०१ अध्यायपादसङ्गतिनिरूपणम्

वौराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत्

अथ तृतीयाध्यायस्य तृतीयः पादः

श्रीमज् जयतीर्थ (टीकाकृत्पादाचार्य) विरचिता

सनाभिर्

न्यायसुधा

षट्टिप्पणीसमेता

अथ तृतीयाध्यायस्य तृतीयः पादः

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

अध्यायपादसङ्गतिनिरूपणम्

वौराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत्

सुधा

उपासनाऽस्मिन्पाद उच्यत इति भाष्यम् । तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतोऽस्य पादस्य सङ्गतिं वदन्प्रसङ्गादेतदध्यायगतपादचतुष्टयस्याप्याह वैराग्यत इति ।

अनुव्याख्यानम्

वौराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।

आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् ॥

मीमांसासाध्याद्वैराग्यात्प्रागेव भक्तेर्भाव्यत्वाद्दार्ढ्यमित्युक्तम् । यदाशब्दो यस्मादित्यर्थे । तयाऽपरोक्ष्यं भवेत् । इति तस्मात् ।

अयमर्थः । साधनविचारोऽयं तावदध्यायः । मोक्षसाधनं च भगवत्प्रसाद एव । तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि । तानि च न समकक्ष्याणि । किन्त्वादौ वैराग्यं साध्यम् । तेन भक्तिः । न हि हेये रागवत उपादेये प्रेमोत्पत्तिरस्ति । दृश्यते तावदिति चेत् । नासौ दृढ(ः) प्रेमा । अत एव चोक्तं भक्तिदार्ढ्यमिति । तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् । न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुपप(त्प)द्यते । उपासनया चातिदीर्घकालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति । यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।

वाक्यार्थचन्द्रिका

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ।

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ १ ॥

नन्वत्र पूर्वोत्तरपादाभ्यां भेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धयेऽवश्यं वक्तव्यस्य पादप्रतिपाद्यस्यानुक्तेर्न्यूनत्वं तदनुक्तौ विषयस्य बुद्ध्यनारूढतयाऽस्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरिति जिज्ञासाया अनुदयात्तदुक्तेरजिज्ञासितोक्तित्वं चेत्याशङ्क्य पादप्रतिपाद्यस्य भाष्ये स्पष्टत्वादत्रानुक्तिर्न दोषाय तत्रोक्तत्वादेव विषयस्य बुद्ध्यारोहादेव चास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरिति जिज्ञासाया अपि सम्भवान्न तदुक्तेरजिज्ञासितत्वोक्तित्वमपीत्याशयेन पादप्रतिपाद्यस्य भाष्योक्तत्वकथनपूर्वकसङ्गतिजिज्ञासामुत्थाप्य तत्पूर्वकतया वैराग्यत इति मूलं योजयति उपासनेति । अस्य पादस्य पूर्वोत्तरपदसङ्गतिमात्रकथनेनोक्तजिज्ञासापूरणात्पादचतुष्टयस्य सङ्गतिकथनार्थक्यमाशङ्क्य परिहरति प्रसङ्गादिति ॥ मीमांसासाध्यादिति । गत्यागत्यादिमीमांसासाध्यादित्यर्थः । वैराग्यार्थे गत्यादिनिरूपणा प्रथमपाद इति भाष्योक्तेरिति भावः । भाव्यत्वादिति । भक्तिपूर्वकाध्ययनस्यैव ब्रह्मविद्याधिकारत्वेन भक्त्यभावेऽनधिकारप्रसङ्गादिति भावः ॥ यस्मादित्यर्थ इति । यदाशब्दस्तु हेत्वर्थ इति वचनादिति भावः । उपासनायाः साक्षात्कारसाधनत्वस्यात्रोक्तिसिद्ध्यर्थं तेनेत्यस्यापरोक्ष्यमित्यनेनापि सम्बन्धमर्थवशाल्लिङ्गविपरिणामं चाश्रित्य योजयति तयाऽऽपरोक्ष्यमिति । यत्तदोर्नित्यसम्बन्धात्तस्मादित्यस्याभावे यस्मादित्यर्थकस्य यदा पदस्यानन्वयप्रसङ्गादितिशब्दं तदर्थतया योजयति इतीति ।

