०६ नाध्ययनविधिप्रयुक्तमध्ययनमिति प्रभाकराक्षेपपरिहारः

ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ

नाध्ययनविधिप्रयुक्तमध्ययनमिति प्रभाकराक्षेपपरिहारः

ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ

सुधा

आह नाध्ययनविधिप्रयुक्तमध्ययनम् । किन्त्वध्यापनविधिप्रयुक्तमेव । अध्ययनविधेर्नियोज्यरहितत्वात् । न ह्यत्र स्वर्गकामो यजेतेतिवत्कश्चिन्नियोज्यः श्रूयते । नापि विश्वजिदादाविव कल्पयितुं शक्यते । अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् । न चाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् । आचार्यकरणकामस्य तत्र नियोज्यत्वात् । अष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् । ‘सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु निय’ इत्याचार्यकरणे नयतेरात्मनेपदविधानात् । तमध्यापयीतेत्युपनयनाध्यापयोरेककर्तृकताप्रतीतेः । न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष) क्षेपलक्षणेनोपादानेनाध्यापनविधिरेवाध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते । किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् । अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।

उच्यते । स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् । न चैवम् । अध्यापनस्य जीविकार्थत्वात् । त्रीणि कर्माणि जीविकेति वचनात् । अध्ययनस्य च नित्यत्वात् । ‘योऽनधीत्य द्विजो वेदानि’त्यकरणे प्रत्यवायश्रवणात् । न च नित्यमनित्येन प्रयुज्यते । किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्यानध्ययनप्रसङ्गः । यो येनोपनीतः स तेनाध्यपनीय इति चेत् । तर्ह्युपनायके परेतेऽध्ययनाभावः स्यात् ॥ यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् ॥ अयमप्याचार्यस्यैव विधिः । शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न । आचार्ये परेते तदभावापातात् ॥ अतोऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्कीकार्यमित्यलम् ।

वाक्यार्थचन्द्रिका

स्वाध्यायोऽध्येतव्य इति विधेरुक्तं सर्ववेदाध्ययनविधायकत्वमसहमानः प्राभाकरः प्रत्यवतिष्ठते आहेति ॥ प्रयुक्तमिति । लभ्यमित्यर्थः । नन्वध्ययनस्य स्वतन्त्राद्ययनविधिप्रयुक्तत्वमेव कस्मान्न स्यादित्यत आह अध्ययनविधेरिति । नियोज्यरहितस्य च विषयाप्रयोजकत्वादिति शेषः । अयमाशयः । विधिकार्येषु ममेदं कार्यमिति कार्यप्रत्येता नियोज्यः । ततश्च मदर्थसाधनत्वादनुष्ठेयमिदं कर्मेति तादर्थ्यज्ञानवानधिकारी । ततस्तु कर्मनिर्वर्तकः कर्तेति तिस्त्रोऽवस्था एकस्यैव क्रमभाविन्यः । तत्र च यो विधि स नियोज्यः । स एव तस्य कर्मण्यधिकारमुपजनय्य विषयानुष्ठानं प्रयोजयति । विषयो नाम कार्यावच्छेदको धात्वर्थ इति हि तन्मतम् । ‘यजेत’, ‘दद्यात्’, ‘जुहुयादि’त्यादिषु लिङादिभिः कार्यं प्रतीयमानं स्वरूपेण प्रत्येतुमशक्यमिति धात्वर्थावच्छिन्नमेव प्रत्याय्यते । यागकार्यं दानकार्यं होमकार्यमिति । ततश्च कार्यप्रतीतिदशायां योऽवच्छेदको धात्वर्थः स एव विषयः । स नियोज्य एव च विधिस्तत्प्रयोजकः । स्वर्गकामनियोज्यकदर्शपूर्णमासविधेस्तद्दर्शनात् । यस्तु नियोज्यहीनो नासौ तत्प्रयोजकः समिधो यजतीत्याद्यङ्गविधेस्तद्दर्शनात् । अयं त्वध्ययनविधिर्नियोज्यरहितत्वान्न विषयानुष्ठापक इति । असिद्धिं परिहरति न हीति । अत्र स्वाध्यायाध्ययनविधावित्यर्थः । यागविधौ स्वर्गकाम इतिवदध्ययनविधावमुककाम इति नियोज्यो न श्रूयत इत्यर्थः ।

