०६ विष्णुभक्त्यादिरूपयमस्यावश्यानुष्ठेयत्वम्

अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु

विष्णुभक्त्यादिरूपयमस्यावश्यानुष्ठेयत्वम्

अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु

सुधा

किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आह अत इति ।

अनुव्याख्यानम्

अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ॥

तारतम्येन कर्तव्या पुरुषार्थमभीप्सता ॥

इदं च सर्वयमोपलक्षणम् । पुरुषार्थं मोक्षम् । अयमत्र सङ्क्षेपः । विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः । मोक्षादिविरोधित्वात् । यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् । यथाऽऽरोग्यविरोध्यपथ्यं तदर्थिना । तथा च विष्णुभक्त्यादिकं कार्यमिति सिध्यति । भावानुष्ठानेन विनाऽभावपरित्यागायोगादिति ।

वाक्यार्थचन्द्रिका

ननु विष्णुभक्तिवद्विषयसंसर्गवर्जनादिरूपयमस्यापि सत्त्वात्तत् साधारण्येन विष्णुभक्त्यादिकं कार्यमित्युपसंहारे कर्तव्ये कथं तदेकदेशभक्तेरेव कर्तव्यतोपसंह्रियत इत्यतोऽत्र भक्तिशब्दस्य लक्षणया सर्वयमपरत्वेन शक्त्या तदेकदेशभक्तिमात्रपरत्वाभावान्नोपसंहारानुपपत्तिरिति भावेनाह इदं चेति । दोषा अनादिसम्बद्धा इत्यादिग्रन्थस्य यमानामवश्यानुष्ठेयत्वे युक्त्यभिधायकत्वमुक्तम् । तत्र काऽनेन युक्तिरुक्तेत्यपेक्षायामाह अयमत्रेति । विष्णुभक्त्यभावादीनां त्याज्यत्वसिद्धावपि न प्रकृतप्रमेयसिद्धिरित्यत आह तथा चेति । दोषाणां त्याज्यत्वसिध्या भक्त्यादेः कथं कर्तव्यतासिद्धिरित्यतस्तां विना तदनुपपत्तेरित्याह भावेति । इति शब्दस्येत्ययमिति पूर्वेण सम्बन्धः ।

**परिमल **

सर्वयमेति । विषयसंसर्गाभावादेरुपलक्षणमित्यर्थः ।