ॐ अनुबन्धादिभ्यश्च ॐ
॥ अथ अनुबन्धाद्यधिकरणम् ॥
यमादिपञ्चकस्य अवश्यानुष्ठेयत्वम्
ॐ अनुबन्धादिभ्यश्च ॐ
सुधा
॥ ॐ अनुबन्धादिभ्यश्च ॐ ॥ योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते । तत्र पूर्वपक्षवादी मन्यते । यमानुष्ठानं तावदसत् । विष्णुभक्त्यादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् । देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्य तथात्वात् । अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि । तत्र यमानां किमुपासनोत्पत्तावुपयोगः । किंवा तत्फलज्ञानोत्पत्तौ । नाद्यः । विद्वेषिणामपि सततानुचिन्तनदर्शनात् । तन्मात्रत्वाच्चोपासनायाः । न द्वितीयः । भक्त्यादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् । किञ्च ‘द्वेषाच्चैद्यादयो नृपाः’ । ‘वैरेण यन्नृपतय’ इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते । दृष्ट्वैव तं मुच्यते नापरेणेति मोक्षस्य दर्शनैकसाध्यत्वं च । तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते । एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति । तत्र समाधानमनुबन्धादिभ्य इति । तस्यार्थो भक्त्यादिभ्य इति । तत्र न ज्ञायते कः पक्षोऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति । अतो व्याचष्टे विषयेष्वित्यादिना ।
अनुव्याख्यानम्
॥ ॐ अनुबन्धादिभ्यश्च ॐ ॥
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ॥
मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते ॥
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ॥
सदोपासनया युक्तो वासुदेवं प्रपश्यति ॥
विषयसेवनात् । शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति । आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति । मिथः समुच्चये चशब्दः । हिशब्दो यस्मादित्यर्थे । विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः । एतद्दोषवर्जित एव सदोपासनया युक्तो भवति । तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।
एतदुक्तं भवति । उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः । विषयसंसर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः । न ह्यन्यत्र (व्या)आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।