ननु विश्वजिता यजेतामावस्यामपराह्णे पिण्डपितृयज्ञेन चरन्तीत्यादावश्रुतोपि यथा स्वर्गकामो नियोज्यः कल्प्यते तद्वदत्रापि तत्कल्पनेनाध्ययनविधेरेव स्वविषयप्रयोजकत्वमस्त्वित्यत आह नापीति । अनुष्ठानाधीनसिद्धिर्हि नियोगः ॥ तत्सिद्ध्यर्थमनुष्ठातारमाक्षिप्यानधिकारिणोऽनुष्ठातृत्वासम्भवादनियोज्यस्य चाधिकारासम्भवात्तन्नियोज्यं कल्पयतीत्येव । न पुनः स्वप्रतिपत्त्यर्थं स्वसिद्ध्यर्थं वा विषयवत्करणवच्च साक्षान्नियमेन नियोज्यमाकाङ्क्षति । निर्नियोज्यकानां प्रयाजादिविधीनां बहुलमुपलम्भात् । तथा च स्वस्य कार्यत्वेन यत्र स्वविषयानुष्ठनापेक्षा तादर्थ्येन च कर्त्राद्यपेक्षा तत्रैव नियोज्यमपेक्षते । यदा तु विध्यन्तरानुष्ठापितेनैव विषयेण स्वात्मलाभं पश्यति तदा न नियोज्यमपेक्षते । यथा प्रयाजादिविधयस्ते हि दर्शपूर्णमासविध्यनुष्ठापितविषयकत्वान्न नियोज्यापेक्षिणः । प्रकृते चाध्यापनविध्यनुष्ठापितेनैवात्मविषयेणाध्ययनविनियोगसिद्धेर्नियोज्यानपेक्षत्वान्नतत्कल्पनमुचितमिति भावेनाह अध्यापनविधिनैवेति ।

नियोज्याभावान्नाध्ययनविधिरध्ययनप्रयोजक इत्युक्तमयुक्तम् । तथा सत्यध्यापनविधेरपि नियोज्यरहितत्वेन स्वविषयाप्रयोजकत्वापातात् । न ह्यष्टवर्षमित्यादौ स्वर्गकामो यजेतेत्यादिवत्कश्चिन्नियोज्यः श्रूयते । ततश्चानियोज्यत्वादध्ययनविधिवत्स्वविषयाप्रयोजकत्वात्तद्द्वारा परप्रयोजकत्वमध्यापनविधेर्दण्डापूपनयहतमित्याशङ्कते न चेति ॥ तत्रेति । अद्यापनविधावित्यर्थः । नन्वध्यापनविधावश्रुतत्वात्कथमाचार्यकरणकामस्य नियोज्यत्वमित्यश्रतस्तत्रावणेऽप्युपनयनविधौ श्रुतत्वाददोष इत्याह अष्टवर्षमित्यादि ॥ आत्मनेपदश्रवणादिति । ततश्चात्मनेपदेनैवोपनयनविधावाचार्यकरणकामस्य नियोज्यत्वसिद्धिरिति भावः । कथमात्मनेपदेनाप्याचार्यत्वस्य नियोज्यविणत्वसिद्धिरित्यत आचार्यकरणे तद्विधानादित्याह सम्माननेति । नन्वस्त्वाचार्यकरणकामस्योपनयनविध्यधिकारित्वं किं तावतापि । न ह्युपनयने नियोज्यः स एवाध्यापने इत्यत्र प्रमाणमस्ति । तत्कथमध्यापनविधौ तस्याधिकारित्वमित्यत आह तमिति । नन्वस्त्वध्यापनविधेः सनियोज्यतया स्वविषयानुष्ठापकत्वं तथापि कुतस्तेनाध्ययनस्य प्रयुक्तिरित्यत आह न हीति । पुरुषान्तरकर्तृकोच्चारणार्थमुच्चारणमध्यापनशब्दार्थः । गुरुमुखोच्चारणमनूच्चारणं चाध्ययनशब्दार्थः । तथा च पुरुषान्तरकर्तृकोच्चारणार्थोच्चारणरूपस्याचार्यकर्तृकस्य माणवककर्तृकाध्ययनेन विनाऽनुपपत्त्याध्यापनविधिनैवाध्ययनानुष्ठानसिद्धिरिति भावः ।

