथाविधेनैवोपासनेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिर्जायते ।

वाक्यार्थचन्द्रिका

तेनेति । उपासीतेत्युक्तोपासनमात्रपरामर्शः । तन्मात्रस्य दर्शनसाधनतायाः पूर्वमसमर्थितत्वात्किन्तु यमाद्यङ्गयुक्तस्यैवोपासनस्येति भावेन व्याचष्टे तथाविधेनैवोपासनेनेति । कर्माणि क्षपयत इति । तथा च दर्शनक्षपणयोरेककर्तृकत्वेन दृष्ट्वेति समानकर्तृकत्वार्थकक्त्वाप्रत्ययोपपत्तिरिति भावः ।

**परिमल **

तेनेति । तच्छब्देन न दृष्टिपदोक्तज्ञानमात्रपरामर्शः किं तु प्रागुक्तसर्वाङ्गोपेतस्येत्याह तथाविधेनैवेति । ननु असमानकर्तृकत्वाद्दृष्ट्वा मुक्तिर्जायत इति कथमित्यतो मध्ये माह कर्माणि क्षपयत इति । भोगेन प्रारब्धानि तदन्यानि ज्ञानाग्निना निरस्यत इत्यर्थः । भोगे न त्वितरे क्षपयित्वाथ सम्पत्स्यत इत्युक्तेरिति भावः ।

यादुपत्यं

ननु येनोपासनेन हरिदर्शनं जातं न तेनैव मुक्तिस्तस्य तदैव नष्टत्वादत आह तथाविधेनेति ।

श्रीनिवासतीर्थीया

ननु दर्शने पुरुषस्य कर्तृत्वेन जायत इत्युक्तजननरूपक्रियायां मुक्तेः कर्तृत्वेन समानकर्तृकत्वाभावात्कत्वाप्रत्ययानुपपत्तिरित्यत उक्तं कर्माणि क्षपयत इति । तथा च दर्शनकर्मक्षपणक्रिययोरेकपुरुषकर्तृकत्वाद्युक्तः क्त्वाप्रत्यय इत्यर्थः ।

वाक्यार्थरत्नमाला

गुणपदमङ्गार्थकं मनसि कृत्वा योजयति मूले यद्वेति । तथा च दर्शनक्षपणयोरिति पाठः ।