११ शब्दस्यापरोक्षज्ञानसाधनत्वनिरासः

असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

शब्दस्यापरोक्षज्ञानसाधनत्वनिरासः

असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

सुधा

अत्रोच्यते । यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपलब्धमिति तदसङ्गतम् । दशत्वसङ्ख्या खल्वपेक्षाबुद्धिजन्या तद्व्यङ्ग्या वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते । ततो दशानां पूरणो दशमोऽपि तथा । अतः प्रथमं शब्देन परोक्षज्ञाने जातेऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते । आशुभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः । अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव । प्रतीतिकलहोऽयं निरवधिक इति चेत् । अत्रेदं वक्तव्यम् । शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यागन्तुकम् । आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् । द्वितीये निमित्तं वक्तव्यम् । ब्रह्मात्मविषयत्वमिति चेत् । तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् । अपरोक्षविषयत्वमिति चेन्न । अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् । तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् । ज्ञानान्तराभिप्राये तु स्वर्गादयोऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दोऽपरोक्षज्ञानं जनयेत् । एकपुरुषाभिप्रायेऽपि प्रत्यक्षावगतेऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः । शब्दस्यैवंभाव इति चेत् । तथाऽप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् । अपरोक्षतया ज्ञायमाने तथेति चेन्न । धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितोऽयमिति शब्दस्यापरोक्षज्ञानकारणतापत्तेः । प्रकाराभिप्राये तु प्रकृतेऽभावात् । न हि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयाऽवभासते । तथा सति शब्दवैयर्थ्यापत्तेरिति ।

वाक्यार्थचन्द्रिका

आपातत इति । प्रथमाक्षिसन्निकर्षानन्तरमेवेत्यर्थः । (अपेक्षाबुद्ध्युत्पत्तेः प्रागित्यर्थः) । तत्कालेऽपेक्षाबुद्धेरेवाभावेन तज्जन्यदशमत्वादिशङ्क्याया एवासत्त्वात्सत्त्वेऽपि वा व्यञ्जकीभूतापेक्षाबुद्धिविरहादित्यर्थः ॥ तथेति । नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यत इत्यर्थः । विणस्यातथात्वाद्विशिष्टस्यापि तथात्वमति भावः । निरवधिक इति । तत्राप्यपरोक्षत्वस्य मया उच्यमानत्वादिति भावः सर्वेषामिति । ज्योतिष्टोमादिशब्दानामित्यर्थः । अतथाभूतस्येति हेतुगर्भं विणम् । अब्रह्मात्मविषयत्वादित्यर्थः ॥ अपरोक्षेति । तथा च दशमस्त्वमसीत्यादेरपरोक्षज्ञानसाधनत्वं युक्तमिति भावो ऽपरोक्षज्ञानविषयत्वातिरिक्तस्येति । अर्थस्यापरोक्षत्वं हि न तावदपरोक्षधीरूपत्वम् । तथा सति ब्रह्मणोऽपरोक्षधीरूपत्वात्तद्विषयकशब्दस्यापरोक्षज्ञानजनकत्वोपपत्तावपि दशमत्वादेरपरोक्षधीरूपत्वाभावेन दशमस्त्वमसीत्यादिशब्दानां तदभावापातात् । चैत्रस्यापरोक्षज्ञाने मैत्रस्यापरोक्षज्ञानवांश्चैत्र इतिशब्देन साक्षात्कारापाताच्च । अपरोक्षज्ञानजनकताप्रयोजकस्यापरोक्षधीरूपविषयापरोक्ष्यस्य तत्रापि सत्त्वात् । नाप्यपरोक्षोऽयमित्येवंरूपत्वम् । अज्ञानावृते ऐक्येऽपरोक्षोऽयमित्येवं व्यवहारविषयत्वाभावात् । नाप्यपरोक्षोऽयमित्येवं व्यवहारयोग्यत्वम् । भित्तिव्यवहिते घटे शब्दादपरोक्षधीप्रसङ्गात् । नाप्यपरोक्षज्ञानजन्यत्वम् । वक्ष्यमाणपक्षाबहिर्भावात् । तस्मादपरोक्षधीविषयत्वमेवापरोक्षत्वं वाच्यमित्याशयः । अस्तु तर्ह्येतदेवार्थस्यापरोक्षत्वमित्यत आह तत्रेति ॥ इतरेतराश्रयत्वमिति । अर्थस्यापरोक्षत्वे सिद्धे अपरोक्षविषयतया शब्दजन्यज्ञानस्यापरोक्षत्वसिद्धिस्तत्सिद्धौ चापरोक्षधीविषयत्वेनार्थस्यापरोक्षत्वसिद्धिरितीतरेतराश्रयत्वमित्यर्थः ॥ एकपुरुषाभिप्राय इति । कालविशेषेऽपरोक्षस्य कालान्तरे लिङ्गदर्शनेनापरोक्षधीप्रसङ्गादित्यर्थः । नन्वेककालत्वस्याप्यभिप्रेतत्वान्नातिप्रसङ्ग इत्याशयेन शङ्कते अपरोक्षतयेति । अत्र तादृशेऽप्यग्नौ लिङ्गाच्छब्दाच्चापरोक्षज्ञानोत्पत्तिरवर्जनीया । न चेष्टापत्तिः । करणशक्तिमतिलङ्घ्य ज्ञानस्य विषयानुसारित्वे चाक्षुषादिविषयकस्मृत्यनुमितिस्पार्शनज्ञानादेश्चाक्षुषत्वापातादिति सत्येव दोषे स्पष्टत्वात्तमनुक्त्वाऽपरोक्षतया ज्ञायमानत्वं धर्मिमात्रेऽभिप्रेतमुत प्रकारेऽपीति विकल्पद्वयं मनसि निधायाद्यं दूषयति धर्मिमात्राभिपाय इति । द्वितीयं दूषयति सप्रकाराभिप्राय इति । अभावमेवोपपादयति न हीति ॥ तथा सतीति । न च स्वरूपाभिन्ने ऐक्ये स्वरूपज्ञानेनापरोक्षतेत्यपि वृत्त्यर्थत्वाच्छब्दस्य न वैयर्थ्यमिति वाच्यम् । त्वया स्वरूपज्ञानप्रयुक्तभानप्रतिबन्धार्थमेवावरणकल्पनादिति भावः ।

