०३ पादार्थोपसंहारः

तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः

पादार्थोपसंहारः

तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः

सुधा

पादार्थमुपसंहरति तस्मादिति ।

अनुव्याख्यानम्

तस्मादनन्तमाहात्म्यगुणपूर्णो(गो) जनार्दनः ।

भक्त्या परमयाऽऽराध्य इति पादार्थ ईयते ॥ ३२२० ॥

***इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने ***

तृतीयाध्यायस्य द्वितीयः पादः ॥ ३२ ॥

***माहात्म्यं शक्तिः । गुणा अनन्दाद्याः । आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ***

॥ ३२२० ॥

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्ताख्ययतिना ॥

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयेऽध्यायेऽस्मिन्भजनचरणः पर्यवसितः ॥ १ ॥

इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ॥ ३२ ॥

वाक्यार्थचन्द्रिका

नन्वमाहात्म्येति गुणानां माहात्म्यमुच्यते न भगवतस्तत्कथमयं पादार्थः । भगवन्माहात्म्यस्यैव तदर्थत्वात् । न चामाहात्म्यश्चासौ गुणपूगश्चेति कर्मधारयाश्रयणाद्भगवन्माहात्म्यप्रतिपादकत्वलाभाद्युक्तमस्य पादार्थोपसंहारत्वम् । तथा सति गुणपूग इत्येतावतैव तत्सिद्ध्याऽनन्तमाहात्म्येत्यस्यानर्थक्यापातादित्यतो व्याख्याति माहात्म्यमिति । न चोक्तरीत्या वैयर्थ्यम् । अनन्तमाहात्म्यग्रहणस्य निष्कृष्यैतदधिकरणप्रमेयोपसंहारार्थत्वाद्गुणपूग इत्यस्य चैतद्व्यतिरिक्तैतत्पादीयसकलाधिकरणार्थोपसंहारार्थत्वादवैयर्थ्यमित्याशयात् ॥ सङ्गतिमिति । हेतुहेतुमद्भावलक्षणामित्यर्थः ॥ ३२२० ॥

गुरुराजोपदिष्टेन मार्गेणैव यथामति ॥

कृपया भक्तिपादस्य विवृत्त्या प्रीयतां हरिः ॥ १ ॥

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ २ ॥

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्यस्य केशवस्य कृतौ गुरुराजोक्तमार्गानुवर्तिन्यां श्रीमन्न्यायसुधाविषमवाक्यार्थविवृतौ वाक्यार्थचन्द्रिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥ ३२ ॥

***परिमल ***

अपौनरुक्त्याय माहात्म्यगुणपदयोरर्थमाह माहात्म्यं शक्तिः । गुणा आनन्दाद्या इति ॥ सङ्गतिमिति । हेतुहेतुमद्भावरूपेत्यग्रे व्यक्तमिति भावः ॥ ३२२० ॥

इति श्रीमन्न्यायसुधापरिमे तृतीयाध्यायस्य द्वितीयपादस्समाप्तः ॥

॥ इति तृतीयाध्यायस्य द्वितीयः पादः समाप्तः ॥