ननु द्रव्योपायतयाध्ययनस्य प्राप्तत्वादप्राप्त एव च विधेः साफल्यात्स्मृतिवाक्यं वा तदनुमितमुपनीयाध्यापयेदाचार्यत्वसिध्यर्थमित्येवंरूपं वा वचनं नाध्यापनविधायकं भवितुमर्हति । किन्नामाध्ययनविधानमेवेदम् । इयांस्तु विशेषः । यदष्टवर्षमिति गूढोऽध्ययनविधिः स्वाध्यायोऽध्येतव्य इति च स्पष्टः । न चात्र णिचः श्रवणान्नाध्ययनविधायकत्वमिति वाच्यम् । अष्टवर्षतयाऽशक्तस्य पुत्रस्य शुभलोकार्थिना पित्रवानुशास्यत्वाभिप्रायेण तदुपपत्तेः । अत्राकामं याजयेदित्यत्र याजयतेः परतः श्रूयमाणस्य विधेर्यागविधिपरत्ववदत्रापि श्रूयमाणस्य विधेरध्ययनविधिपरत्वस्यैव न्याय्यत्वात् । ननु च श्रुतौ नयतेर्ञित्त्वात्स्वरितञितः कर्त्रभिप्राय इत्यनेनात्मनेपदं विधीयते । तच्चोपनयनस्याध्यापनाङ्गत्वे तत्फलस्यैवोपनयनफलत्वात्तस्य चोपनयनकर्तृभूताचार्यगामित्वाद्युज्यते । अध्ययनाङ्गत्वे तु तत्फलस्याध्येतृगामितया क्रियाफलस्यान्यगामित्वेन नात्मनेपदं सिध्येत । अतोऽध्यापनाङ्गमेवोपनयनमिति । सत्यम् । नात्र स्वरितञित इत्यनेन तद्विधिः । किन्त्वाचार्यकरणेऽर्थे सम्माननेति सूत्रेण । अन्यथा तत्फलस्य कर्तृगामित्वात्पूर्वसूत्रेणैवात्मनेपदसिद्धेः सम्माननसूत्रमनर्थकं स्यात् । अतोऽकर्तृगामित्वेऽप्यात्मनेपदसिध्यर्थमेव तत् । तदुक्तं वृत्तिकृता । अकर्त्रभिप्रायार्थः । पुनरारम्भ इति । ततश्चाध्ययनविधायकत्वान्नाध्यापनविधायकत्वमुदाहृतस्येति नाध्यापनविधिप्रयुक्तत्वमध्ययनस्य किन्तु स्वतन्त्रविधिप्रयुक्तत्वमेव । न च नियोज्याभावो दोषः । अर्थज्ञानकामस्यैव तत्कल्पनादित्यरुचेराह किञ्चेति ।

