०१ अप्राकृतरूपत्वादरूपो भगवान्

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ

॥ अथ अरूपाधिकरणम् ॥

अप्राकृतरूपत्वादरूपो भगवान्

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ

सुधा

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति द्वितीयसूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्क्य विलक्षणरूपवत्त्वाङ्कीकारेण परिहृतम् ॥ विलक्षणरूपवत्त्वं च, ‘आह च तन्मात्रं’, ‘दर्शयति चाथोऽपि स्मर्यत’ इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते । तदनुपपन्नम् । अन्ततो रूपवत्त्वाङ्गीकारेऽरूपवदेव हि तदित्यस्यावक्तव्यत्वापातात् । प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाह स चेति ।

अनुव्याख्यानम्

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥

स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् ।

रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ।

स परमात्मा । प्रकृतिशब्दोऽन्येषामपि तत्त्वानामुपलक्षकः । अप्राकृतरूपत्वात् । प्राकृतरूपरहितत्वात् । गुणात्मकमित्युक्ते सत्वादीनां प्रतीतिः स्यात् । तन्निरासार्थं स्वशब्दः । ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् । अतः शिरःपाणीति विवरणं कृतम् । अतो रूपवांश्चेति शेषः । विचारप्रयोजनं दर्शयति अत इति ।

अनुव्याख्यानम्

अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।

अनित्यता जन्ममरणवत्ता । नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् । तथा च तस्मिन्भक्तिरुपपन्नेति शेषः ।

वाक्यार्थचन्द्रिका

ॐअरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ प्रकृतिशब्दस्य सत्त्वरजस्तमोरूपाव्यक्ततत्त्वपरत्वान्मूलेऽप्राकृतरूपत्वोक्त्याऽव्यक्ततत्त्वात्मकत्वालाभेऽपि तदन्यतत्त्वात्मकत्वाभावानुक्तेस्तदात्मकत्वप्राप्तिमाशङ्क्य प्रकृतिपदस्यात्र लक्षणया तत्त्वमात्रपरत्वेनाव्यक्ततत्त्वमात्रपरत्वाभावान्न तत्प्राप्तिरिति भावेन प्रकृतिशब्दं तदुपलक्षणतया व्याचष्टे प्रकृतिशब्द इति । प्राकृतशब्दान्तर्गतः प्रकृतिशब्द इत्यर्थः । एतच्च ‘अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः’ इत्यादिप्रमाणमनाश्रित्य द्रष्टव्यम् । तदाश्रयणे तु मुख्यवृत्त्यैव प्रकृतिशब्देन तत्त्वमात्रलाभाल्लक्षणाश्रयणानर्थक्यमिति केचित् । वस्तुतो निरवकाशैतद्ग्रन्थानुरोधेन प्रकृतिशब्दस्य मुख्यामुख्यवृत्तिसाधारण्येन तत्त्वमात्रपरताया एवैतत्प्रमाणार्थत्वान्नानुपपत्तिरिति द्रष्टव्यम् । अप्राकृतरूपत्वस्य रूपवत्त्वव्यवहारनिमित्तत्वेऽप्यरूपवत्त्वव्यवहारनिमित्तत्वाभावात्प्राकृतरूपराहित्यस्यैव च तन्निमित्तत्वात्तदेवेह भाष्ये हेतुतया वक्तव्यम् । अप्राकृतरूपवत्त्वोक्तिस्तु कथं युज्यत इत्यतः प्राकृतरूपराहित्यार्थतया हेत्वंशं व्याचष्टे अप्राकृतेति । मूले स्वशब्दस्यानर्थक्यमाशङ्क्य परिहरति गुणेति । कथमनेनोक्तप्रतीतिनिरास इत्यतस्तदुपयोगितया व्याचष्टे यत इति । अनेन कर्मधारयषष्ठीतत्पुरुषौ द्वावपि तन्त्रेणोपात्तावित्युक्तं भवति । मूले साध्यानुक्तेर्न्यूनतामाशङ्क्योत्तरवाक्यस्थस्यात इत्यस्यात्राप्यनुकर्षमभिप्रेत्य ततःपरमपेक्षितं माह अत इति । देहवतोऽपि जीवस्यानित्यत्वाभावे तेन तदप्रसक्त्योक्तविधदेहत्वादनित्यत्वाभावसाधनमप्रयोजकमित्यत आह अनित्यतेति । अरूपत्वरूपवत्त्वविचारप्रयोजनप्रदर्शनार्थं प्रवृत्तेऽत्र वाक्ये नानित्यतेत्यरूपत्वप्रयोजनोक्तिवद्रूपवत्त्वप्रयोजनस्याप्यवश्यं वक्तव्यत्वात्तदनुक्तिरयुक्तेत्याशङ्क्य नानित्यतेत्यस्या अरूपत्वप्रयोजनोक्तेरेवात्र वाक्ये लक्षणया रूपवत्त्वप्रयोजनसमर्पकत्वान्न तदनुक्तिरपीत्याशयेन तत्प्रयोजनं दर्शयति नापीति । आदिपदेन सालक्षण्यादिपरिग्रह । अनित्यत्वाद्यभावोऽपि न विचारस्य मुख्यं प्रयोजनं किन्त्ववान्तरमेवेति भावेनानित्यत्वाद्यभावसमर्थनस्यापि प्रयोजनमाह तथा चेति ।

