०९ नवीनाभिहितान्वयपक्षनिराकरणम्

व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः

नवीनाभिहितान्वयपक्षनिराकरणम्

व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः

सुधा

अस्तु तर्हि नवीनाभिहितान्वयपक्षः । यदि हि पदानि पदार्थान्प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतं तदा स्यादेवोक्तदोषः । न चैवम् । किन्तु पदान्येव पदार्थप्रतिपादनावान्तरव्यापाराण्यन्वयं बोधयन्तीति । मैवम् । तथा सति पदानां विरम्य व्यापारप्रसङ्गात् । ततः को दोष इत्यत आह व्यापारश्चेदिति ।

अनुव्याख्यानम्

व्यापारश्चेत्पुनस्तेषामनुक्तावपि किन्न सः ॥

अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्यव्यापारोऽङ्गीक्रियते तदा पृच्छामोऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न भवतीति ।

उत्तरमाशङ्कते उक्त इति ।

अनुव्याख्यानम्

उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।

भावे क्तप्रत्ययः । बुद्धिस्थता बुद्धिविषयता । पदानि हि ज्ञातकरणानि न तु चक्षुरादिवत्सत्तामात्रेण । उक्तिस्तु तज्ज्ञानोपाय इत्यतोऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः । इति यदीष्यत इति सम्बन्धः ।

वाक्यार्थचन्द्रिका

उक्तदोष इति । अन्वयस्याशाब्दत्वं पदार्थाख्यप्रमाणान्तरापत्तिश्चेत्युक्तदोष इत्यर्थः ॥ विरम्येति । अनेकशक्तियुक्तस्यापि पुरुषस्य क्रमेण कार्यद्वयकारितावत्पदार्थान्वयबोधेन शक्तानामपि पदानां क्रमेण पदार्थतदन्वयबोधकत्वापातात् । न च सोपपद्यते । पदानामचेतनत्वादिति भावः । अप्रयोजकतामाशङ्कते ततः क इति । ननूक्तेर्बुद्धिस्थत्वहेतुत्वात्तत्साधकत्वेनोक्तावित्येव वक्तव्यम् । उक्त इति तु कथमित्यतोऽत्र उक्तिरुक्तमिति भावव्युत्पत्त्योक्तशब्दस्योक्तिपरत्वेन कर्मव्युत्पन्नत्वानाश्रयणान्नुपपत्तिरित्याशयेनाह भावे क्तप्रत्यय इति । घटादेर्भूतलादाविव पदानां बुद्ध्याश्रितत्वासम्भवमाशङ्क्य विषयतासम्बन्धेन तदाश्रयत्वाभ्युपगमान्नानुपपत्तिरित्याह बुद्धिविषयतेति । किं पदानां बुद्धिविषयत्वेनापीत्यत आह पदानि हीति ।

**परिमल **

उक्तदोष इति । यदैवानन्वितार्थस्येतिश्लोकोक्तोऽन्वयस्य शाब्दत्वाभावरूपपदार्थाख्यमानान्तरतापत्तिरूपश्च दोष इत्यर्थः ॥ भावे क्त इति । उक्तौ सत्यामिति तस्यार्थ इति भावः । इति पदशेषेण योजयति इति यदीष्यत इति सम्बन्ध इति ।

यादुपत्यम्

उक्तदोष इति । अन्वयस्याशाब्दत्वं पदार्थानां प्रमाणान्तरतापत्तेश्चेत्युक्तदोष इत्यर्थः ।

श्रीनिवासतीर्थीया

कुते न भवतीति । अनुक्तान्यनुच्चारितान्यपि पदानि पदार्थप्रतिपादनद्वाराऽन्वयं कुतो न बोधयन्तीत्यर्थः ॥ भाव इति । तथा चोक्ते उच्चारणरूपायामुक्तौ सत्यामित्यर्थः ॥ न व्यापार इति । पदार्थप्रतिपादनेऽन्वयप्रतिपादने चेति शेषः ।

वाक्यार्थरत्नमाला

बोधकतापातादिति पाठः । तेन न च सेत्युत्तरवाक्ये परामर्शोपपत्तिः । बोधकत्वेति पाठे तु लिङ्गमविवक्षित्वाऽर्थपरामर्श इति ज्ञेयम् । य एनेत्युक्त इति पाठः ।