०५ अपरसिद्धान्तकथनम्

भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः

अपरसिद्धान्तकथनम्

भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः

सुधा

नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आह भेदेति ।

अनुव्याख्यानम्

भेदाभेदेऽप्यभेदेन दोषाणामपि सम्भवः ।

भेदेन सहितोऽभेदो भेदाभेदः । ‘विप्रतिषिद्धं चानधिकरणवाची’ति द्वन्द्वैकवद्भावो वा । अत्रापि पूर्वन्यायेन संसारेऽपि भेदाभेदावङ्गीकार्यौ । ततश्चाभेदेन दोषाणामपि सम्भवः । भेदेन तत्परिहारो भविष्यतीति चेत्तर्हि किमजागलस्तनायितेनाभेदेनेति ॥ इदानीमपरं सिद्धान्तमाह निर्दोषत्वमिति ।

निर्दोषत्वं रमायाश्च ……. ………

तथा परमेश्वरवद्रमायाश्च निर्दोषत्वम् । यथोक्तम्, ‘कामादितरत्र तत्र चायतनादिभ्यः’ ‘समना चासृत्युपक्रमादमृतत्वं चानुपोष्ये’ति ॥ निर्दोषत्वमित्युक्त्या पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाह तदिति ।

…….. …….. तदनन्तरता तथा ।

परमेश्वरानन्तरता तदधीनतेति यावत् ॥ यद्वाऽनेनापरसिद्धान्तान्तरमाह एकस्माद्भगवत एवावरत्वमिति । तदप्युक्तम् अस्यैव चोपपत्तेरूष्मे’ति ॥ सिद्धान्तान्तरमाह ब्रह्मेति ।

अनुव्याख्यानम्

ब्रह्मा सरस्वती वीन्द्ररुद्राश्च तत्स्त्रियः ।

शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च ।

सत्सिद्धान्त इति ज्ञेयो ……. …….

मुक्तौ संसारेऽपि । प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः । अत्र द्वन्द्वनिर्दिष्टानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् । एतच्चोक्तमियदामननादिति । उपलक्षणं चैतत् । प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् ॥ कुतोऽयमगुणेत्यादिसत्सिद्धान्त इत्यत आह निर्णीत इति ।

……. ….. ….. निर्णीतो हरिणा स्वयम् ॥

हरिणा सूत्रकारेण स्वयं साक्षान्निर्णीतो न तु बलात्सूत्रार्थतया कल्पितः । एतच्च तत्र तत्र दर्शितमेव ॥

वाक्यार्थचन्द्रिका

ननु भेदाभेदयोर्द्वित्वात्तद्विवक्षया द्विवचनेन भाव्यम् । तत्कथं भेदाभेदेऽपीत्येकवचनमित्यतः शाकपार्थिवादित्वेन मध्यमपदलोपीसमासत्वान्नैकवचनानुपपत्तिरित्याह भेदेन सहित इति । अस्तु वा भेदश्चाभेदश्चेति द्वन्द्व एव समासः । न चैवं भेदाभेदयोरिति द्विवचनप्रसङ्गो दोषः । एकवद्भावविधानेन तदप्रसङ्गादित्याह विप्रतिषिद्धमिति । अद्रव्यवाचिनां विरुद्धार्थानां द्वन्द्व एकवद्वा स्यादिति सूत्रार्थः । एवञ्च शीतोष्णमित्यादाविव भेदाभेदशब्दयोरद्रव्यवाचित्वाद्विप्रतिषिद्धार्थत्वाच्च द्वन्द्वैकवद्भावोपपत्तेर्न द्विवचनप्रसङ्ग इति भावः ॥ पूर्वन्यायेनेति । मुक्तानां परमात्मना भेदाभेदौ भवन्तौ न तावत्प्राग्भिन्नानां पूर्वं भिन्नस्य पश्चाद्भिन्नाभिन्नतायाः क्वाप्यदर्शनादिति पूर्वन्यायेनेत्यर्थः । अस्तु तर्हि तथैवेत्यत आह ततश्चेति । तथाऽप्यभेदेन तत्प्राप्तेरनिवारणात् । भेदस्य प्राबल्यात्तन्निवारणामिति चेत्तत्राह तर्हीति । कथमस्य वाचनिकत्वमित्यत आह यथोक्तमिति । आद्ये सूत्रे जननमरणरूपदोषाभावस्य, द्वितीये नित्यमुक्तत्वेन लयरूपदोषाभावस्य चोक्तत्वादिति भावः । तस्यापि वाचनिकत्वं दर्शयति तदप्युक्तमिति । प्रकृते भगवता किञ्चित्साम्योपपादनायोदाहृतायामूष्मपदोपेतायां द्विधा हीदमनुदृश्यत इति श्रुतौ ब्रह्मण ऊष्मावत्त्वं तच्चोष्मावत्परं ब्रह्मेत्यंशेनाभिधायाथानूष्मावदित्यंशेन प्रकृतिप्राकृतयोरनूष्मावत्त्वं चोक्त्वा तयोः साम्यनिरासाय यन्न जिघ्रन्तीत्याद्यंशेन प्रकृतेरूष्मावत्त्वमनूष्मावत्त्वं चोक्तं तदेतदभिप्रेत्योक्तं टीकायां प्रकृतेरूष्मावत्त्वमनूष्मावत्त्वं वदन्ती श्रुतिरिति । ततश्चोदाहृतश्रुतौ ब्रह्मणः केवलोष्मावत्त्वस्य प्रकृतेश्चोष्मावदनूष्मावत्त्वस्य प्राकृतस्य च केवलानूष्मावत्त्वस्योक्त्या प्रकृतेरेकस्माद्भगवत एवावरत्वं लभ्यते । अनूष्मावत्त्वस्यापि सत्त्वेन वा परब्रह्मवत् केवलोष्मावत्त्वाभावात्तदपेक्षयावरत्वस्योष्मावत्त्वस्यापि सत्त्वेन प्राकृतवत्केवलानूष्मावत्त्वाभावात्तदपेक्षयाऽवरत्वाभावस्य च प्राप्तेरिति ध्येयम् ॥ द्वन्द्वनिर्दिष्टानामिति । प्रायेणेति शेषः । प्रायो द्वन्द्वगृहीतानामत्र साम्यमित्यन्यत्र टीकाकृता स्वयमेवोक्तत्वात्प्राय इन्द्रवत्काम इत्याद्युत्तरानुव्याख्यानाद्यनुसाराच्चेति द्रष्टव्यम् । प्रपञ्चसत्यत्वादिरूपसिद्धान्तान्तरानुक्त्या प्रसक्तां मूले न्यूनतां परिहरति उपलक्षणं चैतदिति ॥ कतिपय इति । अस्माभिरिति शेषः ॥ एतच्चेति । उक्तार्थस्य सूत्रार्थतयाऽकल्पितत्वं चेत्यर्थः ॥ तत्र तत्रेति । तत्तत्सूत्राक्षरलभ्यत्वोपपादनेनेत्यर्थः ।