**परिमल **

नापातत इति । अपेक्षाबुद्ध्युत्पत्तेः प्रागित्यर्थः ॥ दशानां पूरण इति । ‘तस्य पूरणे डट्’ नान्तादसङ्ख्यादेर्मडिति पञ्चमद्वितीयपादे पूरणार्थे मट्प्रत्ययविधानाद्दशानां पूरण इत्युक्तम् ॥ तथेति । नापाततः प्रत्यक्षेणोपलभ्यत इत्यर्थः ॥ अपरोक्षविषयत्वमिति चेदिति । जीवचितोऽप्यपरोक्षत्वाद्दशमस्त्वमसीत्यदौ अपरोक्षहेतुत्वं शब्दस्याप्रतिहतमेवेति भावः केषाञ्चिदिति । योगिनां स्वर्गादिस्थानां चेत्यर्थः ॥ अपरोक्षज्ञानजन्मप्रसङ्ग इति । न चेष्टापत्तिः । प्रत्यक्षेण करिणि दृष्टे चीत्कारेणानुमित इत्याद्युक्तिः परीक्षकाणां न स्यात् । प्रमाणेन प्रमाणाभ्यां प्रमाणैरिति सम्प्लव इत्यादि न्यायवार्तिकाद्युक्तिः सर्वजनसम्मता न (खल्विति) स्यादिति भावः ॥ तथाप्यग्नाविति । प्रत्यक्षावगत इत्यनुषङ्गः ॥ प्रकृतेऽभावादिति । प्रकारे अपरोक्षतया ज्ञायमाने प्रयुक्तः शब्दोऽपरोक्षज्ञानं जनयतीत्य(स्यप्रकृ)स्याङ्गीकृते ब्रह्मात्मैक्यरूपप्रकारे अभावादित्यर्थः प्रकृते वेदान्तवाक्ये अभावादिति वार्थः । तद्व्यनक्ति नहीति ।

