०४ ऋजूनामपि परमोत्साहवर्जनरूपदोषोऽस्ति

ऋजूनामेक एवास्ति परमोत्साहवर्जनम्

ऋजूनामपि परमोत्साहवर्जनरूपदोषोऽस्ति

ऋजूनामेक एवास्ति परमोत्साहवर्जनम्

सुधा

अथापि स्यात् । ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः । न च ते दोषिण इति युक्तम् । ऋजुत्वविरोधात् । ऋजवः समीचीना निर्दोषा इत्यनर्थान्तरम् । तत्कथमित्यत आह ऋजूनामिति ।

अनुव्याख्यानम्

ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ॥

ऋजूनामपि मोक्षार्थं महोद्योगवर्जनं नाम दोषोऽस्तीत्यतो नोक्तमयुक्तम् । अन्यथा मोक्षविलम्बासम्भवात् । न चैवमृजुत्वविरोधः । यतोऽसावेक एव । दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् । अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।

वाक्यार्थचन्द्रिका

तथाऽपि ऋजूणां देषवत्त्ववर्णनपरोत्तरवाक्यमनर्थकमेवेत्याशङ्क्य तत्र व्यतिरेकव्यभिचारपरिहारेण प्रागुक्ताया दोषाणां मोक्षाभावहेतुतायाः समर्थनार्थत्वान्न तदिति भावेन तत्परतयोत्तरग्रन्थं योजयितुं तत्र व्यभिचारशङ्कामुत्थापयति अथाऽपि स्यादिति ॥ मोक्षविलम्बेति । अपरोक्षज्ञानानन्तरमिति शेषः ॥ बाहुल्याभावेति । ‘एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः’ इति न्यायादिति भावः ।

**परिमल **

हिरण्यगर्भपदेति । ‘ऋजवो नाम ये देवा योग्या ब्रह्मपदस्य तु’ इति चतुर्थतात्पर्ये चतुर्विंशाध्यायोक्तस्मृतेरिति भावः ॥ अन्यथा मोक्षविलम्बेति । ननु एवं मुक्तिफलानियम इति सूत्रेऽपरोक्षज्ञानरूपसामग्रीसत्त्वेऽपि प्रारब्धकर्मप्रतिबन्धसत्त्वे मोक्षो विलम्ब्यत इत्युक्तत्वात्तेषां च तद्भावस्य ब्रह्मणां शतकालात्तु पूर्वमारब्धसंक्षयः । ब्रह्मण इत्यादिना चतुर्थादायपादे वक्ष्यमाणत्वात्प्रारब्धकर्मणैव मोक्षविलम्बोऽस्त्विति चेन्न । कर्मणामुपमर्दसम्भवादिति भावः ॥

यादुपत्यम्

मोक्षविलम्बेति । अपरोक्षज्ञानानन्तरमिति शेषः ।

श्रीनिवासतीर्थीया

बाहुल्याभावेति । ‘‘एकोऽपि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्क’’ इति न्यायादिति भावः ।

वाक्यार्थरत्नमाला

अनन्तरमिति इति । ततः पूर्वं तद्विलम्बस्यापरोक्षज्ञानाभावनिबन्धनत्वादिति भावः ।