१० अपोहवादः

यद्यसत्यविशेषणम्

अपोहवादः

यद्यसत्यविशेषणम् ।

सुधा

अपोहवादाश्रयेण शङ्कते यदीति ।

अनुव्याख्यानम्

………… यद्यसत्यविशेषणम् ।**

पृथक् पृथग्वारयितुं शब्दान्तरमितीष्यते ।

सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविणानां ब्रह्मण्यभावात् स्वरूपमात्रस्य चैकत्वात्पर्यायत्वं स्यात् । न चैवम् असत्यत्वाद्यापोहवाचित्वात् । न चैवं सति वैयर्थ्यम् । ब्रह्मण्यसत्यत्वादीनां विणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात् । सन्ति हि नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिनं (चे)वेत्यादिप्रतीतयः प्राणिनाम् । न च सत्यपदमज्ञानस्याप्यपोहं वक्ति येनैकेनैवालमिति स्यात् । तस्मान्न पर्यायत्वं वैयर्थ्यं चेति । यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते । ब्रह्मणि तु लक्षणया प्रवर्तन्त इति न तत्र विणानि समर्पयन्ति । न हि गङ्गापदं तीरे गङ्गात्वमर्पयति । न चैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम् । आरोपितानामसत्यत्वादिविणानां प्रत्येकं निवारणेन सार्थक्यात् । न च सङ्गतिग्रहणविषयाभावाल्लक्षणानुपपत्तिः । शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः । अतो न पर्यायत्वं नापि वैयर्थ्यमिति शङ्कार्थः । असत्यविणम् असत्यत्व(त्वादि)विणम् । आरोपितं विणमिति वा । इति यदीष्यत इत्यन्वयः ।

परिहरति मायेति ।

अनुव्याख्यानम्

मायाविराहित्यविणविशेषिता ।

सत्यस्यापि भवेत् …………

मायाशब्देनारोपितत्वमाचष्टे । एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिद्धिः । कल्पितासत्यत्वादिविराहित्यलक्षणविणविशेषिताया अवर्जनीयत्वादित्यर्थः ।

वाक्यार्थचन्द्रिका

यद्यसत्यविणमित्यादिशङ्काया अपसिद्धान्तपराहततानिरासायाह अपोहेति । अतद्व्यावृत्तिरेव शब्दार्थ इति मतमङ्गीकृत्येत्यर्थः । नन्वस्मिन्पक्षे पर्यायत्वाप्रसङ्गेऽपि वैयर्थ्यं स्यादेव । असत्यत्वादिव्यावृत्तिप्रतिपादनप्रयोजनानुपलब्धेरित्यत आह न चेति । नन्वेवमपि सत्त्वपदेनैव भ्रान्तिकल्पितस्यासत्त्वस्येव तत्कल्पिताज्ञानादीनामपि व्यावृत्तेः सिद्धत्वाज्ज्ञानादिपादन्तरवैयर्थ्यमित्यत आह न चेति । किन्त्वसत्त्वस्यैव । तथा च भ्रान्तिकल्पिताज्ञानादिव्यावर्तकत्वान्न ज्ञानादिपदवैयर्थ्यमिति भावः ॥ सत्यत्वादिपृथगर्थेति । सत्यत्वज्ञानत्वादिविशिष्टभिन्नभिन्नार्थवाचीन्येवेत्यर्थः ॥ न पर्यायतामापाद्यन्त इति । वाच्यार्थभेदेनैकार्थ्याभावादिति भावः । तथात्वे तद्वाच्यत्वाद्ब्रह्मणोऽनेकविण विशिष्टत्वेन सखण्डतया निर्वित्वादिरूपाखण्डत्वव्याघात इत्यतो भवेदेतदेवं यदि ब्रह्मणस्तद्वाच्यत्वं स्यात् । न चैतदस्तीत्याह ब्रह्मणीति । अस्तु लक्ष्येऽपि ब्रह्मणि विशेषार्पकत्वं सत्यादिपादानामित्यतस् तथा सत्यविशेषाद्भङ्गापदस्यापि तीरे विशेषार्पकत्वं स्यादिति भावेनाह न हीति ॥ न चेति । अधिकलक्षणायां चाखण्डार्थत्वहानिरिति भावः । लक्ष्यार्थभेदाभावान्नाखण्डार्थताहानिरित्यभिप्रेत्य परिहरति आरोपितानामिति ।