यादुपत्यम्

आपातत इति । प्रथमाक्षसन्निकर्षानन्तरमेवेत्यर्थः ॥ अपरोक्षज्ञानजन्मप्रसङ्गइति । न चात्रेष्टापत्तिः । करणशक्तिमतिलङ्घ्य ज्ञानस्य विषयानुसारित्वे चाक्षुषार्थे स्पार्शनज्ञानादेश्चाक्षुषादित्वापातात् । लिङ्गशब्दादिसिद्धे चेन्द्रियात्परोक्षधीप्रसङ्गाच्च । अपरोक्षतया ज्ञायमानत्वं किं धर्मिमात्रे विवक्षितमुत प्रकारेऽपीति विकल्प्याद्ये दूषणमाह धर्मिमात्राभिप्राय इति । द्वितीये त्वाह प्रकाराभिप्राय इति ।

श्रीनिवासतीर्थीया

आपातत इति । विचाराभावदशायां प्रथमाक्षिसन्निकर्षानन्तरमेवेत्यर्थः । अपेक्षाबुद्ध्यभावदशायामिति यावदिति भावः । रूपादिकमिवेति व्यतिरेकदृष्टान्तः । रूपादिकं यथा प्रत्यक्षेणोपलभ्यते तथा नेति । पूरण इति । तस्य पूरणे डडिति सूत्रेण पूरणार्थे डट्प्रत्ययविधानादित्यर्थः ॥ तथेति । नापाततः प्रत्यक्षेणोपलभ्यत इत्यर्थः । विणस्य तथात्वात्तद्विशिष्टस्यापि तथात्वमिति भावः । नन्वयं क्रमः कस्मान्नोपलभ्यत इत्यत आह आशुभावादिति । क्वचिद्बहलतमे तमसीत्युक्तस्योत्तरमाह अन्धकारादौ त्विति । आदिपदेन लोचनविरहदशाग्रहणम् । आगन्तुकं निमित्ताधीनम् ॥ अतथाभूतस्येति । ब्रह्मात्माविषयकस्येत्यर्थः । अपरोक्षविषयकत्वमपरोक्षार्थविषयकत्वम् । तत्र अर्थे ॥ एतज्ज्ञानेति । परोक्षविषयकत्वेन यस्मिन् शाब्दज्ञानेऽपरोक्षत्वमुच्यते तज्ज्ञानविषयत्वेनेत्यर्थः । तदुक्तावपरोक्षत्वोक्तौ इतरेतरेति । शब्दजन्यज्ञानस्यापरेक्षत्वे सिद्धे तद्विषयत्वेनार्थस्यापरोक्षत्वसिद्धिस्तत्सिद्धौ च तद्विषयकत्वेन शब्दजन्यज्ञानस्यापरोक्षत्वमित्यन्योन्याश्रय इत्यर्थः । नन्वपरोक्षार्थविषयकत्वेन यस्मिन् शाब्दज्ञानेऽपरोक्षत्वमुच्यते तज्ज्ञानविषयत्वेनैवार्थस्यापरोक्षत्वं नोच्यते । किन्तु ज्ञानान्तरविषयकत्वेनैवातो नेतरेतराश्रयत्वमित्याशङ्क्याह ज्ञानान्तरेति । केषाञ्चिद् योगिनाम् ॥ जनयेदिति । अपरोक्षार्थविषयकत्वादिति भावः । एतद्दोषपरिहारं शङ्कते एकपुरुषेति । यस्य पुरुषस्य योऽर्थोपरोक्षस्तस्यैव तद्विषयकं प्रमाणमपरोक्षज्ञानजनकमित्युच्यत इत्यर्थः ॥ धूमेति । येन पुरुषेण प्रत्यक्षेणाग्निरवगतस्तस्यैव पुनर्धूमदर्शनेनाग्न्यनुमितिर्भवति । तस्या अप्यनुमितेरपरोक्षार्थविषयकत्वेनापरोक्षत्वापत्त्याऽनुमिमानस्याप्यपरोक्षज्ञानजनकत्वं स्यादित्यर्थः ॥ एवं भाव इति । अपरोक्षार्थविषयकत्वेनापरोक्षज्ञानजनकत्वं स्वभाव इत्यर्थः ॥ तथाऽप्यग्नाविति । एकेन पुरषेणैकदाऽग्निः प्रत्यक्षेणावगतः स एव यदा कालान्तरे व्यवहितो जातस्तदा तद्विषयेऽत्राग्निरस्तीति केनचित्प्रयुक्तः शब्दोऽप्यपरोक्षज्ञानं जनयेत् । तस्यापि शब्दस्य यथाकथञ्चिदपरोक्षार्थविषयकत्वादिति भावः ॥ ज्ञायमान इति । अपरोक्षतया ज्ञायमानेऽर्थे प्रवर्तमान; शब्दोऽपरोक्षज्ञानजनक इत्यर्थः । अग्निस्तु तदा नापरोक्षतो ज्ञायत इति भावः । अपरोक्षतया ज्ञायमानत्वं धर्म्यंशे विवक्षितमुत प्रकारांशेऽपीति विकल्प्याद्ये दूषणमाह धर्मिमात्रेति ॥ शब्दस्येति । शतपलपरमितत्वरूपगुरुत्वरूपप्रकारप्रतिपादकशब्दस्येत्यर्थः ॥ आपत्तेरिति । गुरुत्वस्यातीन्द्रियत्वादिति भावः ॥ सप्रकारेति । अपरोक्षतया ज्ञायमानप्रकारविशिष्टे धर्मिणि प्रवर्तमानः शब्दोऽपरोक्षज्ञानजनक इत्यभिप्रायः । तथा च शतपलपरमितत्वरूपः प्रकारश्च नापरोक्षतया ज्ञायते इत्याते नोक्तदूषणावकाश इति भावः । अपरोक्षतया ज्ञायमानैक्यरूपप्रकारविशिष्टब्रह्मस्वरूपधर्मिणि प्रवर्तमानस्य तत्त्वमसीति शब्दस्यापरोक्षज्ञानजनकत्वं वक्तव्यं तन्न सम्भवतीत्याह प्रकृत इति । तदुपपादयति न हीति । ऐक्यं प्रकारभूतम् ॥ तथा सतीति । ऐक्यस्याप्यपरोक्षावभासविषयत्वे सतीत्यर्थः ॥ वैयर्थ्येति । अधिगतार्थबोधकत्वेनाप्रामाण्यप्रसङ्ग इति भावः ।

