०५ सत्यैक्येऽनुसन्धानमस्त्येव

जीवांशाः सर्व एव च

सत्यैक्येऽनुसन्धानमस्त्येव

जीवांशाः सर्व एव च

सुधा

चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तं क्व तदुपलब्धमिति चेन्न । देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात् । उपाधिभिन्ने नोपलब्धमिति चेन्न । हस्तपादाद्युपाधिभिन्नेऽपि दर्शनात् । विश्लिष्टोपाधिभिन्ने न दृष्टमिति चेत्तत्राह जीवांशा इति ।

अनुव्याख्यानम्

……….. जीवांशाः सर्व एव च ॥

नियमेनानुसन्धानवन्तो …….. ……

जीवानामिन्द्रादीनामंशा अर्जुनादयः । एतच्च ‘एक आत्मनः शरीरे भावादि’त्यादिना समर्थयिष्यते । चशब्देनेश्वरांशाः समुच्चीयन्ते । ननु आत्मा वै पुत्रनामासीत्यादिवचनात्पितापुत्रयोः सत्यप्यैक्येऽनुसन्धानं नास्तीति कथं तद्व्यापकमित्यत आह यदीति ।

अनुव्याख्यानम्

……….. ……… यद्येकता स्वतः ॥

तर्ह्यनुसन्धानवन्त इति सम्बन्धः । अयं भावः । वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं न तूपचरितस्य । न चाभिमतस्य व्यभिचारोऽस्ति । पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति । स्वतो वस्तुतः ।

वाक्यार्थचन्द्रिका

क्व तदुपलब्धमिति चेदिति । यत्र चेतनत्वावच्छिन्नमैक्यं तत्रानुसन्धानमित्येवोक्ते कुत्रेदं दृष्टमिति पर्याकुलितमना न तावद्व्याप्तिं प्रत्येति यावन्न दृष्टान्तोपन्यास इति तदभिधानावश्यकतापक्षमाश्रित्येयं शङ्का न तु दृष्टान्तस्य सार्वत्रिकत्वाभिप्रायेणेति न युक्तिपादीयटीकया विरोधः । ततश्च व्याप्त्यसिद्ध्या मूलशैथिल्यान्न चेतनैक्येनानुसन्धानापादनं वाऽनुसन्धानाभावेनैक्याभावानुमानं वा युक्तमित्यर्थः । देवदत्तेन स्वभावैक्यवतो देवदत्तस्य देवदत्तगतसुखाद्यनुसन्धानदर्शनेन तस्यैव दृष्टान्तत्वसम्भवान्न व्याप्तिवैकल्यमित्याशयेन समादत्ते देवदत्तेति । ननु दृष्टान्तस्थलेऽनुसन्धानस्योपाधिभेदाभावः प्रयोजको न स्वरूपैक्यं प्रकृते तूपाधिभेदसद्भावात्कथमनुसन्धानप्रसङ्गः कथं चान्यनिमित्तस्यानुसन्धानस्याभावात्स्वरूपैक्याभावानुमानमित्याशयेन शङ्कते उपाधिभिन्न इति । यद्वा गूढाभिसन्धेरेव पूर्वोक्तावाक्षेपपरिहारावुपाधिभिन्न इति तु पूर्ववाद्यभिप्रायोद्घाटनमित्यवधेयम् । साध्यव्यापकत्वान्नायमुपाधिरित्याशयेन समाधत्ते हस्तेति । न वयमौपाधिकभेदाभावे सत्यभेदमेवानुसन्धाने प्रयोजकं ब्रूमः । किन्तु विश्लिष्टोपाधिकृतभेदाभावविशिष्टम् । तथा च न व्यभिचारः । औपाधिकभेदसद्भावेऽप्येकस्मिन् शरीरे विश्लिष्टोपाधिकृतभेदाभावात् । न चैतत्प्रयोजकं प्रकृतेऽस्त्युपाधीनां विश्लेषादतो नानुसन्धानप्रसङ्गः । नापि तदभावेनैक्याभावानुमानमित्याशयेन शङ्कते विश्लिष्टेति । ननु न प्रतिज्ञामात्रेणार्थसिद्धिः । अन्यथाऽतिप्रसक्तेरित्यत आह एतच्चेति ॥ समर्थयिष्यत इति । ‘अंशिकर्मनिर्मितशरीर एवांशस्य भावादि’त्यादिनेति शेषः । ननु कथमनेन व्यभिचारपरिहार इत्यत आह अयं भाव इति ।

***परिमल ***

एतच्चैक आत्मन इति । उपरितनपादे इत्यादिना सूत्रेण समर्थयिष्यत इत्यर्थः । तदर्थो भाष्ये व्यक्त इति भावः ।

