ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ
॥ अथ वृद्धिह्रासाधिकरणम् ॥
भक्तितारतम्यनिरूपणम्
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ
सुधा
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥ यदर्थं भगवन्महिमाऽत्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते । तथा हि । अस्ति भक्तेर्वृद्धिह्रासभाक्त्वम् । कुतः । ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् । एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति । तदेतदसङ्गतम् । युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति ।
अनुव्याख्यानम्
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ॥ ३२१२ ॥
ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव भवतीत्यर्थः । एतदुक्तं भवति । साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण । तच्चाथात आनन्दस्य मीमांसेत्यादिश्रुत्या तारतम्यवदवगम्यते । साध्यतारतम्ये च साधनतारतम्यमावश्यकम् । अन्यथा तस्याकस्मिकत्वप्रसङ्गात् । फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च । न चैवम् । अतोऽस्ति भक्तेर्वृद्धिह्रासभाक्त्वमिति ॥ ३२१२ ॥
वाक्यार्थचन्द्रिका
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥ युक्तेरिति । भक्तत्वेऽन्तर्भावाख्ययुक्तेरित्यर्थः ॥ प्रतिज्ञातार्थेनेति । साध्येन भक्तितारतम्येनेत्यर्थः ॥ सम्बन्धेति । हेतुहेतुमद्भावरूपसम्बन्धाप्रतीतेरित्यर्थः । यद्यपि भाष्योदाहृता‘त्साधनस्योत्तमत्वेने’त्यादि प्रमाणादेव युक्तेः प्रतिज्ञातार्थेन सह सम्बन्धोपपादनान्नैतच्छङ्कावकाशस्तथापि स्ववाक्येन तदनुक्तेरित्यभिप्रायेणेयं शङ्केति द्रष्टव्यम् । ननु मौक्तस्य ब्रह्माद्यानन्दस्य भक्तिसाध्यत्वमेव तावदसिद्धम् । सिद्धत्वेऽपि वा तस्य नानन्दतारतम्येन भक्तितारतम्यं साधयितुं शक्यम् । आनन्दतारतम्यस्यासिद्धत्वात् । सिद्धत्वेऽपि वाऽप्रयोजकत्वादित्यतस्तदुपपादयति एतदुक्तं भवतीति ॥ साध्यतारतम्ये चेति । तथा च भक्तत्वेऽन्तर्भावादित्यनेन ब्रह्माद्यानन्दतारतम्यमुपलक्ष्यत इत्युक्तं भवति असामञ्जस्येति । वैषम्यनैर्घृण्यरूपेत्यर्थः ॥ ३२१२ ॥
***परिमल ***
वृद्धिह्रासभाक्त्वमन्तर्भावात् ॥ युक्तेरिति । सूत्रोक्तपञ्चम्यन्तद्वयोक्तयुक्तेरित्यर्थः । जातावेकवचनम् । अन्तर्भावादित्यस्य फलतारतम्योपेताऽऽधिकारिकत्वादिति फलितार्थमुपेत्याह तच्चाथात इति । द्वितीयामपि युक्तिं सङ्गमयति फलदातुरिति । फलदातृत्वं च ‘फलमत उपपत्तेरि’तिनयसिद्धमिति भावः ॥ ३२१२ ॥
यादुपत्यम्
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥ युक्तेरिति । भक्तत्वेऽन्तर्भावादिति हेतोरित्यर्थः ॥ प्रतिज्ञार्थेन साध्येन भक्तितारतम्येन । सम्बन्धाप्रतीतेरिति । हेतुहेतुमद्भावरूपसम्बन्धाप्रतीतेरित्यर्थः ॥ साध्यतारतम्ये चेति । तथा च भक्तत्वेऽन्तर्भावादित्यनेन तदानन्दतारतम्यमुपलक्ष्यत इति भावः ॥ ३२१२ ॥
श्रीनिवासतीर्थीया
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ ॥ आनन्दादेः फलस्य तद्रूपफलस्य । दर्शनाच्चेत्युत्तरसूत्रार्थमाह तच्चेति । मौक्तमानन्दादिरूपं फलमित्यर्थः । साध्यतारतम्ये च सति ॥ अन्यथेति । साधनतारतम्याभावेऽपि चेत्साध्यतारतम्यमित्यर्थः । तस्य साध्यतारतम्यस्य । असामञ्जस्यं वैषम्यादिरूपो दोषः ॥ ३२१२ ॥
वाक्यार्थरत्नमाला
ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामंजस्यादेवम् ॐ ॥ तस्येति । सिद्धत्वेऽपि वेति सम्बन्धः ।
॥ इति वृद्धिह्रासाधिकरणम् ॥