ननु भवेदेतद्यदि वैराग्यादेः पादार्थत्वं स्यान्न च तदस्ति । नियामकाभावात् । अस्तु वा तस्य तदर्थत्वं तथापि पादक्रमो निर्निबन्धन इत्यत आह अयमर्थ इति । वैराग्यादिकं तृतीयाध्यायगतपादचतुष्टयप्रतिपाद्यम् । तृतीयाध्यायार्थत्वात् । न चासिद्धिः । विमतं तृतीयाध्यायार्थो मोक्षसाधनत्वादित्यनुमानादेव तत्सिद्धेरिति भावेनात्राप्रयोजकत्वं तावत्परिहरति साधनविचारोऽयं तावदध्याय इति । अयमर्थः । अथातो ब्रह्मजिज्ञासेति प्रथमसूत्रे सङ्क्षेपेण शास्त्रार्थे सूचिते किं तद्ब्रह्मेति जिज्ञासायां तत्स्वरूपं द्वितीयसूत्रे निगदितम् । तदेव चाध्यायशेषेण समर्थितम् । तत्र प्रतीतविरोधाश्च द्वितीये परिहृताः । तदेवं सङ्क्षेपेण सूचितशास्त्रार्थेऽथब्रह्मजिज्ञासापदाभ्यां विहितमोक्षसाधनानामवशिष्टत्वेन तेषामेव तृतीयाध्यायार्थत्वमिति । नन्वेवमपि न वैराग्यादेस्तृतीयाध्यायार्थत्वं भगवत्प्रसादस्यैव मोक्षसाधनतया तत्साधनविचारकतृतीयाध्यायार्थताया न्याय्यत्वात् । वैराग्यादेश्च तदसाधनत्वादित्यतो भगवत्प्रसादस्यैव साक्षान्मोक्षसाधनत्वेऽपि तस्य पुरुषप्रयत्नागोचरत्वेन विधातुमशक्यतया प्रसादसाधनानामेव तृतीयाध्यायार्थताया वक्तव्यत्वाद्वैराग्यादिचतुष्टयस्य तत्साधनत्वात्तदर्थत्वमित्यभिप्रेत्य प्रसादस्य साक्षान्मोक्षसाधनत्वं कथयन्नेव वैराग्यादिचतुष्टयस्य तत्साधनतामाह मोक्षसाधनं चेत्यादिना । वैराग्यादेः साधनत्वं च तत्प्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपप्रयोजकत्वमेव द्रष्टव्यम् । अस्त्वेवमध्यायार्थत्वात्पादार्थत्वं वैराग्यादेस्तथाऽपि कुतस्तत्क्रम इत्यतो वैराग्यादीनां क्रमभावित्वात्तत्प्रतिपादकपादानामपि क्रम इति भावेन वैराग्यादीनां क्रमिकतामुपपादयति तानि चेति । कुतो भक्तेर्वैराग्यसाध्यत्वमित्यतो तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वादित्याशयेन तस्यास्तत्साध्यतामुपपादयति न हीति । तद्व्यतिरेकेऽपि भक्तिदर्शनात्तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वमेवासिद्धमिति न तेन तस्यास्तत्साध्यत्वसिद्धिरित्याशयेन शङ्कते दृश्यत इति । अस्मदादिष्विति शेषः । दृढभक्तेरेव तत्साध्यत्वाङ्गीकारेण भक्तिमात्रस्य तत्साध्यत्वानभ्युपगमात्तद्व्यतिरेके भक्तिमात्रसद्भावेऽपि दृढभक्तेरभावान्नासिद्धिरिति भावेन समाधत्ते नेति । दृढत्वं चान्तरायसहस्त्रेणाप्यनपोद्यत्वम् । दृढभक्तेरेव तत्साध्यत्वं न भक्तिमात्रस्येत्यत्र ग्रन्थसम्मतिमाह अत एव चेति । सन्निहितत्वात्तेनेति भक्तिदार्ढ्यस्यैव परामर्श इति भ्रान्तिनिरासायाह तेनेति । नन्वियं भ्रान्तिरेव कुतो वस्तुस्थितिरेव किं न स्यादित्यत उपासनायास्तदुभयसाध्यत्वेन भक्तिदार्ढ्यमात्रसाध्यत्वाभावादिति भावेन तस्या उभयसाध्यतामुपपादयति न हीति ॥ अतिदीर्घकालमिति । दर्शनं चिरयाऽनयेत्यत्रोक्तेरिति भावः । नन्वव्यक्तैकस्वभावस्य परमात्मनः कथमुपासनया साक्षात्कार इत्यतोऽतोऽनन्तेनेति न्यायं मनसि निधायाह प्रसन्न इति । प्रकृतप्रमेयं निगमयति यस्मादिति ।

