०६ तृतीयपादतात्पर्यम्

उभयत्र प्रतीतितः

तृतीयपादतात्पर्यम्

उभयत्र प्रतीतितः

अनुव्याख्यानम्

…. ……….. उभयत्र प्रतीतितः ॥

शब्दानां वर्तमानानां सलिङ्गानां वितः ॥

समन्वयो हरावेव …… ………

सुधा

हरौ तदितरत्र च । प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव वितः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः । कुत इत्यत आह यदिति ।

अनुव्याख्यानम्

……. ……. यन्नैवान्यत्र मुख्यतः ॥

शब्दा लिङ्गानि च ……. …………

यद्यस्माद्वर्तन्त इति शेषः । एतदपि कुत इत्यत आह यत इति ।

……. ….. यतो नैवान्यत्र स्वतन्त्रता ।

स्वतन्त्रताऽस्तीति शेषः । स्वातन्त्र्याभावेऽपि कुतोऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आह अस्वतन्त्रेष्विति ।

अनुव्याख्यानम्

अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः ॥

यतोऽतो ……. ……. ……

नन्वन्येषामस्वतन्त्रत्वात्तेषु मुख्यतः शब्दप्रवृत्तिहेतोर्गुणादेरभावान्मुख्यतः शब्दा न वर्तन्त इति चेत् । मा वर्तिषत ।

तथाऽपि वितः समन्वयो हरावेवेत्येतत्कुत इत्यत आह अत इति । इतरस्य मुख्यार्थत्वाभावादित्यर्थः । भाव्यं खलु शब्दस्य मुख्यार्थेन । अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः । तथा च द्वयोः प्रसक्तयोरेकस्य मुख्यार्थत्वानुपपत्तावितरस्य मुख्यार्थत्वमावश्यकमेव ।

यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।

अनुव्याख्यानम्

…….. यदधीनास्ते शब्दार्थत्वमुपागताः ॥

अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु ॥

अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ॥

मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः ॥

इत्याह ……. …… …….

ते भगवतोऽन्ये पदार्था भगवदपेक्षयाऽत्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दार्थत्वमुपगताः स भगवानेवेशो निरवधिकशब्दप्रवत्तिनिमित्तवान् । स्वतन्त्रत्वतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः । इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि । भगवति तु निरवधिकान्यपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति । श्रुत्यादिपरिचयवद्भिः । यो यदधीनः शब्दार्थः सोऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः । अयो यथाऽग्न्यधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपगतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्योऽग्नौ तु मुख्यस्तथेत्यर्थः । अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः । इत्याह तृतीयपादेनेति शेषः ।

वाक्यार्थचन्द्रिका

गूढाभिसन्धिः शङ्कते नन्विति । शक्त्या लक्षणादिना वा प्रतिपादकत्वरूपत्वात्तात्पर्यस्य शक्त्यन्यत्वसिद्धेर्न तात्पर्यनिरासेन शक्तिनिराससिद्धिरित्याशयेन परिहरति अन्यत्रेति । पूर्ववादी स्वाशयमुद्घाटयति तर्हीति । सिद्धान्त्यपि स्वाशयमुद्घाटयति सत्यमिति । अनुपलम्भबाधपरिहारायाह यद्वेति । नन्वेवं पूर्वपक्षस्य सन्देहादविशेषः स्यादित्यत आह तथा चेति । ननु यन्नैवान्यत्र मुख्यत इत्यनेनैवेतरस्यामुख्यार्थताया उक्तत्वाद्यदधीनास्त इत्यादि पुनरुक्तमित्यत आह अत्रेतरस्येति ॥ अनूद्यत एवेति । तथा च यदधीनेत्यादिनेत्यस्यामुख्यार्थत्वं पूर्वोक्तमनूद्य स्वातन्त्र्येण निमित्तेनेश्वरस्य मुख्यशब्दार्थत्वं विधीयत इति न पुनरुक्तिरित्यर्थः । तृतीयं पादमित्यादिपूरणेऽपरितोषादाह इत्याहेतीति । ननु तत्सङ्गादुपचारत इत्यादिना अन्यत्रामुख्यताया उक्तत्वाद्यदधीनास्त इत्यादिनाऽपि पुनस्तद्वचने पौनरुक्त्यामित्यत आह अत्रेतरस्येति ।

***परिमल ***

तत्रैव प्रथमादिपाद एवेत्यर्थः । पूर्वोक्तार्थाविरोधादेतच्चिन्ता व्यर्थेत्यत आह इति शङ्का इति । इति संशयेत्यादेरर्थ इत्याशङ्केत्यादि ॥ इति इति । आरब्धवानित्यतिपदमात्रस्य इति ज्ञेयम् ॥ मा वर्तिषतेति । वर्तनं मा भूदित्यर्थः ॥ द्वयोरिति । विष्णुतदितरयोरित्यर्थः । गुणेनेति गुणकर्मादेरुपलक्षणमित्युपेत्याह गुणादिनेति । भगवत्यायत्ता भगवदधीनाः । स्वतन्त्रत इत्युपलक्षणमित्युपेत्याह निरवधिकशब्दप्रवृत्तीति । यन्नैवान्यत्र मुख्यत इत्यादिना यदधीना इत्यादेः पौनरुक्तयं निराह अत्रेतरस्येति ।

यादुपत्यं

ननु तत्सङ्गादुपचारत इत्यत्रैवेतरस्यामुख्यार्थत्वमुक्तम् । पुनरत्यल्पेनैव शब्दस्येत्यादिना तद्वचने पुनरुक्तिरित्यत आह अत्रेतरस्येति ।

श्रीनिवासतीर्थीया

लिङ्गशब्दयोरित्येतत्तात्पर्यमाह लिङ्गात्मकानामित्यादि ॥ अन्यत्रेति । आनन्दमयादिशब्दानामिति शेषः ॥ उभयत्रेति । भगवति कोशादौ चेत्यर्थः ॥ तर्हि त एव पुनरिति । पुनःशब्दो वाक्यालङ्कारे । यथा लिङ्गात्मकानां शब्दानां द्वितीयपादेन समन्वयोक्तौ । नन्वेवं तर्हि यान्यन्तरित्यादिना शङ्काकृता तथैवोभयत्र प्रसिद्धानां नामलिङ्गात्मनां शब्दानां तृतीयपादेन समन्वयोक्तावपि त एव पुनर्विचार्या इत्यर्थः । उच्यत इत्यादिनोक्तमेव समाधानमाह सत्यमिति । ननु यन्नैवान्यत्र मुख्यत इत्यत्रेत्यनेनैवेतरस्यामुख्यार्थताया उक्तत्वाद्यदधीनास्त इत्यादि पुनरुक्तमित्यत आह अत्रेतरस्येति ॥ अनूद्यत एवेति । तथा च यदधीना इत्यादिनोत्तरस्यामुख्यार्थत्वं पूर्वोक्तमनूद्य स्वातन्त्र्येण निमित्तेनेश्वरस्य मुख्यशब्दार्थत्वं विधीयत इति न पुनरुक्तिरित्यर्थः ।