जीवांशाः सर्व एव च
असिद्धोंऽशत्वहेतुः
जीवांशाः सर्व एव च
सुधा
यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याह जीवांशा इति ।
एतदुक्तं भवति । चैतन्यावच्छिन्नांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम् । तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम् । व्यापकाभावे च व्याप्याभावोऽवश्यम्भावी । न च चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते । तथा च प्रयोगः । जीवेश्वरौ न चेतनत्वे सत्यंशांशिनौ परस्परानु सन्धानशून्यत्वात् । यथा घटपटौ । यथा चेन्द्रार्जुनाविति ॥ ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत्तस्य व्यापकमित्यत आह यदीति । एकता एकदेशतारूपांशता पितापुत्रयोरंशांशिभावो नैकदेशतादिरूप इति भावः । नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात् । न स्यात् । अंशशब्दो हि तदेकदेशार्थस्तत्सदृशाद्यर्थश्च । तत्र (तच्च) द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते । तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात् । आद्यस्यासिद्धिव्युत्पादने न कोऽपि दोषः ।
वाक्यार्थचन्द्रिका
अन्वयदृष्टान्तमुक्त्वा व्यतिरेकदृष्टान्तमाह यथा चेति ॥ विरोधः स्यादिति । अत्र महता प्रबन्धेनांशत्वसमर्थनादिति भावः द्वितीयमिति । तत्सदृशत्वादिकमित्यर्थः ॥ अनैकान्त्येति । सूर्याद्यपभ्रष्टदेवेष्विति शेषः । अनैकान्त्यप्रसङ्गो विरुद्धत्वप्रसङ्गस्याप्युपलक्षकः । तदधीनत्वादेरभेदाभावव्याप्यत्वेन तेनाभेदसाधनस्य विरुद्धत्वादिति भावः । आद्यस्येति । तदेकदेशत्वस्येत्यर्थः । न कोऽपीति । अंशाधिकरणविरोधादिप्रसङ्गरूप इत्यर्थः ।
***परिमल ***
ननु चैतन्यावच्छि(न्नैक्यस्य)न्नांशत्वस्यव्याप्यत्वे विणव्यावृत्त्यापि व्यापकनिवृत्तेरुपपत्तिरस्त्वित्यत आह न च चैतन्यव्यावृत्तिर्युक्तेति । बाधादिति भावः । परेण एतदेवांशत्वं हेतूकृतं कथं निरस्यत इत्यत आह तस्यानैकान्त्येति । सव्येतरहस्तदौ सत्यप्यस्मिन्नभेदाभावादिति भावः ॥
यादुपत्यं
व्यतिरेकदृष्टान्मप्याह तथा चेन्द्रार्जुनाविति ॥ तस्यानैकान्त्येति । सूर्याद्यंशेष्वपभ्रष्टदेवेष्विति शेषः ॥
श्रीनिवासतीर्थीया
हेतुर् अभेदसाधकतया परोपन्यस्तः ॥ असिद्ध इति । अंशत्वव्यापकीभूतधर्मस्यात्राभावेन अंशत्वस्याप्यभावापत्त्याऽसिद्ध इत्यर्थः । अंशाशिभावोपेततन्तुपटादौ व्यभिचारवारणाय चैतन्येति पदम् । अनुमाने तन्तुपटयोर्व्यभिचारवारणाय साध्ये चेतनत्वे सतीत्युक्तमिति ज्ञेयम् । व्यतिरेके दृष्टान्तमाह यथा वेति । तद् अनुसन्धानम् । तस्य अंशत्वस्य । कथं व्यापकत्वं येन तदभावेनांशत्वाभावापत्त्याऽसिद्धिः स्यादिति भावः ॥ एकदेशतारूपेति । स्वाभाविकांशत्वरूपेत्यर्थः । नैकदेशतादिरूप इत्यत्रादिपदेन बिम्बप्रतिबिम्बभावग्रहणम् । न निराक्रियते व्यापकीभूतानुसन्धानाभावेनेति शेषः । ननु यदि तदधीनत्वे सति तत्सदृशत्वरूपं तदंशत्वं न निराक्रियते तर्हि तदेवांशत्वं जीवाभेदेऽस्मन्मते हेतुरस्तु । भवदङ्गीकृतत्वेनासिद्ध्यभावादित्याशङ्क्याऽपभ्रष्टदेवतासु व्यभिचार इत्याह तस्येति ।
वाक्यार्थरत्नमाला
दृष्टान्तत्वमात्रेण समुच्चयस्याश्रयणाच्च नानुपपत्तिरिति भावेनाह । व्यतिरेकदृष्टान्तमिति । सदृशत्वं च चित्वमात्रं न चापरमित्येतत्पूर्वग्रन्थव्याख्यानानुसारेण विरुद्धत्त्वोपलक्षणमाह । विरुद्धत्वप्रसङ्गस्यापीति । सदृशादीति मूलगतादिपदेन तदधीनं गृह्यत इति सूचयितुमादिपदोपात्तमेव प्रथमं कीर्तयन् विरोधमुपपादयति । तदधीनत्वादेरिति । विकल्पितपक्षद्वयोक्तदोषाभावपरं न कोपीत्येतदित्याह । अंशाधिकरणविरोधादीति ।