स्यादेवमिति । यद्यप्यत्र द्रव्यमार्जयन्ब्राह्मणो याजयेदध्यापयेत्प्रतिगृह्णीयाद्वेत्यादिवाक्याद्द्रव्यार्जनोपायतया प्राप्तत्वादप्राप्ते च विधेः साफल्याद्य एवं विद्वान्पौर्णमासीं यजतेत्यादाविव प्रसिद्धार्थतया विधिशक्तिप्रतिबन्धकत्वेन क्लृप्तयच्छब्दयोगाच्चाध्यापनविधेरेवासम्भवान्न तद्विधिप्रयुक्तत्वमध्ययनस्येति वक्तुमुचितम् । तथाऽ‘प्युपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षत’इत्यध्यापनस्याचार्यत्वफलकत्वश्रवणान्नेदं वचनं द्रव्यार्जनार्थप्राप्ताध्यापनानुवादपरम् । किन्तु पृथगध्यापनविधिपरमेवेति युक्तमध्ययनस्य तद्विधिप्रयुक्तत्वमित्याशङ्कापरिहाराय नित्यनैमित्तिकत्ववैषम्योपन्यासेन प्रयोजकप्रयुक्तिभावो निराकृत इति ध्येयम् । न च मा भूदाचार्यकार्यमध्यापनं तथापि विद्यादानेन सुमतिर्ब्रह्मलोके महीयते इत्यादिभिर्विद्यादानात्मकत्वादध्यापनमपि ब्रह्मलोकावाप्तिलक्षणफलतया विधियते इति तत्प्रयुक्तत्वमध्ययनस्य स्यादेवेति वाच्यम् । तस्यापि नियोज्याश्रवणेन प्रयाजादिविधिवदप्रयोजकत्वेनाध्ययनस्य तत्प्रयुक्तत्वानुपपत्तेः । न च नियोज्याभावेऽपि फलसाधनत्वश्रवणात्तावन्मात्रेणाधिकारोदये सत्यध्यापनानुष्ठाने तत्प्रयुक्तिरध्ययनस्य स्यादेवेति वाच्यम् । विषयस्य स्वभावजन्यस्यार्थज्ञानस्यापि पश्चात्प्रतीतत्वादध्ययनविधावपि तत्कामस्यैवाधिकारित्वसम्भवादध्ययनस्यापि स्वविधिनैव प्रयुक्तेर्युक्ततयाऽन्यविधिप्रयुक्तत्वायोगादित्याशयात् ॥ जीविकेति । तथा च नैमित्तिकत्वं तस्येति भावः ॥ त्रीणि कर्माणीति । याजनाध्यापनप्रतिग्रहाख्यानि त्रीणि कर्माणीत्यर्थः ॥ योऽनधीत्येति । योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमधिगच्छति सान्वय इति वेदाध्ययनाकरणे प्रत्यवायश्रवणादसत्यागन्तुके निमित्ते यदकरणे प्रत्यवायः श्रूयते तस्यैव नित्यत्वादिति भावः । अनित्येनेति । नैमित्तिकेनेत्यर्थः । नैमित्तिकस्यागन्तुकनिमित्तसमावेश एव कर्तव्यता । श्राद्धादौ नैमित्तिके तथा दर्शनात् । नित्यस्य तु तदभाव एव । एवञ्च कस्यचिदाचार्यस्य जीविकारूपनिमित्ताभावेनाध्यापनाभावे तदुपनीतमाणवकस्य नित्यतयाऽवश्यकमध्ययनं न तत्पक्षे सिध्यतीति भावः ॥ चारितार्थत्व इति । अध्यापनविधेरिति शेषः । न चैकेनोपनीतमाणवकान्तरस्यान्येनाध्यापनं भविष्यतीति कथं तदभाव इति वाच्यम् । उपनयनकर्तुरेवाध्यापनेऽधिकारस्याङ्गीकृतत्वेनैकोपनीतस्यान्येनाध्यापनासम्भवादिति भावः ॥ य इति । यद्यप्याचार्यत्वकामना सकृतध्यापनेन निवृत्ता तथाऽपि विधिबलादधिकाराभावेऽपि माणवकान्तरस्य स्वेनोपनीतत्वादध्यापनं करोतीति भावः । परेते मृते ॥ समानमिति । प्रातः सन्ध्यामुपासीतेत्येतद्विधिज्ञाने सति सन्ध्योपासनं सति च तस्मिन्नैतद्विधिपठनेनैतद्विधिज्ञानं कृतसन्ध्यावन्दनस्यैव वेदाधिकारित्वात्तथा चेतरेतराश्रयत्वमिति भावः ॥ कथञ्चिदिति । वृद्धा अध्ययनादिविध्यर्थं स्ववाक्येन माणवकं प्रति कथयन्त्विति नेतरेतराश्रयत्वमिति भावः ।