यदत्रोक्तं स्तिग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति तत्सत्यम् । तथाऽपि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव । न च भगवति विद्वेषस्य कारणमस्ति । केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवेऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति । किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः । न च तत्र प्रमाणाभावः । भारतवाक्यस्य विद्यमानत्वात् । तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति । भक्त्याद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।
वाक्यार्थचन्द्रिका
ॐ अनुबन्धादिभ्यश्च ॐ ॥ नन्वत्र मूले दोषवर्जनभक्त्योरेवोपासनाद्यङ्गत्वं विचार्यते । तदयुक्तम् । योगशास्त्रे उपासनाङ्गतयोक्तानां यमादीनां तदङ्गत्वमविचार्य तत्रानुक्तस्य भक्त्यादेरेवाङ्गताविचारे निमित्ताभावादित्यतो भक्त्यादेरपि यमान्तर्भावात्तद्विचारपरस्यास्य ग्रन्थस्य योगशास्त्रोक्तयमादीनामुपासनाङ्गविचारकत्वान्न तदनुक्तस्याङ्गत्वविचारकत्वादीत्याशयेनाह योगशास्त्र इत्यादिना । आदिपदेन नियमादिपरिग्रहः ॥ यमशब्दाभिधेयमिति । यमशब्दाभिधेयतयाऽभिमतमित्यर्थः । कुतोऽस्य यमशब्दाभिधेयतेत्यतो यमशब्दप्रवृत्तिनिमित्तभूतधर्माक्रान्तत्वादिति भावेन तं धर्ममाह देशकालेति । अस्मिन्नेव देशेऽस्मिन्नेव कालेऽस्यामेवावस्थायामिदमनुष्ठेयं नान्यदेशादाविति देशकालावस्थाव्यवस्थया विना सर्वस्मिन्देशे सर्वस्मिन्काले सर्वस्यामवस्थायां यदनुष्ठेयं तदेव यमशब्दवाच्यम् । विष्णुभक्त्यादिकं च तादृशं भवतीति युक्तमस्य यमशब्दवाच्यत्वमिति भावः ।
ननु देशकालावस्थाव्यवस्थया विनाऽनुष्ठेयस्यैव यमशब्दार्थत्वे तथाविधस्यान्यस्यापि सम्भवात् ‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ यमा’ इति कथमहिंसादेरेव यमतया परिगणनमित्यत एतत्परिगणनस्यैतादृशो यमः क इत्यपेक्षायामुदाहरणमात्रत्वेनैतावन्त एव यमा नातोऽन्य इत्यन्यव्यवच्छेदार्थत्वाभावान्नानुपपत्तिरित्याशयेनाह अहिंसादिपरिगणनं त्विति । कुत एतत्सर्वमित्यत आह इति हीति । एतदर्थकानि योगानुशासनानि प्रसिद्धानीत्यर्थः ॥ किमुपासनोत्पत्ताविति । यमानामवघातादिवत्स्वरूपोपकारकाङ्गत्वं वा प्रयाजादिवत्फलोपकारकाङ्गत्वं वेति विकल्पार्थः । व्यतिरेकव्यभिचाराच्च यमानां न फलोपकारकतेत्याह किञ्चेति ॥ द्वेषस्य दर्शनसाधनत्वमिति । द्वेषयुक्तोपासनस्य दर्शनसाधनत्वमित्यर्थः ॥ एवमिति । ‘शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् । नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनमि’त्यादिवाक्योक्तानां नियमादीनां नोपासनोत्पत्तावुपयोगः । तदभावेऽपि सततानुचिन्तनस्य दर्शनात् । नापि तत्फलज्ञानोत्पत्तौ नियमादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावादिति नियमादीनामङ्गता निरसनीयेत्यर्थः ।