वाक्यार्थरत्नमाला

दशानां पूरण इति मूलम् । सङ्ख्यावाचिदशन्शब्दात्तस्य पूरणे डडिति पूरणार्थे डटि लोपापेक्षायान्तरङ्गत्वादादौ नान्तादसङ्ख्यादेर्मडिति डटो मडागमे डित्वान्मटष्टिलोपे प्रातिपदिकान्ते नलोपे पञ्चानां पूरणः पञ्चम इतिवद्दशानां पूरणो दशम इति सिध्यति । टेरित्यस्य योग्यस्य परत्वेऽप्यन्तरङ्गत्वात्पूर्वमस्पष्टाद्भत्वाभावाट्टिलोपाभाव इति विश्वकर्म्या । पूर्यते संपद्यने सङ्ख्याऽनेनेति करणवाची पूरणशब्दः । तेनान्यतो लब्धचतुःपञ्चसङ्ख्याकानां मुष्टिकाणां पूरण इत्यत्र जलेन तत्त्पूरकतया सङ्ख्यापूरकत्वाभावात्पञ्चम इत्यादि न भवतीति ज्ञेयम् । शाब्दप्रत्यक्षधीभङ्गीयन्यायामृतानुसारेणाह ॥ अर्थस्यापरोक्षत्वं हीत्यादि ॥ विषयापरोक्षस्य तत्रापीति पाठः । उक्तभङ्गीयप्रमेयानुसारेणाह ॥ अत्र तादृशेऽपीति ॥ एवमुत्तरत्रापि तत्र तत्र । वृत्यर्थत्वादिति ॥ वृत्युपात्तत्वादित्यर्थः । आवरणकल्पनादिति । ततश्च तन्निवृत्तकवृत्तेः स्वरूपप्रकाशस्थले वृथाङ्गीकारो न युक्त इति भावः । वाक्यप्रामाण्यानुपपत्तेरबाधकत्वादिति । उक्तानुपपत्तिरूपबाधकाभावादित्यर्थः ।