***परिमल ***

प्रतिपाद्यमनुक्त्वा सङ्गत्युक्तिरनवसरदुस्थेत्यतः प्रतिपाद्यं स्मारयति उपासनेति ॥ तत्रेति । एवमर्थोक्तौ सत्यामित्यर्थः ॥ प्रसङ्गादिति । सङ्गत्युक्तिप्रसक्तयेत्यर्थः ॥ मीमांसासाध्यादिति । सारासारवस्तुज्ञानाधीनो ह्यसारे वस्तुनि विरागः । स च तदन्तरेत्यादिप्रतमपादप्रकृतमननापरनामकमीमांसासाध्य इत्येवमुक्तम् । मीमांसातः प्राक्तनविरागस्तु श्रद्धामात्रसिद्धो न भक्तिदार्ढ्यहेतुरिति भावः॥ प्रागेवेति । अन्यथा ‘भक्तिमान्परमे विष्णावि’त्युक्तदिशा सूत्राथपदोक्ताधिकारिविणाभावेन शास्त्रेऽधिकार एव न स्यादिति भावः । तयेति शेषोक्तिः । उपासनयेत्यर्थः । इतीत्यनुवादः । तस्मादिति व्याख्या । वैराग्यादिरेव पादार्थ इति कुतः । कथं च तस्य हेतुहेतुमद्भाव इत्यतः क्रमेण व्यनक्ति अयमर्थ इत्यादिना ॥ दृश्यत इति । अन्यत्र रागिणोऽपि साधोरीश्वरे प्रेमा दृश्यत इत्यर्थः ।

यादुपत्यम्

भाव्यत्वादिति । अन्यथा हरिभक्तिपूर्वकाध्ययनरूपाधिकारिलक्षणाभावेनानधिकारिकत्वप्राप्तेरिति भावः । एतदेव दर्शयितुं मीमांसासाध्यादित्युक्तम् । ननु विषयवैराग्येण कथं भगवति भक्तिर्विनिगमकाभावेन वैपरीत्यस्यापि सम्भवादित्यतस्तदुपपादयति न हि हेय इति । तथा च वैराग्यभक्त्योर्भिन्नविषयत्वेऽपि जन्यजनकभाव उपपद्यत एव । वैराग्यविषये हेयत्वस्य स्नेहविषय उपादेयत्वस्य विनिगमकस्य सत्त्वादिति भावः ॥ दृश्यत इति । अस्मदादाविति शेषः ।

