ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।
॥ अथ स्थानविशेषादिकरणम् ॥
ब्रह्मादीनामानन्दः प्रतिबिम्बैस्तुल्यम्
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।
सुधा
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ (ॐ उपपत्तेश्च ॐ ) ॥ यद्यप्येतदधिकरणं परमत इत्यतोऽनन्तरम् । तथाऽपि तेनेवानेनापि सङ्गतिरस्य । अनेन विषयोपक्षेपात्तेन पूर्वपक्षोपपत्तिदर्शनात् । यद्वाऽनेन पूर्वपक्षयुक्त्युत्थानात्तेन विषयोपक्षेपात् । तथा हि । न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते । भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् । बिम्बे च तारतम्याभावस्य न स्तानतोऽपीत्युक्तत्वात् । अन्यथाऽकस्मिकत्वप्रसङ्गादिति । यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः । परस्परं विभिन्न(चिन्न)त्वात् । बिम्बाभिमता च वैचित्र्याभावादिति । अतोऽत्रेदं विशदयति प्रतिबिम्बवदिति ।
अनुव्याख्यानम्
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ।
प्रतिबिम्बवदप्येषामानन्दोऽन्यगुणा यथा ।
यद्यप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् । प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते । भगवदानन्दप्रतिबिम्बो भवतीति यावत् । तथाऽपि परस्परं विचित्रो भवतीति शेषः । कथम् ? अन्येषां साधनभूतानामुपाधिगुणानां भक्त्यादीनां वैचित्र्यानतिक्रमेण । तत्र दृष्टान्तः प्रतिबिम्बवदिति । यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतानां सूर्यादिबिम्बवैचित्र्याभावेऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः ।
वाक्यार्थचन्द्रिका
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ ॐ उपपत्तेश्च ॐ ॥ अनेनेति । वृद्धिह्रासभाक्त्वमित्यनेनेत्यर्थः ॥ विषयेति । तारतम्यरूपेत्यर्थः । तेनेति । परमत इत्यनेनेत्यर्थः । अनेन विषयोपक्षेपात्तेन पूर्वपक्षोपपत्तिप्रदर्शनादित्याद्यं पक्षमुपदर्शयति न ब्रह्मादीनामिति ॥ यद्वेति द्वितीयपक्षमुपदर्शयति यद्वेति । ‘तत्र तस्येवे’त्यस्य प्रकृतेऽप्रसङ्गात्तेन तुल्यं क्रिया चेद्वतिरि’त्यनेन वतिरित्याह प्रसिद्धेति ॥ उपाधीति । स्वरूपभूतोपाधीत्यर्थः । मूले गुणा इति प्रथमा षष्ठ्यर्थ इति भावेनोक्तं गुणानामिति ॥ वैचित्र्याद्यनतिक्रमेणेति । अत्रानतिक्रमार्थत्वेऽपि यथाशब्दस्य वैचित्र्यसापेक्षतया असमर्थत्वादसमासो युक्तः । अन्यथाऽसादृश्यार्थकतया ‘यथाऽसादृश्य’ इति नित्यसमासप्रसङ्गादिति ध्येयम् ।