**परिमल **

द्वन्द्वपक्षेऽप्युपपत्तिमाह विप्रतिषिद्धं चेति । द्वितीयाध्यायान्त्यपादे सूत्रमिदम् । अद्रव्यवाचिनां विरुद्धार्थानां द्वन्द्व एकवद्भवतीति तस्यार्थः । तथाच शीतोष्णमित्यादाविवैकवचनं साध्विति भावः ॥ पूर्वन्यायेनेति । न हि भिन्नमित्यत्रोक्तन्यायेन हि प्रागत्यन्तभिन्नं पश्चाद्भिन्नाभिन्नं गच्छत् क्वचिदृष्टमिति प्रागपि भेदाभेदावुपेयावित्यर्थः । इति द्विविधपरसिद्धान्तोक्तिर् यथोक्तमिति । अत्रैव पादे सूत्रकृतोक्तमित्यर्थः । तदाह कामादितरत्रेति । कामादित्यधिकरणे रमाया जीवानामिव जन्म नेत्युक्तेः समना चेति चतुर्थद्वितीयाधिकरणे लयाभावस्योक्तेर् निर्दोषत्वं सिद्धमिति भावः । सूत्रार्थस्तन्त्रदीपिकादौ व्यक्तः ॥ अस्यैवेति । अस्यैव चोपपत्तेरूष्मेति समनाचेत्यधिकरणगुणसूत्रे भगवता किञ्चित्साम्यस्यैवोष्मपदोपेतश्रुत्युक्तदिशोपपत्तेरिति तत्र रमाया भगवता किञ्चित्साम्यस्य तदितरापेक्षया त्वाधिक्यस्य च श्रुत्यर्थपर्यालोचनया सिद्धेरिति भावः ॥ एतच्चोक्तमिति । तारतम्यं चोक्तमत्रैव पादे सूत्रकृता । सूत्रमाह इयदिति । भगवदुपासकानां छन्दोगश्रुत्युक्तमुख्यप्राणावधित्वमेव ‘प्राणो वा व सर्वेभ्यो भूयानित्यामननादित्यर्थः ॥ ग्राह्यमिति । तस्यापि ‘नाभाव उपलब्धेरित्यादौ समर्थनादिति भावः ॥ तत्रतत्र प्रदर्शितमेवेति । जन्मादिसूत्रे खल्वभिहितोऽयमर्थ इत्यनेनासम्भवस्त्वित्यादिसूत्राणामुदाहरणेन च प्रदर्शितमित्यर्थः ।