**परिमल **

प्राभाकरमतमनूद्य निराह आहेति । प्राभाकर इति योज्यम् ॥ अध्यापनेति । अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीतेति श्रवणात्तत्प्रयुक्तमित्यर्थः ॥ नियोज्येति । प्रेरणीयपुरुषरहितत्वादित्यर्थः ॥ विश्वजिदादाविति । चतुर्थस्य तृतीयपादे ‘फलाश्रुतेः कर्ममात्रं प्रतीयते न ह्यशब्दं प्रतीयत इति पञ्चमाधिकरणे विश्वजिता यजेतेत्यादिषु फलाश्रवणेन स्वर्गकामादिरूपनियोज्यहीनत्वादागमकार्यताबोधनेन वाक्यस्य परिपूर्णतयाऽध्याहारानपेक्षणाच्च पुरुषप्रवृत्त्ययोगेन विध्यानर्थक्यादप्रमाणमेवमादीति प्राप्ते नियोज्याभावे अनुष्ठानापर्यवसानात्तत्पर्यवसानार्थं स्वर्गकामादिरूपो विनियोज्योध्याहारेण कल्पनीय इत्युक्तं तद्वदित्यर्थः । वैषम्यमाह अध्यापनेति । विश्वजिदादावनन्यलभ्यविधिबोधितापूर्वशब्दितविनियोगबलान्नियोज्यकल्पनायाः सम्भवेऽपि इह अध्ययनेन विनाऽध्यापनायोगादन्यलभ्याध्ययनानुवादेन विधित्वाभावान्न नियोज्यकल्पनं युक्तमित्यर्थः । अध्यापयीतेत्यादावपि स्वर्गकामादिपदश्रवणाच्छङ्कते नचेति ॥ आचार्यकरणकामस्येति । (स्वस्याचार्यत्वं कर्तुकामस्येत्यर्थः) । आचार्यत्वसम्पत्तिकामस्येत्यर्थः । सोऽपि न श्रूयत इत्यतस्तद्बोधकं शब्दं पूर्ववाक्यस्थं दर्शयति अष्टवर्षमिति । आत्मनेपदेत्यलुक्समासेनैकं पदम् । तावता कथमुक्तनियोज्यलाभ इत्यत आह सम्माननेति ।

आद्यस्य तृतीयपादे ‘अनुदात्तङित आत्मनेपदमिति’ आत्मनेपदप्रकरणे सम्माननेति सूत्रे ‘सम्माननं पूजनम् । उत्सञ्जनम् उत्क्षेपणम् । आचार्यकरणं स्वस्याचार्यत्वं यथा भवति तथा सम्पादनम् । ज्ञानं वस्तुनिश्चयः । भृतिर्वेतनम् । विगणनम् ऋणादेर्निर्यातनम् । व्ययः धर्मादिषु विनियोगः । सम्माननादौ सति नीञ्प्रापण इत्यस्मादात्मनेपदं भवती’तिविधानात्स्वस्याचार्यत्वसिद्धये अष्टवर्षं ब्राह्मणं स्वसमीपं नयतीति वाक्यार्थसम्पत्त्या कामनाभावे तत्करणायोगेनाचार्यकरणकामस्य लाभ इति भावः । तावताऽध्ययनविधौ तल्लाभः कथमित्यत आह तमध्यापयीतेति । अध्यापनेनाध्ययनलाभं प्रागध्यापनविधिनैवाध्ययनसिद्धावित्युक्तं व्यनक्ति न हीति । इति शब्दो हेतौ । इति कृत्वा स्वसिद्धये अध्यापनसिद्धये अध्ययनरूपपराक्षेपरूपेणोपादानेनोपादानाख्यप्रमाणेनेत्यर्थः । तन्मते हि श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यारूपप्रमाणषट्कमिवोपादानाख्यं सप्तमं प्रमाणमङ्गीकृतमिति उपादानेनेत्युक्तम् । सङ्गतमितीतिशब्दस्येत्याहेति पूर्वेणान्वयः । जीविकार्थत्वाज् जीवनोपायत्वादित्यर्थः ॥ त्रीणीति । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूपषट्कर्ममध्ये याजनाद्यापनप्रतिग्रहरूपत्रीणि कर्माणि जीवनहेतुरित्यर्थः । ‘षण्णां तु कर्मणां मध्ये त्रीणि कर्माणि जीविका । याजनाद्यापने चैव विशिष्टाच्च प्रतिग्रह’ इति वचनादित्यर्थः । अस्तु ततः किमित्यत आह अध्ययनस्य चेति । ‘योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः’ इत्यध्ययनस्याकरणे र्निन्दाश्रवणादित्यर्थः । ततोऽपि किमित्यत आह न च नित्यमनित्येनेति । जीवननिमित्तकत्वादनित्येनेत्युक्तम् । प्रयुज्यते अनुष्ठाप्यत इत्यर्थः । नित्यस्य विपक्षे दण्डभयेनैवानुष्ठातव्यत्वेनान्यप्रयुक्तत्वादित्यर्थः ॥ चरितार्थत्व इति । अध्यापनविधेरिति योज्यम् । अध्ययनादीति । अध्ययनसन्ध्यावन्दनाग्निकार्यादिविधिरित्यर्थः ॥ कथञ्चिति । लौकिकप्ररोचनविपक्षदण्डादिनेत्यर्थः ॥ इत्येतदिति । पूर्वोदाहृतसूत्रमित्यर्थः ।

