१३ मायावाद्युक्तपादार्थनिरासः

तथोभयात्मकं चैव पादेऽस्मिन्बादरायणः

मायावाद्युक्तपादार्थनिरासः

तथोभयात्मकं चैव पादेऽस्मिन्बादरायणः

सुधा

किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति । तत्राह तथेति ।

अनुव्याख्यानम्

तथोभयात्मकं चैव पादेऽस्मिन्बादरायणः ॥

आहोपासनमद्धैव विस्तराच्छतिपूर्वकम् ॥

तथा तस्मादवासरप्राप्तत्वात् । अस्मिन्नेवेति सम्बन्धः । उपासनमेवेति च (वा) । तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति । तथा हि । किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे । नाद्यः । गतार्थत्वात् । द्वितीये ब्रह्मणोऽखण्डत्वेन प्राप्त्यभावः । सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न । प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति । अद्धा उपयुक्तप्रमेयेण सह । अत एव विस्तरात् । अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति । श्रुतिग्रहणमुपलक्षणम् । अत्र सङ्गतिकथनप्रस्तावेऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।

वाक्यार्थचन्द्रिका

यथाश्रुतैवसम्बन्धस्य वैयर्थ्येनासम्भवाद्भिन्नक्रमतामाश्रित्य तं योजयति अस्मिन्नेवेति सम्बन्ध इति ॥ इति चेति । सम्बन्ध इति वर्तते । एवशब्दस्योपासनमित्यनेन सम्बन्धोक्तेर्वैयर्थ्यमाशङ्क्य परिहरति तेनेति । उपासनस्यैव तत्पादार्थत्वकथनेनेत्यर्थः । ननु न प्रतिज्ञामात्रेणार्थसिद्धिरन्यथातिप्रसङ्गादित्यतोऽभिप्रेतां निरासकयुक्तिमुपदर्शयितुं प्रतिजानीते तथा हीति ॥ गतार्थत्वादिति । गतिसामान्यादिति सूत्रेणेति शेषः । तत्र वेदान्तोत्पाद्याया ब्रह्मावगतेरेकप्रकारत्ववर्णनेनाविरुद्धत्वसमर्थनादिति भावः ॥ द्वितीय इति । विषयवैलक्षण्यावैलक्षण्ययोरेव तज्ज्ञानवैलक्षण्यावैलक्षण्यप्रापकत्वात्प्रकृते च विज्ञेयस्य ब्रह्मणोऽखण्डत्वेनावधारिततया तत्र विरुद्धलक्षणयोगित्वादिरूपवैलक्षण्यस्याभावनिश्चयेन विषयवैलक्षण्यादिरूपप्रापकाभावान्न तज्ज्ञाने तदधीनवैलक्षण्यवैलक्षण्यचिन्ताया अवसर इत्यर्थः । विलक्षणत्वादिप्राप्तिं शङ्कते सगुणेति ॥ इयं चिन्तेति । तज्ज्ञानवैलक्षण्यावैलक्षण्यचिन्तेत्यर्थः । तथा चाखण्डस्य ब्रह्मणो विरुद्धलक्षणयोगित्वादिरूपवैलक्षण्यानुपपत्तावपि विषयत्वेनाभिमतस्य सगुणब्रह्मणः प्राणादेर्वा विरुद्धलक्षणयोगित्वादिरूपवैलक्षण्याक्रान्ततया विषयवैलक्षण्यप्रयुक्तायास्तज्ज्ञाने वैलक्षण्यचिन्ताया अस्त्येव प्राप्तिरिति भावः । सगुणविषया प्राणादिविषया वोक्तचिन्ता किं शास्त्रे स्वप्रधानत्वेन कर्तव्यतयाऽभिमता किंवाऽखण्डब्रह्मज्ञानाङ्गतया वा । नाद्यः । अधिकारिणो मुमुक्षुत्वेन तत एव तत्त्वजिज्ञासुत्वेन च तं प्रति सगुणत्वप्राप्तिफलकातत्त्वभूतसगुणब्रह्मविषयायाः प्राणादिविषयाया वा तज्ज्ञानवैलक्षण्यावैलक्षण्यचिन्तायाः स्वप्राधान्येन शास्त्रे कर्तव्यत्वानुपपत्तेरिति भावेन द्वितीयं दूषयति प्रकृतेति । उक्तचिन्ताविषयत्वेनाभिमतस्य सगुणब्रह्मणः प्राणादेर्वा जिज्ञास्यतया प्रकृताखण्डब्रह्मरूपविषयेण तत्प्रयोजनत्वेनाभिमतसगुणप्राप्त्यादेश्च प्रयोजनतयाऽखण्डब्रह्मभावलक्षणमोक्षप्रयोजनेन च विरुद्धत्वाद्विरुद्धविषयप्रयोजनवत्या उक्तचिन्ताया मोक्षफलकाखण्डब्रह्मज्ञानाङ्गत्वासम्भवेन तदङ्गतया शास्त्रे कर्तव्यत्वानुपपत्तेरिति भावः ॥ अत एवेति । उपयुक्तप्रमेयस्यापि कथनेनोपासनामात्रस्याकथनादेवेत्यर्थः ॥ अनेनेति । उपयुक्तप्रमेयेण सहोपासनस्यैतत्पादार्थत्वकथनेनेत्यर्थः ॥ केषाञ्चिदिति । यावदधिकारमवस्थितिरित्यादीनामित्यर्थः । तेषामुपासनाऽप्रतिपादकत्वेऽपि तदुपयुक्तार्थप्रतिपादकत्वादिति भावः ॥ उपलक्षणमिति । स्मृतेरिति शेषः ॥ केषाञ्चिदिति । अथातो ब्रह्मजिज्ञासा जन्माद्यस्य यत इत्यादीनामित्यर्थः ॥ न दोष इति । सङ्गतिकथनप्रस्तावविरोधलक्षणो दोषो नेत्यर्थः ।