श्रीनिवासतीर्थीया

वैराग्ये सति भक्तिरित्यन्वयव्याप्तिदार्ढ्याय वैराग्याभावे भक्त्यभाव इति व्यतिरेकव्याप्तिमुपपादयति न हीति । प्रेमोत्पत्तिः स्नेहरूपभक्त्युत्पत्तिः ॥ दृश्यते तावदिति । हेये पुत्रादौ रागवतामप्यास्तिककामुकानामुपादेये भगवति प्रेमोत्पत्तेरनुभवसिद्धत्वेन व्यभिचारान्न वैराग्याभावे भक्त्यभाव इति व्यतिरेको युक्त इत्यर्थः ॥ दृढः प्रेमेति । तथा च वैराग्यतो भक्तिदार्ढ्यं तदभावे भक्तिदार्ढ्याभाव इत्यन्वयव्यतिरेकयोर्विवक्षितत्वान्न व्यभिचार इति भावः ।

वाक्यार्थरत्नमाला

का पूर्वेणोत्तरेण वा सङ्गतिरिति जिज्ञासाया इत्यनुवदतैव मूले इत्यत इत्यस्येति जिज्ञासायामिति व्याख्यानं कृतं भवति ॥ उक्तजिज्ञासेति ॥ अस्य पादस्य कापूर्वेणोत्तरेण वा सङ्गतिरिति जिज्ञासेत्यर्थः । अत्रत्यटीकास्थजिज्ञासाशब्दः पूर्वटीकास्थः पञ्चधा प्रयुक्तो जिज्ञासाशब्दो ज्ञातुमिच्छाजिज्ञासेतीच्छायां सन्नन्तस्तेनेच्छैवाभिधीयते । तत्वत्प्रकाशिकास्थशङ्कापदस्य शिष्यीयाकाङ्क्षा रूपत्वेन प्रतिपाद्याशङ्कारूपत्वाज् ज्ञातुमिच्छेत्यर्थकजिज्ञासापदप्रयोग उचितः । अत एवाजिज्ञासितोक्तित्वादिकं शिष्यविवक्षयोक्तमिति ज्ञातव्यम् । लिङ्गविपरिणाममिति ॥ तेनेति नपुंसकलिङ्गस्य तयेति परिणाममित्यर्थः । नित्यसम्बन्धादिति । अन्यतरस्याभावे द्वितीयस्याप्यभाव इति नियमादित्यर्थः ॥ तथैवाह । तस्मादित्यस्येति ॥ एतदध्यायोपक्रमीयतत्वप्रकाशिकानुसारेणोपयुक्तमाह ॥ अथातो ब्रह्मेति ॥ अथब्रह्मजिज्ञासापदाभ्यामिति ॥ अधिकारवाचिनाऽथपदेन वैराग्यादेः प्रतिपादनं जिज्ञासापदेनोपसनाया विधानमिति भावः ॥ तदसाधनत्वादिति ॥ मोक्षासाधनत्वादित्यर्थः ॥ तत्साधनत्वादिति ॥ प्रसादसाधनत्वादित्यर्थः । अनन्यथासिद्धिघटितकारणत्वासम्भवादाह ॥ तत्प्रागभावेति ॥ तत्प्रसादादेवमुच्यत इति जिज्ञासाधिकरणीयानुव्याख्यानव्याख्यानस्थ परमेश्वरे भक्तिर्नाम निरवधिकानन्तानवद्यानेककल्याणगुणेत्यादिभक्तिलक्षणमनुसन्धायाह ॥ दृढत्वञ्चेति । दर्शनं चिरयाऽनयेत्यन्यत्रेति ॥ तन्त्रसारे चतुर्थाध्याय इत्यर्थः । अतोऽनन्तेनेति न्यायमिति ॥ एतत्सूत्रोक्तसाधनसमर्थेन प्रत्यक्षत्वेऽपि भगवत्प्रसादादेव तदापरोक्ष्यं भवतीत्युक्तन्यायमित्यर्थः ॥ प्रकृतं प्रमेयं निगमयतीति ॥ यस्मात्तस्मादित्यर्थकयोर्यदेतिशब्दयोरन्वयप्रदर्शनेन हेतुसाध्यसम्बन्धं दर्शयतीत्यर्थः ॥