यादुपत्यं

स्वाध्यायोऽध्येतव्य इति विधेः सर्ववेदाध्ययनविधायकत्वमुक्तमसहमानं प्राभाकरमुत्थापयति आहेति ॥ प्रयुक्तमिति । लभ्यमित्यर्थः ॥ नियोज्येति । तथा चाध्यापनविधिलब्धाध्ययनानुवादित्वमेव स्वाध्यायोऽध्येतव्य इत्यस्य नाद्ययनविधित्वमिति भावः विश्वजिदादावित्वेति । विश्वजिता यजेतेत्यादौ किं नियोज्योऽध्याहार्यो न वेति सन्देहे लोके द्वारं द्वारमित्यादौ क्रियया विना कारकाभिधानापर्यवसानाद्युक्तोऽध्याहारः । इह तु विषयेण कार्यस्यान्विताभिधानपर्यवसानदध्याहार इति प्राप्ते उच्यते । अत्राप्यभिधेयापर्यवसानाद्वाराऽभिधानापर्यवसानमेव । कार्यं हि साध्यत्वेन कृतिनिरूप्यम् । नरव्यापाररूपा च कृतिः । सा यथा स्वसाध्यधात्वर्थनिरूप्या एवं स्वाश्रयनरनिरूप्या । तदेवं कृतेः कर्तापि कार्ये कृतिद्वारा सम्बन्धित्वेन निरूपक इति तमन्तर्भाव्यैव नियोगधीः । न चासावबुद्ध्वाऽऽत्मनः कार्येण सम्बधं स्वतस्तेन सम्बध्यते । स्वसम्बन्धिकार्यबोद्धा च नियोज्य इति सोऽध्याहार्य इति । तथाऽत्रापि नियोगधीबलान्नियोज्यः कल्पयितुं शक्यत इत्यर्थः ॥ अध्यापनविधिनैवेति । विश्वजिदादेरनन्यलभ्यतया यजेतेत्यस्य विधित्वेन नियोगधीजनकतयोक्तरीत्या तत्र नियोज्याध्याहारोऽपेक्षितो’ न चात्र तथा । अध्ययनस्याध्यापनविधिप्रयुक्तत्वेन स्वाध्यायोऽध्येतव्य इत्यस्य तदनुवादकतया विधित्वाभावेन नियोगबुद्धेरेवाभावे नियोज्यकल्पकाभावादित्यर्थः । ननु स्वर्गकामो यजेतेत्यादौ स्वर्गकमादिपदवन्नात्राचार्यकरणकामप्रापकं किञ्चिच्छयत इत्यत आह आत्मनेपदश्रवणादिति । तथापि कथमुक्तलाभ इत्यत आह सम्माननेति । सम्माननं पूजनम् । उत्सञ्जनमुत्क्षेपणम् । आचार्यकरणमाचार्यक्रिया । आचार्यसम्पत्तिरिति यावत् । अभूततद्भावेऽपि च्विर्विकल्पितत्वान्न कृतः । ज्ञानं प्रमेयनिश्चयः । भृतिर्वेतनम् । विगणनम् ऋणादेर्निर्यातनं शोधनमिति यावत् । व्ययो धर्मादिषु विनियोगः । सति सप्तमीयम् । स्वभावात्स्वतो विणत्वं गमयति । विणं च यथासम्भवं किञ्चिद्धात्वर्थस्य किञ्चिद्धातोः । तेन सम्माननोत्सञ्जनाचार्यकरणभृतिषु नयत्यर्तविणेषु सत्सूत्सञ्जनज्ञानविगणनव्ययेषु वाच्यतया नयतिविणेषु सत्सु णीञः णीञ् प्रापण इति धातोस्तङानावित्यर्थः सम्पद्यते । उदाहरणं तु सम्मानने शास्त्रे नयते । शास्त्रस्थान्पदार्थान्युक्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयतीत्यर्थः । युक्तिभिः स्थिरीकरणमेव पदार्थानां पूजनम् । अन्य त्वाहुः । पदार्थानामचेतनत्वान्नेयं पूजा मुख्या किन्त्वभिलषितार्थसम्पादनेन शिष्याणामेव पूजेति व्याख्येयमिति । उत्सञ्जने दण्डमुन्नयते उत्क्षिपतीत्यर्थः । आचार्यकरणे माणवकमुपनयति माणवकमीदृशेन विधिनाऽऽत्मसमीपं प्रापयति । यथा स्वयमुपनेताऽऽचार्यः सम्पद्यते । आत्मानमाचार्यं कुर्वन्माणवकमात्मसमीपं नयतीत्यर्थः । ज्ञाने पदार्थं नयते पदार्थलक्षणं प्रमेयं निश्चिनोतीत्यर्थः । भृतौ भृत्यमुपनयते वेतनेनात्मसमीपं प्रापयतीत्यर्थः । विगणने करं विनयते राज्ञे देय भागं निर्यातयति शोधयतीत्यर्थः । व्यये शतं विनयते धर्मार्थं विनियुङ्क्तत इत्यर्थः । यद्यपि माणवकमुपनयत इत्यत्रात्मनेपदमहिम्नाऽत्राचार्यत्वसम्पादक एवोपनयनेऽधिकारी प्रतीयते न तु तत्कामस्तथाऽपि तत्कामनाभावे तत्सम्पादनासम्भवात्तत्कामनाऽप्यर्थाल्लभ्यत एव । एवञ्चाचार्यकरणकाम एव नियोज्य आत्पनेपदप्रयोगबलादेव प्रतीयत इति न तत्प्रापकाभाव इति भावः ।