ननु ब्रह्मणोऽन्यस्य सङ्गतिग्रहणविषयस्याभावेन ब्रह्मण एव सत्यादिपदसङ्गतिग्रहणविषयता वाच्या । तथा च वाच्यत्वमपि तस्यैव युक्तम् । तत्कथं लक्ष्यत्वान्नाखण्डत्वहानिरित्युच्यत इत्याशयेन शङ्कते न चेति । लक्ष्यत्वेनाभिमताच्छुद्धब्रह्मणोऽन्यस्य सगुणब्रह्मण एव सङ्गतिग्रहणविषयत्वाभ्युपगमेन शुद्धस्य तदभावान्न तस्य लक्ष्यत्वहानिरिति भावेन परिहरति शबल इति । अत एव च सत्यत्वादिविशिष्टसगुणब्रह्मवाचिनामिति शेषः । ततश्च वाच्यार्थभेदान्न पर्यायत्वं लक्ष्यार्थभेदाभावान्नाखण्डत्वहानिरपीत्याशयः । अत एव सगुणब्रह्मवाचिनामिति पूर्वटीकाऽपि शबले गृहीतसङ्गतिकत्वात्सत्त्वादिगुणविशिष्टसगुणब्रह्मवाचिनामिति, शबले गृहीतसङ्गतिकानामिति तत्त्वोद्योतटीकाऽप्यत एव सत्त्वादिगुणविशिष्टब्रह्मवाचिनामित्येव व्याख्येयेति न टीकाग्रन्थानां परस्परं विसंवादः । अत एवैतत्पक्षतात्पर्यं न्यायामृते एतेनेत्यादिग्रन्थेनैवमेवाभिहितमिति ध्येयम् । नन्वसत्यत्वमेव विणं न त्वसत्यं तत्कथमुच्यतेऽसत्यविणमित्यतो व्याख्याति असत्यत्वविणमिति । अस्मिन्पक्षे धर्मिवाचकस्य शब्दस्य धर्मे लक्षणाऽऽश्रयणीया भवतीत्यपरितोषादाह आरोपितमिति । कल्पितेति । कल्पितं यदसत्यत्वादिविणं तद्राहित्यलक्षणं यद्विणं तद्विशिष्टत्वस्येति योजना ।

**परिमल **

अपोहवादेति । पटादिपदानां घटादिव्यावृत्तिवाचित्वमेव न तु पटत्वाद्यर्थकत्वमिति यो वादस्तदाश्रयेणेत्यर्थः ॥ सत्यत्वाद्यपोहेति । असत्यत्वाज्ञानत्वपरिच्छिन्नत्वराहित्यवाचित्वादित्यर्थः ॥ न सत्यस्याखण्डतासिद्धिरिति । निर्धर्मतासिद्धिरित्यर्थः ।

यादुपत्यम्

अपोहवादेति । घटादिपदैरघटादिव्यावृत्तिरेव वाच्या न घटत्वादिरिति मताश्रयेणेत्यर्थः ॥ अखण्डतासिद्धिरिति । निर्वितासिद्धिरित्यर्थः ।

श्रीनिवासतीर्थीया

पृथगर्थेति । परापरजातिरूपेत्यर्थः ॥ विषयेति । धर्मीत्यर्थः । तथा च वाच्यार्थद्वारत्वाल्लक्षणाया वाच्यार्थो वाच्य एवेत्यर्थः ।