***परिमल ***

तेनेति । उभयत्र एवकारसम्बन्धेनेत्यर्थः ॥ गतार्थत्वादिति । द्वितीयाध्यायान्तिमपादद्वयेनेत्यर्थः ॥ प्रकृतेति । अखण्डचैतन्यरूपविषयकबन्धनिवर्तकज्ञानरूपाऽवान्तरप्रयोजनाखण्डब्रह्मतापत्तिरूपपरमप्रयोजनविरुद्धत्वादित्यर्थः ॥ केषाञ्चिदिति । प्रदानवदेवेत्यादीनामनुबन्धादिभ्य इत्यादीनां तन्निर्धारणार्थनियमस्तद्दृष्टेः ‘पृथग्ध्यप्रतिबन्धः फलमि’त्यादीनामित्यर्थः ॥ केषाञ्चित्सूत्राणामिति । जिज्ञासादिसूत्राणामित्यर्थः ।

यादुपत्यं

गतार्थत्वादिति । द्वितीयस्य तृतीयचतुर्थचरणयोः श्रुतीनां परस्परविरोधस्य परिहृतत्वेन ताभ्यामस्य गतार्थत्वापत्तेरित्यर्थः ॥ उक्तं हि वियत्पादारम्भे भामत्याम् । पूर्वं प्रमाणान्तरविरोधः श्रुतीनां निराकृतः । सम्प्रति तु श्रुतीनामेव परस्परविरोधो निराक्रियत इति । यद्वा गतिसामान्यादित्यनेन गतार्थत्वादित्यर्थः ॥ सगुणब्रह्मेति । तत्र विरुद्धलक्षणयोगित्वरूपं वैलक्षण्यं प्रसक्तमिति न पूर्वोक्तदोष इति भावः ॥ प्रकृतविषयेति । अत्र जिज्ञास्यस्याखण्डब्रह्मण एव विषयतया तद्भावरूपस्यैव च मोक्षरूपप्रयोजनतया प्रकृतत्वात्सगुणादिविषयचिन्तायास्तत्प्राप्तिफलकायास्तत्रैव संस्कारदार्ढ्यापादकतया प्रकृतविषयप्रयोजनविरुद्धत्वमिति ज्ञातव्यम् ॥ केषाञ्चिदधिकरणानामिति । यावदधिकारमवस्थितिरधिकारिकाणामित्यारभ्य ‘अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदमि’त्यतः प्राक्तनानामधिकरणानामित्यर्थः । जन्माद्यस्य यत इत्यादीनामित्यर्थः ।

श्रीनिवासतीर्थीया

तेनेति । उपासनमेवोच्यत इति वचनेनेत्यर्थः । भिद्यन्ते न वेत्युक्तभेदाभेदशब्दार्थं विवेचयति भेदाभेदाविति । भेदाभेदशब्दार्थावित्यर्थः । किं विरोधेत्याद्यन्वयः ॥ विरोधाविरोधाविति । विज्ञानानि विरुद्धान्यविरुद्धानि वेत्यर्थः । वेदान्तानां किं परस्परविरुद्धार्थविषयकज्ञानजनकत्वम्, उताविरुद्धार्थविषयकज्ञानजनकत्वमिति भावः ॥ विलक्षणेति । तथा च वेदान्तानां विरुद्धलक्षणोपेतब्रह्मज्ञानजनकत्वम् उताविरुद्धलक्षणोपेतब्रह्मज्ञानजनकत्वमित्यर्थः ॥ गतार्थत्वादिति । गतिसाम्यादित्युक्तत्वादिति भावः ॥ अखण्डत्वेनेति । निर्धर्मकत्वेनेत्यर्थः ॥ प्राप्त्यभाव इति । वेदान्तानां विरुद्धलक्षणोपेतब्रह्मज्ञानजनकत्वमिति कोटिप्राप्त्यभावेन विचारानवकाशादिति भावः ॥ सगुणेति । तथा च वेदान्तानां विरुद्धलक्षणोपेतसगुणब्रह्मप्राणादिविषयकज्ञानजनकत्वं न वेति चिन्तोपपद्यते । सगुणब्रह्मादेः सधर्मकत्वेन तत्र विरुद्धलक्षणप्रसक्तिसद्भावादिति भावः ॥ अनेन ओति वचनेन । केषाञ्चित्सूत्राणां जन्माद्यस्येत्यादीनाम् ॥