नन्वन्यशब्दोक्तविषयजातस्याकाङ्क्षाकर्मतया कर्तृकर्मणोः कृतीति कृद्योगे षष्ठ्या भवितव्यम् । अन्यदिति द्वितीया तु कथमित्यतः प्रतिशब्दयोगे द्वितीयेयमिति भावेन तदध्याहारेण योजयति अन्यदित्यादि । नन्वाकाङ्क्षादिति कथम् । काङ्क्षतेर्धातोर्गुरुमत्त्वेन हलन्तत्वेन च गुरोश्च हल इति स्त्रियामकारप्रत्ययेऽजाद्यतष्टाबिति टापि निष्पन्नस्याऽऽबन्तस्याकाङ्क्षाशब्दस्याकाङ्क्षाया इत्येव पञ्चम्येकवचनेन भाव्यत्वादित्यतो नायमप्रत्ययान्तः किन्त्वकर्तरि च कारके संज्ञायामिति भावे घञन्त एव । घञन्तस्यास्य च घञजबन्ताः पुंसीति लिङ्गानुशासने पुल्लिङ्गत्वनियमनात्, आकाङ्क्षादिति पञ्चम्यैकवचनोपपत्तिरित्याशयेनाह आकाङ्क्षादिति ॥ घञन्त इति । भारतवाक्येन यमानां परज्ञानाङ्गत्वप्राप्तावपि ब्रह्मज्ञानाङ्गत्वाप्राप्तेर्न प्रकृतोपयोगीदं वाक्यमित्यतस्तत्सिद्ध्यर्थं परपदं ब्रह्मपरतया व्याचष्टे परं ब्रह्मेति । तथाऽपि ब्रह्मज्ञानाङ्गत्वप्राप्तावप्युपासनाफलीभूततत्साक्षात्काराङ्गत्वासिद्धिरेवेत्यतो वासुदेवं प्रपश्यतीति फलवाक्यानुरोधेन प्रतिपत्तिपदं साक्षात्कारपरतया व्याचष्टे परं न प्रतिपद्यते न पश्यतीति ॥ मिथः समुच्चय इति । विषयसेवनादीनां परस्परं समुच्चय इत्यर्थः ॥ तेनेति तच्छब्दापेक्षितयच्छब्दार्थतया हिशब्दं व्याचष्टे हिशब्द इति । भारतोक्तज्ञानप्रतिबन्धकत्वस्य तेनेत्युत्तरवाक्यार्थत्वं प्रति हेतुत्वेऽपि स्वरूपसतो वाक्यस्य तद्धेतुत्वानुपपत्तेरपेक्षितं पूरयति विषयेति । ‘एतद्दोषवर्जितः सदोपासनया युक्तो प्रपश्यतीत्येकवाक्यतया यो जनायामुपासनाफलीभूतब्रह्मसाक्षात्काराङ्गत्वप्राप्तावपि तदुपासनाङ्गत्वाप्राप्तेस्तदुभयलाभाय वाक्यभेदेन योजयति एतद्दोषवर्जित एवेत्यादिना ।
नन्वनेन भाष्येण पूर्वं विकल्पितपक्षद्वयस्याङ्गीकारसिद्धावपि तदनुपपादनात्तत्रोक्तदोषापरिहाराच्च न नियमानां स्वरूपोपकारकाङ्गत्वफलोपकारकाङ्गत्वसिद्धिरित्यत आह एतदुक्तं भवतीति । अनुपपत्तिमेव प्रथयति न ह्यन्यत्रेति । अनेन विषयसंसर्गो व्याख्यातो भवति तथाऽपीति । भगवति क्रद्धत्वेनास्निग्धत्वाद्भगवदुपासनार्थं भक्तिरूपयमानपेक्षायामित्यर्थः ॥ तदितरसंसर्गवर्जनादिकमिति । तदितरत्स्नेहादितरद्यत्संसर्गवर्जनादिकं मनसोऽन्यत्र व्यासङ्गाभावरूपमित्यर्थः ॥ अङ्गीकार्यमेवेति । सति व्यासङ्गे द्वेषेणापि सततानुचिन्तनानुपपत्तेरिति भावः । तथाचोपासनोत्पत्तौ भक्तिरूपयमैकदेशस्यानपेक्षायामपि तदितरविषयव्यासङ्गाभावरूपयमापेक्षायाः सत्त्वान्नोपासनोत्पत्तौ यमानपेक्षेति भावः । एवं प्रथमपक्षमुपपाद्य किञ्चेत्युक्तं द्वितीयपक्षदोषं परिहरन्नेव तमुपादत्ते न चेति । द्वेषयुक्तं ध्यानं दर्शनसाधनमिति वदन्प्रष्टव्यः । किं सर्वेषां द्वेषयुक्तमेवोपासनं दर्शनसाधनं किंवा केषाञ्चिदिति विकल्पं मनसि निधायाद्यं दूषयति न चेति । सर्वेषामिति शेषः । आशयदोषरूपकारणाभावान्न सर्वेषां भगवति द्वेषः सम्भवतीति भावः । द्वितीयं दूषयति केषाञ्चिदिति ॥ तथाविधमिति । द्वेषयुतमित्यर्थः ॥ उक्तयमादिसहितमिति । भक्त्यादिरूपयमसहितमेवेत्यर्थः । ननूक्तयमसहितमनुचिन्तनं ब्रह्मसाक्षात्कार साधनमित्यत्र भारतवाक्यं कथं प्रमाणम् । तेन विषयसंसर्गादिरूपदोषाभावस्यापरोक्षज्ञानार्थत्वलाभेऽपि विष्णुभक्त्यादिरूपयमस्य तदर्थत्वालाभादित्यत आह तत्रेति । ननु तथाऽपि न भक्त्यादिरूपयमस्य तादर्थ्यसिद्धिः । तत्रैतद्दोषवर्जित इति दोषाभावस्यैव तदुपयोगकथनात् । तेन च विषयसेवनादिरूपदोषाणामभावस्योपयोगप्राप्तावपि भक्त्यभावस्य साधनाभावतयाऽदोषत्वेन भक्तेर्दोषाभावरूपत्वाभावादित्यतो भक्त्याद्यभावस्यापि दोषत्वेन श्रुतिस्मृतिप्रसिद्धत्वेन दोषत्वाद्भक्त्यादेस्तदभावरूपतया दोषाभावरूपत्वात्तस्यापि तदुपयोगसिद्धिरित्याशयेनाह भक्त्याद्यभावस्यापीति ।
**परिमल **
अनुबन्धादिभ्यः । साङ्ख्ययोगौ परावपीति प्रमाणत्वेनोपात्तयोगशास्त्रोक्तयमनियमाद्यंगापेक्षयाऽत्रोच्यमानं भक्तयादिकमन्यदिति भ्रमं निरस्यन् सूत्रगमनिकां तावदाह योगशास्त्र इत्यादिना । यद्वा यमादेरङ्गत्वप्रत्याख्याने पूर्वपक्षिणोङ्गत्वप्रसञ्जकं किमित्यत आह योगशास्त्र इति । ‘मूले विष्णौ पराभक्तिरि’त्यादेरग्रे श्रवणाद् भक्तयादेरपि प्रत्याख्यानायाह विष्णुभक्तयादीति । कुतो भक्तयादेर्यमशब्दार्थत्वमित्यत आह देशकाल इति । पर्वताग्रादिदेशविब्राह्ममुहूर्तादिकालविशुचित्वाद्यवस्थाविनियमं विना क्रियमाणं यत्तद्धि यमशब्दार्थः । भक्त्यादिकं तादृशं भवतीति भवत्येव यमशब्दाभिधेयं भक्त्यादिकमित्यर्थः । तर्हि तन्त्रसारे अहिंसासत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ यम इति यमशब्दार्थपरिगणनस्य का गतिरित्यत आह अहिंसादीति । परिगणनं नामैत इति विशिष्य कीर्तनम् । कुत एषा कल्पनेत्यत उक्तार्थबोधकानि योगानुशासनानि प्रसिद्धानीत्याह इति हि योगानुशासनानीति । एवं परिष्कृत्य पूर्ववादी प्रत्याख्यातुं विकल्पयति तत्र यमानामिति ॥ विद्वेषिणामिति । कंसचैद्यप्रभृतीनामित्यर्थः । व्यक्तमेतद्दशमस्कन्धादौ ‘सनित्यदोद्विग्नधिया तमीश्वरं पिबन्नदन्वा विचरन्स्वपन् श्वसन् । ददर्श चक्रायुधमग्रतोऽच्युतमित्यादिना । ‘द्वेषाच्चैद्यादया नृपा’ इत्यादिना च । भक्त्यादिविहीनध्यानस्यापरोक्षहेतुत्वरूपस्वाभिमतेऽर्थेऽर्थापत्तिं प्रमाणमस्ति ॥ किञ्चेति । यद्वा निदिध्यासनमपि न दृष्टिहेतुः । तेन विनापि तत्सिद्धेरित्याह किञ्चेति ॥
एवं नियमेति । ‘यमाः शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् । नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् । रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्मृतः । प्राणायाम’ इत्यादितन्त्रसारोक्तस्वरूपाणां नियमादीनामपि उक्तादिशा ध्यानस्वरूपोत्पत्तौ साक्षात्काररूपफलोत्पत्तौ वा क्रमात्प्रागुक्तदिशा व्यभिचारप्रमाणाभावाभ्यामङ्गत्वं निरस्यमित्यर्थः ॥ भक्त्यादिभ्य इतीति । भक्तिशमदमादिभ्य इत्यर्थः । अनुबन्धस्तु भक्तिः स्यादिति स्मृतेरिति भावः ॥ तत्रेति । ध्यानस्वरूपोत्पत्त्यङ्गत्वतज्जन्यदृष्टिस्वरूपफलोपकार्यङ्गत्वपक्षयोर्मध्य इत्यर्थः । अङ्गीकृतः सूत्रकृतेत्यर्थः । ननु कथमाकाङ्क्षादिति । आङ्पूर्वस्य काङ्क्षतेर्धातोर्गुरुमत्त्वेन हलन्तत्वेन स्त्रियां क्तिनिति स्त्र्यधिकारे अप्रत्ययादिति पूर्वसूत्रप्रकृताप्रत्ययस्य गुरोश्च हल इति तृतीयाध्यायतृतीयपादीयसूत्रेणोक्त्या अप्रत्ययान्तत्वे स्त्रीत्वादजाद्यतष्टाबिति टापि आकाङ्क्षाया इति भाव्यमित्यत आह आकाङ्क्षादिति घञन्त इति । वाऽसरूपोऽस्त्रियामिति असरूपप्रत्ययस्य विकल्पेन बाधोक्तेः पक्षे घञ् प्राप्तिरस्त्येव । तथाच घञबन्ताः पुंसीति पुल्लिङ्गत्वादाकाङ्क्षादिति साध्विति भावः ॥ इति योज्यमिति । (उपासनातत्फलज्ञानोभयाङ्गत्वलाभायेत्यर्थः) । उभयाङ्गत्वलाभाय वाक्यभेदेन योज्यमित्यर्थः । तद्व्यनक्ति एतदुक्तमिति । फलोत्पत्त्यङ्गत्वं च वक्ष्याम इति तावदित्युकत्तम् । साधुजनाभिप्रायेण द्वेषोऽपि न सम्भाव्यत इत्याह न च भगवतीति ॥ केषाञ्चिदिति । चैद्यादीनामाशयदोषो दुर्जीवादिसङ्गादिति ध्येयम् । द्वितीयपक्षमिति । फलोपकार्यङ्गत्वपक्षमपीत्यर्थः । नन्वेतद्दोषवर्जित इत्यत्र पूर्वप्रकृतदोषमात्रपरामर्शेन हिंसाऽनृतादिदोषराहित्यं न प्राप्तमित्यत आह विषयसंसर्गादिपदानामिति । नन्वेवं प्रागुक्तदिशा यमशब्दाभिधेयस्य भक्त्यादेरभावस्य भारतवाक्ये प्राप्तत्वेऽपि कथमेतद्दोषेति तत्परामर्श इत्यत आह भक्त्याद्यभावस्येति । तस्य निरन्तरानुचिन्तनादिप्रतिबन्धकत्वाद्दोषत्वमिति भावः ॥
