कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत्
स्पोटवादनिरासः
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत्
सुधा
अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम् । पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आह कर्मेति ।
अनुव्याख्यानम्
कर्मकर्तृक्रियाणां तु पूर्तौ कोऽन्योऽन्वयो भवेत् ।
अत्र कर्मादिग्रहणमुपलक्षणम् । जिज्ञासितानां पदार्थानामित्यर्थः । अन्योन्यसंसृष्टानामिति शेषः । पूर्तावभिधाने सति पदैरिति शेषः । अन्वयो भवेत्प्रतिपादनीय इति शेषः । एतदुक्तं भवति । स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम् । अन्वयप्रतीत्यन्यथानुपपत्तिरिति चेन्न । पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भवात् । न च तदतिरिक्तोऽन्वयो नामास्ति प्रतिपादनीयो यदर्थं स्फोटान्वेषणमिति ।
एवमनङ्गीकारे बाधकमाह अपूर्तिरिति ।
अनुव्याख्यानम्
अपूर्तिश्चेत्पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।
अन्वयस्यापूर्तिरनभिधानम् । उक्तैरिति पदानां प्रमितत्वमभिप्रैति । नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम् । नृशृङ्गतुल्येनेति पूर्यतेऽभिधीयतेऽन्वय इति शेषः । इदमुक्तं भवति । पदवादिनः कल्पनालाघवं प्रमितानां पदानामन्वितार्थाभिधानस्य कल्पनात् । स्फोटवादिनस्तु गौरवम् । यतो निष्प्रमाणकः स्फोटस्तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति ।
वाक्यार्थचन्द्रिका
यद्यपि ताल्वादिस्थानोद्भवावयवीयध्वनिविशेषाभिव्यक्तवर्णात्मकपदैः स्वसमवेतवाक्यस्फोटोऽभिव्यज्यते स च व्यक्तो वाक्यार्थं प्रत्याययतीति सखण्डवाक्यस्फोटोऽपि पराभिमतस्तथाप्यखण्डवाक्यस्फोटपक्षस्य मुख्यत्वेन तदभिमतत्वात्तमेवोपादत्ते निरस्तेति । निरस्तमारोपितवर्णपदविभागं निरवयवमिति यावत् । उपलक्ष्यतावच्छेदकं धर्मं वदन्नेव तत्पदार्थमप्याह जिज्ञासितानामिति । पदार्थानां सिद्धत्वान्न जिज्ञासाविषयत्वम् । नापि पदैरभिधानमित्यतोऽसिद्धेन रूपेण तेषां तदुभयोपपत्तिं वक्तुमपेक्षितं शेषं पूरयति अन्योन्येति । नन्वभिधानान्यथानुपपत्त्या स्फोटं कल्पयन्तं परं प्रत्यभिधानान्यथासिद्धेरेव वक्तव्यत्वात्पूर्तेरन्यथासिद्धत्ववर्णनमसङ्गतमित्यतः पूर्तिपदमभिधानपरतया व्याचष्टे पूर्तावभिधान इति । नन्वन्योन्यसंसृष्टानां जिज्ञासितानामर्थानामभिधानस्यैव स्फोटं विनाऽसिद्धेस्तदन्यथानुपपत्त्यैव स्फोटसिद्धिः स्यादित्यतोऽभिधानस्यान्यथासिद्धत्वान्न तत्साधकत्वमिति भावेन तस्यान्यथासिद्धतां वक्तुं शेषं पूरयति पदैरिति इति । नन्वन्वयप्रतिपत्त्यन्यथाऽनुपपत्त्या स्फोटं साधयन्तं प्रत्यन्वयप्रतिपत्त्यभावस्यैव वक्तव्यत्वादन्वयाभावकथनमसङ्गतमित्याशङ्क्यात्रापि तत्प्रतिपत्त्यभावस्यैवोच्यमानत्वान्नासङ्गतिरिति भावेन तल्लाभाय शेषं पूरयति प्रतिपादनीय इति इति ।