वाक्यार्थरत्नमाला

इति मतमिति । बौद्धमतमित्यर्थः । तत्कल्पिताज्ञानादीनामिति । अज्ञानत्वादीनामित्यर्थः । अज्ञानस्यापोहमिति मूलानुसारेण भावप्रत्यययोगाभावः । मूले तु भावप्रधान निर्देशाभिप्रायेणाज्ञानेत्येवोक्तम् । सत्यपदं चासत्वं ज्ञानपदं चाज्ञानत्वमात्मपदं चानात्मत्वमिति वक्ष्यमाणमूलानुसारादिति स्पष्टमिति नोक्तमिति ज्ञातव्यम् । एवमुत्तरत्रापि । धर्मप्रतिपादनमात्रेण न शब्दः कृतीभवति किं तु धर्मिसंसृष्टतयैव । तथा च सत्यत्वादीत्येतत्सत्यत्वादिविशिष्टार्थकमित्याह । सत्यत्वज्ञानत्वादिविशिष्टेति । अधिकेति । स्वरूपातिरिक्तपदार्थलक्षणायामित्यर्थः । स्वरूपातिरिक्तधर्मानङ्गीकारेवाऽखण्डार्थत्वहानिरिति भावः । अत एव चेति । शबले गृहीतसङ्गतिकत्वादेवेत्यर्थः । अनेन सङ्गतिकानामित्येतद्धेतुगर्भं शबले गृहीतसङ्गतिकत्वात्सत्यब्रह्मलक्षकत्वोपपत्तिरितीत्युक्तं भवति । ब्रह्मलक्षकत्वोपपादकतया वाच्यार्थं भेदस्य तदुपपादकसङ्गतिग्रहणोपपादकशबले गृहीतसङ्गतिकत्वस्य प्रकृततया तेन सत्यत्वादिविशिष्टसगुणब्रह्मवाचितया एव वाच्यत्वादिति भावेन शेषं पूरयति । सत्यत्वादीति ।

उक्तार्थस्य शबले गृहीतेत्यनेन वाक्ये नोक्तत्वादेव प्रागुक्तदोषद्वयपरिहारः सिद्धो भवतीति भावेनाह । ततश्च वाच्यार्थभेदादिति । अवश्यं च विशिष्टार्थवर्णनेन दोषाभाववर्णनम् । अन्यथा शबले गृहीतसङ्गतिकत्वादित्येव वक्तव्यं मूले स्यादिति ज्ञेयम् । पूर्वटीकाऽपीति । सत्यज्ञानादिकेप्येवमित्यनुभाष्यसम्बन्धीजन्माधिकरणटीकेत्यर्थः । शबल इति । तस्य सगुणब्रह्मवाचित्वोपपादकत्वात्तेन हेतुना सगुणब्रह्मवाचिनामिति योजितम् । इति व्याख्येयेत्युत्तरेण सम्बन्धः । अत एव सत्यादीति । शबले गृहीतसङ्गतित्वादेवेत्यर्थः । एवं योजने नियामकं चाह । अत एवेति । सत्यादिपदानि सत्यत्वादिविशिष्टपृथक्पृथगर्थवाचितया शबले गृहीतसङ्गतिकतया च न पर्यायाणीत्यादिशङ्कितपक्षेत्यर्थः। एतेनेत्यादीति । न्यायामृते हि न च कुंभाद्यनुगतसत्तापरजातिरित्यादिना परापरसामान्यवाचितापक्षं कल्पतरूक्तं निराकृत्य एतेन सत्यत्वादिविशिष्टशबलब्रह्मवाचिनां सत्यादिशब्दानां शुद्धब्रह्मणि लक्षणेति न पर्यायत्वमिति निरस्तमित्यनेनैतन्मूलगतपक्षतात्पर्यकथनादित्यर्थः । विणमितीत्यत इति पाठः स्वरसः । एकेतिशब्दमात्रपाठे विणमिति कथमुच्यत इति पूर्वत्रेत्यत इत्युत्तरत्र च सम्बध्यते । यद्वेतिशब्दस्य पूर्वत्रैवान्वयः । अतो व्याख्यातीत्येवोत्तरभाग इति ज्ञेयम् ।