०८ आनुमानिकाधिकरणतात्पर्यम्

अवरत्वादि द्विविधं ह्युपलभ्यते

आनुमानिकाधिकरणतात्पर्यम्

अवरत्वादि द्विविधं ह्युपलभ्यते

सुधा

कथमित्यतः प्रथमाधिकरणतात्पर्यमाह अवरत्वादीति ।

…. … अवरत्वादि द्विविधं ह्युपलभ्यते ॥

अवरादिशब्दप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः । हिशब्दस्तेषां प्रसिद्धिं द्योतयति । कथं द्विविधमित्यत आह परस्येति ।

अनुव्याख्यानम्

परस्यावरताहेतुर्यः स्वयं पर एव सन् ॥

सोऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् ॥

अन्योऽवरत्वानुभवी …… …….

स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावेऽपीति प्रदर्शनार्थम् । परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः । तस्य प्रमितत्वदर्शनं यथेति । परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत्तथेत्यर्थः । अवरत्वानुभवी अन्योऽवरशब्दार्थः । अवरत्वादिमत्त्वमपरं निमित्तमिति यावत् । एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् । ततः किं प्रकृत इत्यत आह तयोरिति ।

………… तयोः पूर्वोऽस्ति केशवे ॥

तयोः प्रवृत्तिहेत्वोर्मध्ये । तेनावरादिशब्दवाच्यत्वं चेति शेषः । कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आह द्वितीय इति ।

द्वितीयो जीव एवास्ति ……….

जीव इति जडस्याप्युपलक्षणम् । तथा च सतीश्वरत्वहानिः स्यादित्यर्थः । अधिकरणफलमाह स्वातन्त्र्यादिति ।

…… …. …… स्वातन्त्र्यान्नैव दूषणम् ॥

हरेः ……. …… ………… ……

परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति । एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।

वाक्यार्थचन्द्रिका

करोतीति । केशान्करोतीत्यादौ शोधनेऽपि करोतेः प्रयोगदर्शनेनानेकार्थत्वात्करोतिरत्र ज्ञापनार्थो द्रष्टव्यः ॥ विवरणमिति । अतो न तद्वैयर्थ्यमिति भावः ॥ कर्मक्रमादिविरोधाच्चेति । कर्मक्रमादिवाचकवेदभागस्य ब्रह्मपरत्वे तत्साधकप्रमाणाभावप्रसक्त्या तदभावप्रसङ्गलक्षणविरोधाच्चेत्यर्थः । नन्वन्यगतधर्मनियामकत्वस्य प्रवृत्तिनिमित्तत्वे यथा राजा जयी भवेदिति यथा प्रमाणमुपन्यस्तमेवं तद्गतत्वस्य प्रवृत्तिनिमित्तत्वेऽवश्यमुपन्यसनीयस्य प्रमाणस्यानुपन्यासाद्भाष्ये न्यूनत्वमित्याशङ्क्यानुक्तौ निमित्तकथनेन तत्परिहरति एतच्चेति । तथाऽपि नोक्तशङ्कापरिहार इत्यत एवशब्दाभिप्रायमाह तथा च सतीति । द्वितीयस्य प्रवृत्तिहेतोरीश्वरेऽभ्युपगम इत्यर्थः । भगवतो ज्योतिरादिशब्दवाच्यतायां शङ्कितकर्मक्रमादिविरोधपरिहारस्य भाष्येऽनुक्तत्वात्कथं तच्छङ्कापरिहार इत्यत आह एवमिति । कर्मादेर्ज्योतिरादिवाक्यमुख्यार्थतात्पर्यविषयत्वाभावेऽप्यवान्तरतात्पर्यविषयत्वेन वेदेनैव तत्सिद्धिसम्भवान्न कर्मक्रमादिविलोपप्रसङ्ग इत्येवंरूपं तात्पर्यं वक्तव्यमित्यर्थः ।

***परिमल ***

शेषोक्तया व्याचष्टे अतीतेनेति ॥ यः प्रतिज्ञात इति । समन्वयसूत्र इति योज्यम् । यथा गजा जयीति पूर्वत्रेवेहाप्यर्थे कुतः प्रमाणं नोक्तमित्यत आह एतच्चेति । स्वातन्त्र्यादित्यस्यार्थः स्वातन्त्र्यस्येत्यादि ॥ एवमुत्तराधिकरणेति । निगमनिघण्टुव्याकरणादिसिद्धान्यार्थत्वविधानेन महायोगविद्वद्रूढिभ्यां विष्णुपरत्वोपगमेन कर्मक्रमादिविरोधो नेत्यानुमानिकपादोक्तरीत्या ज्योतिराद्यधिकरणतात्पर्यं ध्येयमित्यर्थः ।

यादुपत्यं

कर्मक्रमविरोधाच्चेति । कर्तप्रतिपादकवेदानां भगवति समन्वये तत्साधकप्रमाणान्तराभावेन तदभावप्रसङ्गलक्षणविरोधाच्चेत्यर्थः ।

श्रीनिवासतीर्थीया

द्वितीयो जीव एवास्तीत्युत्तरत्र जीवशब्देन जडमप्युपलक्ष्यत इत्युच्यते । तत्र जडेऽवरत्वानुभवित्वाभावादाह अवरत्वादिमत्त्वमिति । प्रमाणं प्रमापकम् । उदाहरणमित्यर्थः । नन्ववरत्वादिमत्त्वमीश्वरे कुतो नाङ्गीक्रियत इत्यस्यानेन किमुत्तरं जातमित्यत आह तथा सतीति ॥ उत्तराधिकरणेति । पदाक्षरसमन्वयेन भगवत एव प्रवृत्तिनिमित्तादौ स्वातन्त्र्येण मुख्यवाच्यत्वेऽपि वाक्यान्वयन्यायेनामुख्यवृत्त्या कर्मक्रमादेरपि वाच्यत्वाङ्गीकारान्न तदभावप्रसङ्गरूपो विरोध इत्येव ज्योतिरुपक्रमादित्युत्तराधिकरणतात्पर्यमपि द्रष्टव्यमित्यर्थः ।