***परिमल ***

अरूपवदेव हि ॥ रूपराहित्यमिति । देहराहित्यमित्यर्थः । सूत्राणामर्थस्तन्त्रदीपिकायां व्यक्तः । भौतिकदेहवत्त्वमस्तीति प्रतीतेनिरासायाह प्रकृतिशब्दोऽन्येषामिति । अप्राकृतेत्यत्रत्यप्रकृतिशब्द इत्यर्थः । नञ्व्यत्यासेनार्थमाह प्राकृतेति । स्वशब्दकृत्यमाह गुणेति ॥ उपपत्तिस्त्विति । अलौकिके शब्दशक्तिग्रहणोपायस्तु ‘विद्वद्व्युत्पत्तितोऽपि च । तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशत’ इति वक्ष्यमाणरूपेत्यर्थः ॥

यादुपत्यम्

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ प्रकृत्यन्यतत्वात्मकरूपप्रसक्तिवारणायाह प्रकृतिशब्द इति । प्राकृतशब्दान्तर्गतः प्रकृतिशब्द इत्यर्थः । रूपवत्त्वादरूप इति व्याहतमत आह प्राकृतरूपेति ।

श्रीनिवासतीर्थीया

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ अरूपित्ववचनस्य गतिकथनार्थं प्राकृतरूपशून्यत्वादिति वाच्यम् । अप्राकृतरूपत्वादिति कथमुक्तम् । न ह्यप्राकृतरूपवत्त्वमरूपित्ववचनार्थ इत्यत आह प्राकृतरूपरहितत्वादिति ॥

वाक्यार्थरत्नमाला

ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ ॥ प्रयोजनाभावाच्चेति मूलम् । रूपस्य भक्तावुपयोगाप्रतीतेरिति भावः । वक्ष्यति च तथा च तस्मिन्भक्तिरुपपन्नेतीति । अप्राकृतरूपत्वस्येति । अप्राकृतं यद्रूपं तद्वत्वस्येत्यर्थं विवक्षित्वा शङ्केयम् । निमित्तत्वेऽपीत्यनेन तस्य च स्वगुणेत्यनेन लाभात्पुनरभिधानवैय्यर्थ्यम् । अज्ञेयत्वव्यवहारनिमित्तानुक्तिश्च भवतीति सूचितम् । अरूपत्वव्यवहारेति । ततश्च विरुद्धत्वमिति भावः । कर्मधारयषष्टीतत्पुरुषाविति । स्वरूपभूतावित्यस्य लाभार्थं स्वे च ते गुणाश्चेति कर्मधारयः । परमात्मसम्बन्धित्वलाभाय स्वस्य गुणा इति षष्टीतत्पुरुषश्चेत्यर्थः । रूपवत्वविचारेति । स्वगुणात्मकमित्यादिना तदुपपादनादिति भावः । अत्राधिकरणे परमात्मनो विलक्षणशरीरवत्वात्सशरीरत्वं प्राकृतशरीरराहित्याच्छरीरराहित्यं युज्यत इति प्रतिपाद्यम् । रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यादतः शिरःपाणीति विवरणं कृतमिति मूलानुसारेणात्राधिकरणे रूपशब्देन शरीरविवक्षायाः स्पष्टत्वात् । जैनाधिकरणे तु आत्मनः स्वप्रभवत्वनिराकरणावसरे आत्मनः प्रभावत्वे प्रदीपादिवद्रूपस्पर्शा(स्पर्शे उक्ते)वुक्तायां तत एवानित्यत्वे चापादिते प्राप्ता या आशङ्का । आत्मनोऽप्यस्ति रूपादिमत्वं स्वमते । यद्रूपादिमत्तदनित्यमिति व्याप्तिश्च । रूपादिमत्वाच्च विपर्यय इत्युक्तत्वादिति तत्परिहारतया ‘‘भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मत’’ इत्यनुव्याख्यानमवतार्य रूपादिमात्रमनित्यत्वव्याप्तं न किं तु भौतिकमेव तदिति सङ्कोचो व्याख्यातः । ततश्च रूपवत्वमस्य नाशेनास्तीति प्रतिपादनात्तन्यायेनेशस्यापि तादृशं रूपादीति सिद्धम् । अत एव वैशेषिकाधिकरणे रूपादीति सूत्रव्याख्यानदशायां रूपादिमत्वस्येश्वरे व्यभिचारमाशङ्क्य भौतिकत्वेन तद्विणाद्यद्वक्ष्यति भौतिकं त्वेवरूपादीत्याद्युक्तम् । तथा तत्र रूपपदेन गुणग्रहणमिति सिद्धेरेतदधिकरणपूर्वाधिकरणयोः प्रमेयविशेषोऽतो न जैनाधिकरणैतदधिकरणयोरैक्यवैय्यर्थ्यम् । शुक्लादिगुणेति । गुणभूतशुक्लनीलपीतादिलक्षणरूपावान्तरभेदप्रतीतिः स्यादिति योजना ॥