दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः
यमानामवश्यानुष्टेयत्वे युक्तिनिरूपणम्
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः
सुधा
यमानामवश्यानुष्ठेयत्वे युक्तिमप्याह दोषा इति ।
अनुव्याख्यानम्
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ॥
सन्त्येव प्रायशः पुंस्सु तेन मोक्षो न जायते ॥
ते विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेष्वनादिसम्बन्धाः सन्त्येव । तेन कारणेन तेषां मोक्षो न जायते । एतदुक्तं भवति । मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते । तत्कुत इति चिन्त्यम् । भगवत्प्रसादाभावादिति चेत्सोऽपि कुतः । ज्ञानाभावादिति चेदसावपि कुतः । ध्यानाभ्यासासत्त्वादिति चेन्न । विद्वेषिणां तत्सत्त्वेऽप्यसत्त्वस्य वक्ष्यमाणत्वात् । अपि च ध्यानाभ्यासोऽपि कुतो नेति वाच्यम् । श्रवणाद्यभावादिति चेत् । तद्भावोऽपि न कुतः । अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते । न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् । प्रवाहतोऽनादित्वादिति । तथा चोक्तम् । दोषगृहीतगुणामिति ।
वाक्यार्थचन्द्रिका
ननु साधनाभावप्रयुक्तत्वान्मुक्त्यभावस्य कथं दोषरूपप्रतिबन्धकसद्भावप्रयुक्तत्वम् । तत्त्वेऽपि वा न तदनादित्वस्योपयोग इति मूले तदुक्तेरानर्थक्यमेवेत्यत आह एतदुक्तं भवतीति । तत्सत्त्वे ध्वानाभ्याससत्त्वे । असत्त्वस्येत्यत्र ज्ञानस्येति शेषः । वक्ष्यमाणत्वाद् ‘द्वेषतोऽपि विमुक्तिश्चेन्महातात्पर्यरोधनमि’त्यादिनेति शेषः ॥ मोक्षाभावहेतुत्वमिति । मोक्षप्रागभावपरिपालनहेतुत्वमित्यर्थः । ननु तत्तदुत्पत्तिं प्रतिबध्नन्त इति श्रवणादिगुणप्रतिबन्धद्वारा मोक्षप्रतिबन्धकत्वमुक्तं तदयुक्तम् । दुष्टप्रकृतेरेव स्वगुणाच्छादिकेत्यादिस्मृत्या जीवगुणाच्छादकत्वकथनेन तद्विरुद्धत्वादित्यत उक्तार्थे प्रमाणसम्मतिमाह यथोक्तमिति । श्रुतिगीतायामिति शेषः । दोषैर्गृहीता आच्छादिता गुणा यया सेति प्रकृतेर्दोषद्वारा जीवगुणाच्छादकताया एव तत्रोक्तत्वेन दोषप्रतिबन्धकतायास्तद्वाक्याभिमतत्वान्न तद्विरोध इति भावः ।
**परिमल **
यमानामिति । भक्त्यादीनामित्यर्थः ॥ युक्तिमपीति । न केवलं भारतवाक्यं यमाननुष्ठानस्य श्रेयः प्रतिबन्धकत्वान्यथानुपपत्तिरूपयुक्तिमित्यपेरर्थः ॥ असत्वस्य वक्ष्यमाणत्वादिति । द्वेषकृतध्यानासाधुत्वस्य द्वेषाद्यन्मुक्तिकथनमित्यादौ वक्ष्यमाणत्वादित्यर्थः । तादृशध्यानमप्रयोजकमिति भावः ॥ तथा चोक्तमिति । दशमस्कन्धे श्रुतिगीतायाम् । जय जय जह्यजामजितदोषगृहीतगुणामित्यत्र दोषैर्दुःखाद्यैरानन्दाद्या जीवगुणा गृहीता यया सेति तात्पर्योक्तिः । तामजामविद्यां जहि (व्यापादयेत्यर्थः।) व्युदासयेत्यर्थः ।
यादुपत्यम्
असत्त्वस्येति । ज्ञानासत्त्वस्येत्यर्थः ॥ वक्ष्यमाणत्वादिति । ‘द्वेषाद्यन्मुक्तिकथनमि’त्यादाविति शेषः । तत्र द्वेषिणां मुक्त्यभावसमर्थने तत्साधनज्ञानाभावस्याप्यर्थात्प्राप्तेः । मोक्षाभावहेतुत्वं मोक्षप्रागभावपरिपालनहेतुत्वम् । तत्तदुत्पत्तिं प्रतिबध्नन्त इत्यनेन दोषाणां यच्छ्रवणादिगुणप्रतिबन्धकत्वमुक्तं तदयुक्तम् । ‘स्वगुणाच्छादिका त्वेके’त्यादिस्मृतिविरुद्धत्वात् । तत्र दुष्टप्रकृतेरेव जीवगुणाच्छादकताया उक्तत्वादित्याशङ्क्य परिहर्तुमुक्तार्थे श्रुतिगीतावाक्यसम्मतिं दर्शयति तथा चोक्तमिति । दोषैर्गृहीता आच्छादिता जीवगुणा यया सा तथोक्ता तामित्यर्थः ॥ इदं च ‘जयजय जह्यजामि’त्युक्ताजाया विणम् । तथा चात्राजाशब्दोदितदुष्टप्रकृतेर्जीवगुणाच्छादने दोषाणां द्वारतयोक्तत्वान्नोक्तस्मृतिविरोध इति भावः ।
श्रीनिवासतीर्थीया
ॐ अनुबन्धादिभ्यश्च ॐ ॥ मोक्षाभावहेतुत्वादिति । मोक्षाभाववतामपि केषाञ्चिद्रागादिदोषशून्यानामपि सत्त्वादिति भावः ॥ ३३२ ॥
वाक्यार्थरत्नमाला
तत्रैव तद्दोषेत्यारभ्याभावादित्यन्तमेकवाक्यतया न तादर्थ्यसिद्धिरिति प्राचीनप्रतिज्ञायामेव हेतुरिति न पृथक्फलकीर्तनमिति वा ध्वंसादिरूपार्थान्तरासम्भवादभावपदं प्रागभावार्थं प्रागभावहेतुत्वस्यासम्भवात्प्रागभावपरिपालनहेतुत्वार्थकं च हेतुत्वपदमिति भावेन व्याचष्टे ॥ मोक्षप्रागभावेति ॥