यादुपत्यं

ननु न प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह एतच्चेति । अंशिकर्मनिर्मितशरीर एवांशस्य भावादिति युक्त्यादिनैतत्समर्थयिष्यत इत्यर्थः ।

श्रीनिवासतीर्थीया

शङ्कते ॥ चैतन्यैक्यस्येति । ननु मया चैतन्यैक्यमात्रेऽनुसन्धानं प्रयोजकमिति नोच्यते । किन्नामोपाधिभेदाभावविशिष्टे चैतन्यैक्ये तत्प्रयोजकत्वेनोच्यते । अस्ति चैतदेकस्मिन्देवदत्ते न ब्रह्मणि । उपाधिभेदस्यैव सत्त्वादित्याह उपाधीति । प्रयोज्यप्रयोजकभावे समव्याप्तिमभिप्रेत्य तत्र व्यभिचारमाह हस्तेति । एतद्दोषपरिहाराय शङ्कते विश्लिष्टेति । न दृष्टमनुसन्धानम् । स्यादेवं यद्यौपाधिकभेदाभावे सति अभेदमेवानुसन्धाने प्रयोजकं ब्रूमः । किन्तु विश्लिष्टोपधिकृतभेदाभावे सति । तथा च न व्यभिचारः । औपाधिकभेदसद्भावेऽप्येकस्मिन् शरीरे विश्लिष्टोपाधिकृतभेदाभावात् । न चैतत्प्रयोजकं प्रकृतेऽस्ति । उपाधीनां विश्लेषात् । अतो नानुसन्धानमिति भावः । प्रयोजकान्तराणां व्यभिचारित्वाच्चैतन्यैक्ये त्वनुसन्धानमात्रमेव प्रयोजकमिति यद्भवदभिप्रेतं तदप्ययुक्तमित्याशङ्कते नन्विति । अभिमतस्य अनुसन्धानव्याप्यभूतस्वाभाविकैक्यस्य ॥ उपचारितमेवेति । तद्देहांशानां पुत्रदेहोपादानत्वादिति भावः । उपापदितमेतत्प्रथमाध्याये चतुर्थपादे । स्वतः स्वस्माज्जीवादित्यन्यथाप्रतीतेराह वस्तुत इति ।

वाक्यार्थरत्नमाला

युक्तिपादीयटीकयेति । उक्तव्याप्तिरेव तु सा स्मृतेत्याद्यनुव्याख्यानव्याख्यानरूपपञ्चावयवनियमनिराकरणपरटीकयेत्यर्थः । विशिष्य स्थलं शोध्यमस्ति । हस्तपादाद्युपाधिभेदेऽपि भोक्तुरेकत्वानुभवादित्येतत्तत्वोद्योतवाक्यव्याख्यानरूपं ‘‘यथा देवदत्तेन स्वगतं सुखादी’’ त्यादि ग्रन्थं मनसि निधाय व्याप्तिग्रहणस्थलं स्पष्टयति । देवदत्तेनेति । उपाधिभेदेऽपीत्येतदवताररूप ‘‘ननु दृष्टान्तस्थल’’ इत्याद्युपाधिखण्डनटीकानुसारेणाह । ननु दृष्टान्तस्थल इति । क्व तदुपलब्धमिति शङ्कावाक्यस्य दृष्टान्ताभावमात्रशङ्कापरत्वापेक्षयोपाधिभेदे चेतनत्वे सत्यैक्येऽपि नानुसन्धानमित्याक्षेपपरतया योजनायाः स्वरसत्वम् । तेनानुसन्धाने उपाधिभेदाभावस्य प्रयोजकत्वकथनद्वारोपाधिभेदाभावस्योपाधित्वोक्तिलाभात् । तथा सत्युत्तरवाक्योक्तशङ्कानुदयवारणाय तदभिसन्धेर्गूढत्वम् । तथा ‘‘देवदत्तसम्बन्धिन’’ इति वाक्यस्योपाधिनिराकरणपरत्वम् । हस्तपादाद्युपाधीत्युत्तरवैयर्थ्याय चाभिसन्धेर्गूढत्त्वं चाश्रयणीयमिति योजनान्तरमाह । यद्वा गूढाभिसन्धेरेवेति । अभिप्रायोद्घाटनमिति । अनुसन्धानं यत्रास्ति तत्र तत्प्रयोजक उपाधिभेदाभाव ऐक्येनानुसन्धानापादने उपाधिरित्यभिप्रायस्य प्रतीतेरिति भावः । उत्तरवाक्याभिप्रायोपदर्शनेन तद्वाक्यं देवदत्तसम्बन्धिन इति वाक्यस्याभिप्रायोद्घाटनरूपमित्याह । साध्यव्यापकत्वादिति । ‘‘उद्यतायुधदोर्दण्डा’’ इत्येतदवताररूपतत्वोद्योतटीकानुसारेणा कृतम् ।

