ॐ फलमत उपपत्तेः ॐ
॥ अथ फलदानाधिकरणम् ॥
भगवानेव सकलफलदाता
**ॐ फलमत उपपत्तेः ॐ **
सुधा
ॐ फलमत उपपत्तेः ॐ ॥ अत्रादौ तावत्स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् । तदाक्षेपार्थं सूत्रं ‘धर्मं जैमिनिरत एवे’ति । तस्यार्थः । ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा । नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च । आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः । अन्यथा गौरवापत्तेः । न चाचेतनत्वोपपत्तिविरोधः । न हि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत । किन्तु कारणमात्रम् । न च श्रुतिविरोधः । फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति ।
समाधानार्थं सूत्रम् ॥ ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ तेनेदमुक्तम् । अपेक्षत एवेश्वरो धर्माधर्मौ । न च तावता तयोरेवास्तु फलहेतुतेति युक्तम् । धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् । बाधकाभोवेन श्रुतेरुपचरितार्थताकल्पनाऽनुपपत्तेः । गौरवस्याप्रामाणिकविषयत्वात् । परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् । यतः फलदाने परमेश्वरः कर्तृत्वेन’ कर्म तु करणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते । करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति । तत्रेदमाशङ्क्यते । तथाऽपि कर्मापेक्षस्येश्वरस्य फलदानेऽनुपचरितं स्वातन्त्र्यं न सिध्यति । ततश्च न तस्मिन्बहुमानातिशय इति ॥ एतत्परिहारत्वेन पूर्वपदं व्याख्याति स एवेति ।
अनुव्याख्यानम्
ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥
ॐ फलमत उपपत्तेः ॐ ॥
स एवाजीवस्थनिस्सङ्ख्यानादिकालिकान् ॥
धर्माधर्मान्सदा पश्यन्स्वेच्छया बोधयत्यजः ॥
कांश्चित्तेषां फलं चैवं ददाति स्वयमच्युतः ॥
न ते विशेषं कमपि प्रेरणादिकमच्युते ।
कुर्युः कदाऽपि तेनायं स्वतन्त्रोऽनुपचारतः ॥
अनादिकालत्वं च प्रवाहापेक्षयोक्तम् । कांश्चिद् बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः । लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः ।
वाक्यार्थचन्द्रिका
ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ ॐ फलमत उपपत्तेः ॐ ॥ श्रुत्युपपत्तिभ्यामिति । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणं तिष्ठमानस्य तद्विद इति श्रुत्या चेतनत्वरूपोपत्त्या चेत्यर्थः । यद्यप्यत्र सौत्रक्रमानुरोधेनोपपत्तिश्रुतिभ्यामित्येव वक्तव्यं तथाप्यादिसूत्रोक्तोपपत्तेरीश्वरस्य फलदातृत्वसम्भावकत्वेनानिश्चायकतया निश्चायकत्वाभिप्रायेण श्रुते प्रथमता ग्रहणमिति द्रष्टव्यम् ॥ वेदेति । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिवेदेत्यर्थः ॥ अन्यथेति । तदपेक्षणीयेन कर्मणा फलसिद्धावपि तस्य कारणत्व इत्यर्थः । ईश्वरस्यापि कारणत्वे द्वयोः कारणत्वाश्रयणाद्गौरवं कर्मण एव कारणत्वे त्वेकस्यैव तदाश्रयणाल्लाघवमिति भावः ॥ न च श्रुतीति । विज्ञानमानन्दमित्याद्युदाहृतश्रुतीत्यर्थः ॥ श्रुतिसिद्धत्वेनेति । विज्ञानमानन्दमित्यादिश्रुतिसिद्धत्वेनेत्यर्थः । ननु विज्ञानमानन्दमिति श्रुतौ फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तत्कारणत्वोपचारान्नानया तस्य कारणत्वसिद्धिरित्यत आह बाधकाभावेनेति । गौरवस्यैव बाधकस्य सत्त्वात्कथं तदभाव इत्यत आह गौरवस्येति । बाधकान्तरमाशङ्क्य परिहरति परस्येति ॥ पूर्वपदं व्याख्यातीति । तथा च निस्सङ्ख्यानादिकालीनधर्माधर्मादिद्रष्टृत्वादेः सौत्रपूर्वपदार्थत्वेनोत्सूत्रत्वाभावादस्यार्थस्य न तदभिधायकस्य स एवेत्युत्तरग्रन्थस्याभाष्यत्वमिति भावः ॥ प्रवाहेति । धर्माधर्माणां सादित्वेन स्वरूपानादित्वस्य बाधितत्वादिति भावः । अचेतनत्वेन धर्माधर्मयोर्बोधासम्भवाद्बोधयतीति तद्बोधकत्वोक्तेरयोगमाशङ्क्याह सव्यापारीकरोतीति । फलं चैवेत्येवकारस्य व्यर्थत्वाद्विरुद्धत्वाच्चापेक्षितव्यवहितान्वयप्रदर्शनेन तत्सार्थक्यमाह स्वयमेवेतीति । धर्माधर्मान्सदा पश्यन्स व्यापारीकरोतीत्येतावतैव पूर्तेस्तत्र स्वेच्छयेति विणानर्थक्यमाशङ्क्य कर्मापेक्षस्य हरेः फलदानेऽनुपचरितस्वातन्त्र्यसाधनाय लीलया तत्करणी करणरूपार्तप्रतिपादकत्वात्तस्य न वैयर्थ्यमिति भावेन तत्तात्पर्यमाह लीलया करणीकरोतीत्यादिना ।
***परिमल ***
फलमत उपपत्तेः । फलमित्येतदंशार्थमाह फलं प्राणिनामीश्वरादेव भवतीति । श्रुतत्वाच्चेति सूत्रार्थः श्रुतीति । विज्ञानमानन्दं ब्रह्मरातिर्दातुरिति श्रुतीत्यर्थः । उपपत्तेरित्यस्यार्थ उपपत्तिभ्यामिति । ईश्वरकर्मणोर्यथाक्रमं चेतनत्वाचेतनत्वयुक्तेरित्यर्थः ॥ वैषम्याद्यापत्तेरिति । निर्निमित्तं प्राणिनां विभागेन सुखदुःखादिप्राप्त्या वैषम्यनैर्घृण्ययोरापत्तिरित्यर्थः ॥ वेदाप्रामाण्येति । सुखादिहेतुत्वेनोक्तकर्मणां व्यतिरेकव्यभिचारप्राप्तेरिति भावः ॥ न च श्रुतिविरोध इति । रातिर्दातुरिति श्रुतीत्यर्थः । गौरवमेव बादकमित्यत आह गौरवस्याप्रामाणिकविषयत्वादिति । ब्रह्मकर्मणी च फलहेतुत्वेन प्रमिते इति भावः । सौत्रतुशब्दसूचितविशेषं व्यावर्त्यपूर्वमाह परस्येत्यादिना । इत्यादौ व्यपदिश्यत इत्यनेन हेतुव्यपदेशादित्यंशो व्याख्यातः । इतिपदस्य तेनेदमुक्तमिति पूर्वेणान्वयः ।
यादुपत्यम्
ॐ फलमत उपपत्तेः ॐ ॥ न च श्रुतिविरोध इति । ‘विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणमि’ति श्रुतिविरोधो न चेत्यर्थः ॥ पूर्वपदं व्याख्यातीति । तुशब्दोपेतं पूर्वपदमित्यर्थः। तथा च फलदाने पूर्वोक्तं ब्रह्मैवेति पूर्वं त्वित्यस्यार्थ उक्तो भवतीति ज्ञातव्यम् ॥ ३२२० ॥
इति श्रीमद्वेदेशतीर्थपूज्यपादशिष्येण यदुपतिना कृतायां सुधाटिप्पण्यां
तृतीयाध्यायस्य द्वितीयः पादः ॥ ३२ ॥
श्रीनिवासतीर्थीया
ॐ फलमत उपपत्तेः ॐ ॥ अचेतनस्य फलदातृत्वानुपपत्तिरूपोपपत्तिः ॥ श्रुतत्वाच्चेति सूत्रोक्ता रातिर्दातुः परायणमिति श्रुतिरिति ध्येयम् ॥ अन्यथेति । कर्मण ईश्वरस्य चेत्युभयोः फलकारणत्वकल्पने गौरवं स्यादित्यर्थः ॥ ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ ॥ गौरवस्येति । ईश्वरस्य तस्य फलहेतुतायाश्च प्रामाणिकत्वान्न गौरवमिति भावः ॥ प्रसिद्धमेवेति । तथा च न साम्यमिति भावः । सव्यापारीकरोतीति । उद्बुद्धानि करोति फलोन्मुखानि करोतीत्यर्थः । तथा चोद्बोध एव व्यापार इति भावः ।
वाक्यार्थरत्नमाला
ॐ फलमत उपपत्तेः ॐ ॥ विज्ञानमानन्दमित्यादिदातुर्यजमानस्य रातिः फलप्रदम् । तिष्टमानस्य मनसा स्वस्मिन्वर्तमानस्य च फलप्रदमित्यर्थः । तथाऽप्यादिसूत्रेति । यद्यप्यल्पाच्तरमित्यनुसारेण श्रुतिशब्दस्य प्रथमत उपादानमिति च वक्तुं शक्यं तथापि तस्यानित्यतयाप्युपपत्या नियामकत्वायोगत्तदनाश्रित्यार्थ विज्ञापनार्थत्वमेव श्रुतिशब्दप्रथमप्रयोगस्योक्तमिति ज्ञातव्यम् । उदाहृतश्रुत्यर्थ इति । तत्र दात्रादिशब्दोक्तयजमानादेः रातिः फलप्रदमित्युक्तत्वादिति स्पष्टत्वादिति भावः ॥ अस्यार्थस्येति । अस्यार्थस्योत्सूत्रत्वाभावादिति सम्बन्धः । विणानर्थक्यमाशङ्क्येति । आनर्थक्यमित्याशङ्क्येत्यर्थः । हरेरिति षष्ठीपाठः ।