***परिमल ***
स्थानविशेषादिति ॥ अनेन । वृद्धिह्रासेत्यधिकरणेन दर्शनाच्चेति सूत्रे आनन्दतारतम्यरूपविषयस्योपक्षेपादुपस्थापनादित्यर्थः ॥ तेनेति । परमत इत्यनेनेत्यर्थः । तत्र सम्बन्धपदेन प्रतिबिम्बत्वोक्तेरिति भावः । द्वयं व्यनक्ति तथाहीत्यादिना । अनेन वृद्धिह्रासेतिनयेन पूर्वपक्षयुक्त्युत्थापनादित्येतद्व्यनक्ति परस्परं विचित्रत्वादिति । वृद्धिह्रासभाक्त्वमित्यत्र तस्य समर्थनादिति भावः । तेन विषयेत्युक्तस्य व्यक्तीकरणं न ब्रह्माद्यानन्द इति ॥ वैचित्र्याभावादिति । न स्थानत इत्यत्र तथा समर्थनादिति भावः । उपाधिगुणानां स्वरूपोपाधिगुणानाम् । स्थानगुणेति । प्रतिबिम्बनोपाधिगुणवैचित्र्यादित्यर्थः ।
यादुपत्यं
स्थानविशेषात्प्रकाशादिवत् ॐ ॥ अनेन विषयोपक्षेपादित्युक्तं दर्शयति न ब्रह्मादीनामिति । तेन पूर्वपक्षोपपत्तिप्रदर्शनादित्युक्तं दर्शयति भगवदानन्देति । ‘परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य’ इत्यत्र सम्बन्धपदेन बिम्बप्रतिबिम्बभावसम्बन्धस्योक्तत्वादिति भावः । यद्वेत्युक्तद्वितीयपक्षे तेन विषयोपक्षेपादित्युक्तं दर्शयति यद्वा न ब्रह्माद्यानन्द इति । अनेन पूर्वपक्षेत्युक्तं दर्शयति परस्परमिति ॥ विचित्रत्वात् तारतम्योपेतत्वात् । उपाधिगुणानामिति । स्वरूपभूतोपाधिगुणानामित्यर्थः । स्थानगुणेति । उपाधिगुणवैचित्र्यादित्यर्थः ।
श्रीनिवासतीर्थीया
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ ॥ अनन्तरमिति । तथा च वृद्धिह्रासेत्यनन्तरं कस्माद्व्याख्यायत इत्यर्थः ॥ तेनेवेति । परमत इत्यधिकरणेनैवेत्यर्थः ॥ अनेनापीति । वृद्धिह्रासेत्यधिकरणेनापीत्यर्थः । कथमित्यत आह अनेनेति । वृद्धीत्यधिकरणेन स्थानेत्यधिकरणविषयप्रसञ्जनस्यानेनकृतत्वादित्यर्थः ॥ तेनेति । परमत इत्यनेनेत्यर्थः । अनेनेति । वृद्धिह्रासेत्यधिकरणेनेत्यर्थः । वृद्धीत्यनेन विषयोपक्षेपप्रकारं दर्शयति न ब्रह्मादीति । आनन्दतारतम्यस्य तत्रोक्तत्वादेतदधिकरणविषयस्तेनोपक्षिप्तः प्रसञ्जितः प्रापित इत्यर्थः । परमत इत्यनेन पूर्वपक्षोपपत्तिप्रदर्शनप्रकारं दर्शयति भगवदिति । प्रतिबिम्बत्वस्य परमत इति सूत्रे सम्बन्धपदेनोक्तत्वात् । बिम्बे भगवदानन्दे ॥ अन्यथेति । बिम्बभूते भगवदानन्दे तारतम्याभावेऽपि तत्प्रतिबिम्बे ब्रह्माद्यानन्दे तारतम्याङ्गीकार इत्यर्थः । आकस्मिकत्वेति । ब्रह्माद्यानन्दतारतम्यस्येति शेषः । यद्वेत्युक्तपक्षे परमत इत्यनेन विषयोपक्षेपादित्युक्तं तदादौ दर्शयति यद्वेति । ब्रह्माद्यानन्दस्य भगवदानन्दस्य भगवादनन्दप्रतिबिम्बतायाः सम्बन्धपदेनोक्तत्वादेतदधिकरणविषयो ब्रह्माद्यानन्दस्य प्रतिबिम्बत्वं परमत इत्यनेनोपक्षिप्तं भवतीत्याशयः । वृद्धिह्रासेत्यनेनेन पूर्वपक्षयुक्त्युत्थानादित्युक्तं दर्शयति परस्परमिति । ब्रह्माद्यानन्दादेस्तारतम्यरूपवैचित्र्यं वृद्धिह्रासेत्यनेनेन स्पष्टमुपपादितमेवास्तीति भावः ॥ बिम्बाभिमत इति । भगवदानन्द इत्यर्थः ।
वाक्यार्थरत्नमाला
ॐ स्थानविशेषात्प्रकाशादिवत् ॐ । अत्रेति । ‘‘अन्यगुणा यथे’’त्यनुव्याख्यान इत्यर्थः । असमास इति । समासे हि यथान्यगुणमिति भवेदिति भावः ।