यादुपत्यं

द्वन्द्वपक्षेऽपि नैकवचनानुपपत्तिरेकवद्भावविधानादित्याह विप्रतिषिद्धमिति । अद्रव्यवाचिनां विप्रतिषिद्धार्थानां द्वन्द्व एकवद्भावः स्यादिति सूत्रार्थः ॥ उदाहरणं तु शीतोष्णं शीतोष्णे । द्रव्ये तु शीतोष्णे उदके । एवं भेदाभेदशब्दयोरद्रव्यवाचित्वाद्विप्रतिषिद्धार्थत्वाच्च द्वन्द्वैकवद्भाव इत्यर्थः । पूर्वन्यायेनेति । ‘न हि भिन्नं भिन्नाभिन्नतां गच्छद्दृष्टमिति न्यायेनेत्यर्थः । रमानिर्दोषत्वस्य वाचनिकत्वं दर्शयति यथोक्तमिति । एवमग्रेऽपि । कामादितरत्रेत्यत्र इच्छयाऽवतारग्रहणकथनेन रमाया जननरूपदोषाभावः समना चेत्यत्रापि संसारानुपक्रमकथनेन मरणाद्यभाव एवोक्त इति द्रष्टव्यम् ॥ अस्यैव चोपपत्तेरिति । अत्र हि प्रकृतेर्भगवता किञ्चित्साम्योपपादनायोष्मपदोपेता श्रुतिः प्रमाणतयोक्ता । तस्यां च द्विधा हीदमवदृश्यते । उष्मावदनूष्मावच्च । तत्रोष्मावत्परं ब्रह्मेत्युक्त्वाऽथानूष्मावत्प्रकृतिश्च प्राकृतं च यन्न जिघ्रन्ति जिघ्रन्ति चेत्याद्युक्तम् । अत्र हि प्रकृतिप्राकृतयोरनूष्मावत्त्वप्रतिषेधेन तयोः साम्यप्राप्तौ यन्न जिघ्रन्ति जिघ्रन्ति चेत्यादिना यत्प्रकृतिस्वरूपं तन्न जिघ्रन्ति जिघ्रन्ति चेत्यादिरूपेण प्रकृतेरूष्मावत्त्वमनूष्मावत्त्वं चोक्तम्, तेन परंब्रह्म केवलमूष्मावत्, प्रकृतिस्वरूपमूष्मावदनूष्मावच्च । प्राकृतमनूष्मावदेवेति विभागो लभ्यते । ऊष्मावत्त्वानूष्मावत्त्वे चोत्तमत्वावरत्वप्रयोजकतया अत्राभिप्रेते । ततश्च प्रकृतेः परब्रह्मवत् केवलोष्मवत्त्वाभावात् तदपेक्षया अवरत्वं प्राकृतवत् केवलानूष्मावत्त्वाभावात्, तदपेक्षया अवरत्वाऽभाव इति तस्या भगवत एवावरत्वमुपपादितमिति ज्ञातव्यम् ॥ प्रपञ्चसत्यत्वादिकमपीति । इदं चानुषङ्गिकापरसिद्धान्तप्रदर्शनायोक्तमिति ज्ञातव्यम् । अत्रादिपदेन तत्त्वसङ्ख्यानप्रमाणलक्षणाद्युक्तरीत्या तत्त्वप्रमाणविभागादिकं ग्राह्यम् ।

श्रीनिवासतीर्थीया

पूर्वं निर्दोषत्वोक्तौ पारतन्त्र्यमपि नास्तीति शङ्कानिरासकत्वेन तदनन्तरतेति वाक्यं योजितम् । इदानीं निर्दोषत्वमित्यनेन यथाऽपरसिद्धान्त उक्त एवं तदनन्तरतेत्यनेनाप्यपरसिद्धान्तान्तरमेवोच्यत इत्याशयेनाह यद्वेति ।

वाक्यार्थरत्नमाला

द्विवचनेनेति । भेदाभेदयोरिति सप्तमीद्विवचनेनेत्यर्थः । शाकपार्थिवादित्वेनेति ॥ मयूरव्यंसकादित्वेनेत्यपि द्रष्टव्यम् । अत एवोपाधिभेदादित्येतदुपाधिकृतादिति व्याख्याय मयूरव्यंसकादित्वेन साधुत्वमभिहितं तत्वनिर्णयटीकायामिति ज्ञेयम् । भवन्ताविति पाठः । उत्तरवाक्यमपेक्षितपूरणं कुर्वन्नवतारयति । तथाप्यभेदेनेति । द्वन्द्वनिर्दिष्टानामिति । वीन्द्ररुद्रा इति शक्रकामाविति च यथाद्वन्द्व एवं तत्स्त्रिय इत्ययमपि द्वन्द्वतया विवक्षित इति तन्निर्दिष्टवीन्द्रादिपत्नीनामपि साम्योक्तिलाभः । एकस्य द्वन्द्वापवादकतया चाद्युल्लेखादिसाम्येन च भूतपूर्वगत्या द्वन्द्वत्वव्यवहारोपपत्तेः । उक्तं च ‘‘नपुंसकमनपुंसकेने’’ति सूत्रवृत्यादौ द्वन्द्वापवादत्वमेकस्येत्यवधेयम् । शक्रकामयोरपीषत्तारतम्यसद्भावादाह ॥ प्रायेणेतीति ।