न वयमौपाधिकेति । अत्र चौपाधिकभेदाभावमात्रविशिष्टमभेदमित्यर्थस्य विवक्षितत्वात्किंतु विश्लिष्टेत्यधिकांशवचनं विश्लेषरूपोपाधिविणस्याधिकस्य पूर्वत्र प्रवेश्यत्वाभिप्रायं न तूत्तरोक्तसंपूर्णप्रयोजकस्यापि तत्र निवेशाभिप्रायमिति ज्ञातुं शक्यत्वादाधिक्यप्राप्तिः । पूर्ववैयर्थ्यं वेति शङ्कानवकाशः । यद्वा किंत्विति वाक्येऽभेदमिति बुध्या विविच्यानुवर्तते । तथा च संपूर्णस्य पूर्वोक्तस्यत्यागाभिप्रायेणैव न ब्रूम इत्युक्तिः किं त्वन्यदेवेत्यभिप्रायेण तु किं त्वित्याद्युक्तिरिति विवेकाश्रयणान्न कश्चिद्दोष इति ज्ञेयम् । तत्वोद्योतटीकायामप्येवमेव व्याख्येयम् ।

एक आत्मन इत्यादिसूत्रादेवांशत्वस्य स्पष्टमप्रतीतेस्तत्सूत्रीयभाष्यमेवाह । अंशिकर्मेति । इत्यादिनेत्यादिपदेन ज्ञानादिभेदे विद्यमानेऽपि नांशिनोः पृथग्भाव इत्यादेर्व्यतिरेकस्तद्भावेति सूत्रीयभाष्यस्य सङ्ग्रहः । अत्रेत्यादिनेत्यस्येत्याद्यर्थकेनेति विवक्षणान्न कश्चिद्दोषः । जीवांशा नियमेनानुसन्धानवन्त इति प्रतिज्ञायां हेतुप्रतिपादनाय समर्थयिष्यत इत्युक्तानुव्याख्यानकारेणेति पूरणे स्वारस्यं भवतीत्यतो मूलस्थेत्यादिनेत्यस्येत्यादिसूत्रद्वयव्याख्यानेनेत्यस्येत्यादिसूत्रद्वयव्याख्यानेनेत्यर्थकत्वमेव वाच्यमित्याशयेनेत्यादिनेत्येतदित्यादिभाष्यवाक्यपरतया व्याख्यातम् । तत्रांशिनस्तु पृथग्जाता इत्यादिपरमसंहितावाक्यमुक्तार्थे प्रमाणमभिहितमिति समर्थनविलाभ इति हृदयम् ।

इन्द्रार्जुनयोः साध्यसाधनाभाववत्वेनान्वयव्याप्तौ दृष्टान्तत्वायोगाद्यथाचेति समुच्चयायोग इति शङ्कानिरासाय द्वितीयदृष्टान्तस्य व्यतिरेकदृष्टान्तत्वमेव ।

‘‘अत्मावै पुत्रनामासी’’त्यादिवचनादित्येव मूले पाठः । वचनात्पितापुत्रयोरित्यादि मूलम् । यद्यपि आनङ् ऋतो द्वन्द्व’’ इति सूत्रस्य विद्यायोनिसम्बन्धवाचिनामृन्दतानां द्वन्द्वे पूर्वपदस्यानङादेशः स्यादित्यर्थकत्वं होतापोतारौ मातापितराविति तत्रोदाहरणं च समस्यमानपदयोर्द्वयोरपि ऋदंतत्व एवास्ति । तथा च पुत्रशब्दस्य ऋदंतत्वाभावात् तत्रानङादेशाप्राप्तिरित्याभाति । तथापि पुत्रेन्यतर स्यामिति पूर्वसूत्रात् पुत्र इत्यस्य मण्डूकप्लुतिन्यायेनानुवृत्तिमाश्रित्यानृदन्तपुत्रशब्देन द्वन्द्वेऽपि मातापुत्रादेः प्रयोगस्य वैय्याकरणैरुपपादनात् पितापुत्रयोरित्याद्यपि साधु । पितापुत्रयोर्हि योनिकृतः सम्बन्धो जन्यजनकभावलक्षणोऽस्तीति पूर्वपदस्यानङित्वादंत्यस्यादेशे आकारमात्रादेशपक्षे उरण् रपर इति सूत्रेण रपरत्वं प्राप्नोतीति तद्-व्यावृत्यर्थतया तकारस्याधिकस्योपादानात् तद्बलात् परत्वाभावे पितापुत्रयोरित्यादिरूपोपपत्तिरिति ज्ञातव्यम् । नामासीदित्यादीति दकारस्तु लेखकागतः ।