यादुपत्यम्
ॐ अनुबन्धादिभ्यः ॐ ॥ अत्र दोषवर्जनभक्त्योरेवोपासनाद्यङ्गत्वं विचार्यतया मूले प्रतीयते । इदं चायुक्तम् । योगशास्त्रे उपासनाङ्गतयोक्तानां यमादीनामुपासनाङ्गत्वमविचार्य तदनुक्तभक्त्यादेरेव तदङ्गताविचारे निमित्ताभावादित्याशङ्कायां भक्त्यादेरपि यमान्तर्भावात्तद्विचारे यमादिकमेवात्र विचारितं भवतीत्याह योगशास्त्र इत्यादिना । आदिपदेन नियमासनप्राणायामादिपरग्रिहः । विष्णुभक्त्यादीति । यमशब्दाभिधेयतयेदमपि धर्मद्वयं विवक्षितमित्यर्थः । कुत इत्यतो यमशब्दप्रवृत्तिनिमित्तभूतधर्माक्रान्तत्वादित्याह देशकालावस्थेति । अस्मिन्नेव देशेऽस्मिन्नेव कालेऽस्यामेवावस्थायामिदमनुष्ठेयं नान्यदेशादाविति देशकालावस्थाव्यवस्थया विना सर्वस्मिन्देशे सर्वस्मिन् काले सर्वास्ववस्थासु च यदनुष्ठेयं तस्यैव यमशब्दाभिधेयत्वादित्यर्थः । उक्तं च धर्मद्वयं तादृशमिति भावः । नन्वेवं ‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहः । यमा’ इति कथं परिगणनमित्यत आह अहिंसादिपरिगणनं त्विति । उक्तप्रवृत्तिनिमित्तभूतसलक्षणाक्रान्तलक्ष्यप्रदर्शनार्थमेवेदं वाक्यं न त्वेतावन्त एव यमा इति परिगणनार्थमित्यर्थः । कुत एतत्सर्वमित्यत आह इति हीति । एतदर्थकानि योगानुशासनानि प्रसिद्धानीत्यर्थः ॥ तत्र यमानामिति । स्वरूपोपकारकाङ्गत्वं वा फलोपकारकाङ्गत्वं वेति विकल्पाशयः ॥
विद्वेषिणामपीति । यमशब्दाभिधेयस्य सर्वस्याप्यभाववतामित्यर्थः । अन्यथा यमानामित्युपक्रमविरोध इति द्रष्टव्यम् । भक्त्यादीत्यत्राप्यादिपदेन सर्वं यमशब्दाभिधेयं ग्राह्यम् । विशेषाकारेण द्वेषरूपदोषवर्जनरूपस्य वा भक्तिवर्जनरूपस्य वा यमस्य फलोपकारकत्वे व्यभिचारमप्याह किञ्चेति ॥ एवं नियमासनेति । ‘‘शौचं तपस्तुष्टिः स्वाध्यायो हरिपूजनम् । नियमा वीरपद्मे च स्वस्तिकाद्यानि चासनम् । रेचकः पूरकश्चैव कुम्भकश्च त्रिधा स्मृतः । प्राणायामः’ । मनसो विषयेभ्यो भगवन्तं प्रत्याहरणं प्रत्याहारः । एतेषां नियमादीनां नोपासनोत्पत्तावुपयोगः । तेषामभावेऽपि सततानुचिन्तनदर्शनात् । नापि ज्ञानोत्पत्तौ । एतत्सहितमेवोपासनं ज्ञानं जनयतीत्यत्र प्रमाणाभावादिति निरसनीयेत्यर्थः । नन्वाकाङ्क्षादिति कथम् । काङ्क्षतेर्गुरुमत्त्वेन हलन्तत्वेन च गुरोश्च हल इति स्त्रियामप्रत्ययेऽजाद्यतष्टाविति टापि आकाङ्क्षाया इति भवितव्यमित्यत आह आकाङ्क्षादिति घञन्त इति । घञबन्त इति लिङ्गानुशासनवचनाद्धञन्तः पुल्लिङ्गा इति भावः ॥ तदितरेति । क्रोधरूपदोषापेक्षयेतरे ये विषयसंसर्गादयो दोषास्तद्वर्जनादिकमित्यर्थः ॥ अङ्गीकार्यमेवेति । अन्यथा द्वेषेणापि सततानुचिन्तनस्यासम्भवादिति भावः ॥ न चेति । एवं सतीति शेषः । ततश्चायमर्थः । चैद्यदयो हि भगवान् स्वेष्टराज्यादिविषयविघातीति तं द्विषन्ति तेन ज्ञायते विषयस्नेहलक्षणः संसर्ग एव तद्विघातकद्वेषे कारणमिति । सततानुचिन्तनाय विषयसंसर्गरूपदोषत्यागे च कारणाभावादेव न भगवति द्वेषः सम्भवतीति । नन्वस्त्वेवं स्वभावतः शुद्धान्तःकरणानां चैद्यादीनां ध्यानकाले विषयसंसर्गरूपकारणाभावाद्भगवति द्वेषाभावः । ये तु तद्विपरीताः कंसादयस्तेषामुक्तबाह्यकारणाभावेऽपि स्वाभाविकाशयदोषवशाद्बाह्यान्तःकरणे द्वेषोत्पत्तिसम्भवात्तदीयसततानुचिन्तने व्यभिचारतादवस्थ्यमित्याशङ्क्याह केषाञ्चिदिति ॥ ज्ञानसाधनमिति । तथा चोक्तयमादिजन्यतावच्छेदकं ज्ञानसाधनसततानुचिन्तनत्वमेव न सततानुचिन्तनत्वमात्रम् । अतो न व्यभिचार इति भावः । ननु तत्र ज्ञानसाधनत्वमपि नानतिप्रसक्तमेकमवच्छेदकं विना ग्रहीतुं शक्यम् । न चोक्तयमादिजन्यत्वमेव तदवच्छेदकम् । अन्योन्याश्रयादित्याशयेन पृच्छति किन्त्विति । उत्तरमाह उक्तयमादिसहितमेवेति । इदं च यमादिकं ध्यानजनकयमाद्यपेक्षयोत्कृष्टं न तदेव । तथा चैतादृशाशययमादिसहितध्यानत्वमेव ज्ञानसाधनतावच्छेदकं ज्ञानसाधनीभूतध्यानत्वं चोक्तयमादिजन्यतावच्छेदकमतो न कोऽपि दोष इति भावः ॥ यममात्राभवोपलक्षणमिति । अत्र नियमाद्यभावोऽपि ग्राह्यस्तेनैवं नियमादेरङ्गता निरसनीयेत्यस्य समाधानमुक्तं भवतीति ध्येयम् । ननु यदि नियममात्राभावोऽत्रोपलक्ष्यस्तर्हि तद्दोषवर्जित इति कथम् । विषयसंसर्गादिदोषवर्जनरूपयमाभावस्य विषयसंसर्गरूपतया दोषत्वेऽपि विष्णुभक्त्यादिगुणाभावस्य साधनाभावमात्ररूपत्वेनादोषत्वात् । न हि साधनाभावोऽपि दोषतया लोके प्रसिद्ध इत्यत आह भक्त्याद्यभावस्यापीति । सत्यं साधनाभावमात्रं न दोष इति । भक्त्याद्यभावस्तु साधनाभावरूपोऽपि दोष एव । तथा शास्त्रे प्रसिद्धेरित्यर्थः ।
वाक्यार्थरत्नमाला
ॐ अनुबन्धादिभ्यः ॐ ॥ अविचार्येति ॥ अविज्ञायानवबुद्धेत्यादिप्रयोगास्तत्र तत्र संन्ति, तदनुसारेण नञ्निर्दिष्टस्यानित्यत्वाश्रयणेन समासे नञ्पूर्व इति निषेधस्याप्रवृत्तिरिति ज्ञेयम् । भक्तयादेरेवाङ्गतेति । भक्तयादेरेव याऽङ्गता तद्विचार इति नित्यसापेक्षत्वात्समासः । उपासनाङ्गविचारकत्वादित्याद्युत्तरत्राप्येवम् । यमशब्दार्थतया सङ्गृहीतेषु भक्तयादिपरिगणनाभावाद्यमशब्दाभिधेयमित्येतत्कथमित्यतस्तद्योजयति ॥ यमशब्दाभिधेयतयाऽभिमतमिति ॥ ततश्च मुखतः परिगणनाभावेऽपि तथा परिगणितैः समानत्वाद्यमत्वमभिमतमिति भावः । अत एव तथैवोत्तरमूलटीकयोः स्पष्टं प्रतिपादनम् । यमा इतीति । इति तन्त्रसारवाक्य इत्यर्थः । अवघातादिवदिति । पौरोडाशिकव्रीहीष्ववघातादिना वैतुष्यादिसिद्धेस्तादृशानामेव च पुरोडाशनिष्पत्तिद्वारा प्रधानयागनिर्वर्तकत्वादिति भावः ॥ प्रयाजादिवदिति ॥ प्रयाजादेर्यागस्वरूपनिवर्तकत्वाभावेऽपि यागेनापूर्वद्वारा स्वर्गे जननीये प्रधानापूर्वजननानुकूलावान्तरापूर्वजनकत्वं प्रयाजादेरस्ति । तथाच प्रयाजादिजन्यावान्तरापूर्वाणि प्रधानयागजन्यात्सहपूर्वकारिभावं प्राप्नुवन्ति सन्ति प्रधानापूर्वद्वारा स्वर्गं जनयन्तीति फलोपकारकं प्रयाजादिकमिति भावः । अङ्गद्वयविचारो जिज्ञासाधिकरणे कार्यतावादेऽस्माभिः कृतो ज्ञेयः । इत्यादि वाक्येति ॥ तदध्याहारेणेति ॥ अन्यत्वप्रतियोगिप्रदर्शनपूर्वकमिति पूरणीयम् ॥ अन्यविवाचिता खलु गुरुशब्दस्य । ह्रस्वं लघ्वित्यतोऽनुवृत्ताद्ध्रस्वाचः संयोगे गुर्वित्यनेन गुरुताया दीर्घं चैत्यनेनापि दीर्घा च एव गुरुताया विधानात् । हलंते धातौ च तस्य तादृशगुरुशब्दमुख्यवृत्ययोगादित्यतस्तद्वति लक्षणाश्रयणान्नानुपपत्तिरित्याशयेन गुरुमत्वेनेत्युक्तम् । प्रकृतस्य धातोर्हल इति विणात्तदन्तविधिरित्याशयेनाह । हलन्तत्वेनेति । अत्र हलंतत्वेन चेति पाठः स्वरसः । चशब्दाभावेऽपि वा तदर्थान्तर्भावेनेदं व्याख्यानम् भावे घञन्त इति ॥ मनसा येऽन्यत्प्रत्याकाङ्क्षत इति मनःकरणकाकाङ्क्षणरूपक्रियार्थत्वात्तस्येति भावः । तेनेत्युत्तरेति । तेनैतद्दोषवर्ज्जित इत्युत्तरवाक्यमित्यर्थः । तथाचोपासनेति ॥ उपासनोत्पत्तौ भक्तिरूपयमैकदेशस्यानपेक्षायामपि तदितरविषयव्यासङ्गाभावरूपं यमापेक्षात्वस्त्येति वैफलितार्थः । इतरापेक्षत्वोपपादनं तदितरेत्यादि । दर्शनसाधनमिति ॥ किं वा केषाञ्चिदितीत्युत्तर इतिशब्द आकृष्यते उच्यत इति स्थलद्वयेऽपि शेषः । तथा च सर्वेषां द्वेषयुक्तमेवोपासनं दर्शनं साधनमुच्यते । किं वा केषाञ्चिदित्युच्यत इति प्रष्टव्य इतीतिशब्दावृत्याऽर्थः । ततश्चेति विकल्पमिति द्विरावृत्त इतिशब्दः । यद्वा साधनमुच्यत इत्यत्र यथास्थित एवार्थः । तथा च सर्वेषां साधनमुच्यते । केषाञ्चिद्वेत्येव विकल्पकोटिद्वयम् । इतिशब्दश्चेति प्रष्टव्य इति विकल्पद्वयमिति एकयैवावृत्या तन्त्रेण वा मध्ये दीपिकान्यायेन वा योज्य इत्यवधेयम् । दोषाभावरूपत्वाभावादित्यत इति । अभावादित्यनन्तरं तदुपयोगाप्राप्तेरिति शेषः ।