किमनेनोक्तं भवतीत्यत आह एतदुक्तं भवतीति । यद्यप्येकं वाक्यं शब्दादर्थं प्रत्येतीत्येकार्थावलम्बनप्रत्यक्षस्यापि सत्त्वात्तदेव वक्तुमुचितमिति न तत्परित्यागेनान्यथानुपपत्तिपर्यन्तधावनं युक्तम् । तथाप्येकदेशावस्थानेन निमित्तेनानेकेषु तरुष्वेकं वनमिति प्रतीतिवदनेकेष्वपि पदेष्वेकार्थप्रत्यायकत्वेनोपाधिनैकत्वं सम्भवतीत्यन्यथासिद्धिशङ्काकलङ्कितत्वात्तदर्थतयाऽप्यन्ततोऽन्वयरूपैकार्थप्रतीत्यन्यथाऽनुपपत्तेरेवानुसरणीयत्वाद्वरमादित एव तदनुसरणमिति भावेन प्रत्यक्षमनादृत्यान्वयप्रतीत्यन्यथाऽनुपपत्तिमेव तत्र प्रमाणत्वेनाशङ्कते अन्वयेति । ननु पदैः संसृष्टार्थप्रतिपादनेऽप्यन्वयस्याप्रतिपादनात्तत्प्रतिपादनाय स्फोटोऽभ्युपगमनीय एवेत्यतो भवेदेतदेवं यदि संसृष्टपदार्थातिरिक्तोऽन्वयः स्यान्न चैतदस्ति । गुणप्रधानाभावेनान्योन्यान्विताः पदार्था वा तदन्वयो वा वाक्यार्थ इति प्रमाणिकैरभ्युपगतत्वात् । ततश्च संसृष्टार्थप्रतिपादने वाक्यार्थभूतान्वयस्यैव प्रतिपादनान्न तदन्यथाऽनुपपत्तिरस्तीति न तया स्फोटसिद्धिरित्याह न चेति ।
पदैरन्वयाभिधानस्य पूर्वेणैव सिद्धेरपूर्तिश्चेदुत्तरग्रन्थवैयर्थ्यमित्याशङ्क्यानङ्गीकारे बाधककथनेन प्रागुक्तायाः पदानामन्विताभिधायकताया उपपादनार्थत्वान्न तदिति भावेन तदुपपादकतयोत्तरग्रन्थं योजयति एवमनङ्गीकार इति । अप्रामाणिकत्वमित्यत्राप्यभिप्रैतीति वर्तते । स्फोटस्य नृृङ्गत्वाभावात्तथोक्तिरनुपपन्नेत्यतस्तत्सादृश्यात्ताच्छब्द्यमित्याह नृृङ्गतुल्येनेति । नन्वत्र प्रमितानां पदानामन्वयानभिधायकत्वेऽप्रामाणिकस्य स्फोटस्यान्वयानभिधायकत्वमात्रमुच्यते । न तु पदानामन्वयानभिधायकत्वे किमपि बाधकमिति कथमस्योक्तानङ्गीकारे बाधकोक्तितयाऽवतार इत्यत आह इदमुक्तं भवतीति ।
श्रीनिवासतीर्थीया
उपलक्षणे कोऽर्थः सम्पन्न इत्यत आह जिज्ञासितानामिति ॥ पदानामेवेति । तथा च पदैरेवान्वयस्योपपत्तिरित्यर्थापत्तिरयुक्तेत्यर्थः । तदतिरिक्तो ऽर्थसंसर्गातिरिक्तः ।
वाक्यार्थरत्नमाला
सखण्डस्फोटोऽपीत्यादि । एतच्च जिज्ञासाधिकरणीयस्फोटनिराकरणमूलानुसारेण तद्विवरणं चोक्तस्थलीयटीका तदीयास्मत्कृतप्रपञ्चयोरवधेयम् । निरवयवमितीति । औत्यभिमतब्रह्मतुल्यत्वादिकं प्रागुक्तरीत्या प्रतिपत्तव्यम् । तत्पदार्थमपीति । स चासौ पदार्थश्चेति विग्रहः । उपलक्ष्यं पदार्थमप्याहेत्यर्थः । अनेन पदार्थ एवात्रोपलक्ष्यपदार्थभूतास् तेषाञ्च सर्वेषां प्रसक्तिनिवृत्यर्थं जिज्ञासितत्वमुपलक्ष्यतावच्छेदकतयोक्तम् । तथा च जिज्ञासितपदार्थोपलक्षणं कर्तृकर्मादिपदमिति मूलं व्याख्यातं भवतीति द्रष्टव्यम् । पदार्थानामिति । पदार्थस्वरूपमात्राणामित्यर्थः । पदैरिति इतीति प्रतीकोपादानम् । तदर्थतयापीति । अत्रार्थशब्द आवर्तनीयः । आद्यस्य निवृत्तिरर्थः। द्वितीयस्य तु प्रयोजनम् । तथा च तन्निवृत्तिप्रयोजनकतयेत्यर्थ लाभ इति बोध्यम् ।
वरमादित एवेति । आदित एव तदनुसरणं वरमिति सम्बन्धः । तत्सादृश्यादिति गौणोऽयं व्यपदेश इति भावः ।