नन्वेवमुपनयनविधावेव नियोज्यः प्राप्तो न त्वध्ययनविधावत आह तमध्यापयीतेति । अध्ययनं न साक्षादध्यापनविधिप्रयुक्तम् । किन्तु तद्विहितेनाध्यापनेनाक्षिप्यत इति दर्शयति न ह्यध्पनमिति । उपादानमिति परमतेऽर्थापत्तेः संज्ञेति दर्शयितुं स्वसिद्धये पराक्षेपलक्षणेनेत्युक्तम् ॥ जीविकार्थत्वादिति । तथा च नैमित्तिकत्वं तस्येति भावः ॥ त्रीणि कर्माणीति । यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहलक्षणेषु षट्सु कर्मसु याजनाध्यापनप्रतिग्रहाख्यानि त्रीणि कर्माणि जीवनोपायभूतानीत्यर्थः॥ योऽनधीत्येति । ‘योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः’ इति वेदाध्ययनाकरणे प्रत्यवायश्रवणात् । असत्यागन्तुके निमित्ते यदकरणे प्रत्यवायः श्रूयते तन्नित्यमिति नित्यकर्मणो लक्षणमिति भावः ॥ अनित्येनेति । नित्यभिन्नेन नैमित्तिकेनेत्यर्थः ॥ नैमित्तिकस्यागन्तुकनिमित्तसमावेश एव कर्तव्यता । श्राद्धादौ निमित्तके तथा दर्शनात् । नित्यस्य तु तदभाव एव । एवं च कस्यचिदाचार्यस्य जीविकारूपनिमित्ताभावेनाध्यापनाभावे तदुपनीते माणवके नित्यतयाऽऽवश्यकमध्ययनं न त्वत्पक्षे सिध्यतीति भावः ॥ चारितार्थत्व इति । अध्यापनविधेरिति शेषः । परेते मृते ॥ समानमिति । सन्ध्योपासने सति विधिज्ञानम् । ततश्च सन्ध्योपासनमितीतरेतराश्रयत्वं समानमित्यर्थः । आचार्यस्यैवेति । अन्तर्णीतणिच्त्वेनेति भावः ॥ कथञ्चिदिति । घनगर्जितन्यायेन वा लौकिकवाक्येन वेत्यर्थः । तेन चार्थज्ञानपर्यन्ताध्ययनादौ प्रवृत्तिरिति नोक्तेतरेतराश्रयत्वमिति । अत्रादिपदेन ‘प्रातः सन्ध्यामुपासीते’त्यादिविधिसङ्ग्रहः । ततश्चानयैव रीत्या तत्राप्यन्योन्याश्रयता परिहरणक्षयेति भावः ।

श्रीनिवासतीर्थीया

नन्वध्ययनविध्यभावे माणवकस्याध्ययनमेव न सिध्येत् । अतस्तदन्यथाऽनुपपत्त्या नियोज्यः कल्पनीय इत्यतोऽन्यथैवोपपत्तिमाह अध्यापनविधिनैवेति । आचार्यस्याध्यापनं माणवकस्याध्ययनं विना न सम्भवतीत्यध्यापनविधिनैव माणवकस्याध्यनमाक्षिप्यते । अतोऽन्यथाऽनुपपत्तिलभ्यस्याध्ययनस्य न चोदनार्थत्वं ‘यश्चार्थादर्थो न स चोदनार्थः’ इति न्यायादिति भावः । अध्यापनमेवाध्ययनमुपादत्त इति तदीयग्रन्थाभिप्रामाह स्वसिद्धय इति ॥ कथञ्चिदिति । तथा चाध्ययने सति विधिज्ञानमित्यनङ्गीकारान्नेतरेतराश्रय इति भावः ।

वाक्यार्थरत्नमाला

अचार्यकरणे तद्विधानादिति । णीञ् प्रापण इत्यतो धातोः समानादिष्वर्थेषु आत्मनेपदं भवतीति तत्सूत्रार्थादिति भावः । आचार्यकरणं चाचार्यक्रियेति काशिका ॥ शास्त्रदीपिकाव्याख्यानावसरे शङ्करभट्टैस्तु आचार्यः क्रियते अनेनेति आचार्यकरणमिति व्याख्यातम् । अध्ययनेन विनाऽनुपपत्येति । अनेन मूलस्थम् उपादानपदं प्राभाकराभिमतानुपपत्यात्मकचातुर्थिकोपादानाख्यप्रमाणपरमित्युक्तं भवति । द्रव्यार्जनोपायतयेति । द्रव्यमार्जयन् ब्रह्मणो याजयेदध्यापयेदित्यादि वाक्यादिति भावः । आचार्यकसिध्यर्थमिति । आचार्यकमाचार्यत्वं तत्सिध्यर्थमित्यर्थः । शङ्करभट्टैराचार्यकशब्दस्य तत्वार्थतया व्याख्यानादिति बोध्यम् । नित्यनैमित्तिकं कर्म कुर्वन्निति भाट्टोक्तमोक्षसाधनपरानुव्याख्यानव्याख्यानरूपमूलानुसारेणेत्यादि लक्षणमुक्तम् असत्यागन्तुक इत्यादिना ।