१२ नाममात्रमेवैक्यम्

अनुसन्धानरहितं समुदायैक्यमेव चेत्

नाममात्रमेवैक्यम्

अनुसन्धानरहितं समुदायैक्यमेव चेत्

सुधा

शङ्कते अनुसन्धानेति ।

अनुव्याख्यानम्

अनुसन्धानरहितं समुदायैक्यमेव चेत् ।

चेतनेषु …… ……. …….

यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम् । अतश्चेतनेष्वप्यनुसन्धानरहितं तद्युक्तम् । अयमभिसन्धिः । समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते । तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति । तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते । अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात् । तस्मादैक्यं नानुपपन्नमिति । गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाह अस्तु तदिति ।

अनुव्याख्यानम्

……. अस्तु तत् ……. ………..

सर्वथाऽपि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवत्वित्यर्थः । विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आह नाममात्रमेवेति ।

अनुव्याख्यानम्

……. ………. नाममात्रमेव यतस्ततः ॥

यतस्तदैक्यं नाममात्रं न वास्तवं ततस्तदभ्युपगमो न दूषणम् । अयमभिसन्धिः । तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः । प्रत्यक्षादिना तदभेदस्य सिद्धत्वात् । तथा च विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति । तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात्तदाऽनुसन्धानाभावोऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात् । न चैवम् । चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात् । व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति ।

वाक्यार्थचन्द्रिका

नन्वनुसन्धानस्य चेतनैक्ये प्रमाणत्वाच्च तद्व्यावृत्त्यैक्यव्यावृत्तौ चोदितायां नैतच्छङ्कावकाश इत्यतोऽभिप्रायमाह अयमभिसन्धिरिति । प्रमाणाभावेन प्रमेयाभावस्यान्यत्र साधनसम्भवेऽपि न प्रकृतेऽनुसन्धानरूपप्रमाणाभावेनैक्याभावसाधनमुपपद्यते । ऐक्यप्रमाणतयाऽभिमतस्यानुसन्धानस्य विरुद्धधर्माध्यासाभावरूपत्वात् । अतोऽनुसन्धानाभावेनैक्याभावं साधयता विरुद्धधर्माधिकरणत्वेनैक्याभावः साध्यत इत्येव वाच्यम् । तथा चात्यन्ताभेदस्थले विरुद्धधर्माधिकरणत्वस्यानन्यथासिद्धत्वेनाभेदाभावसाधकत्वसम्भवेऽपि प्रकृते भेदाभेदाङ्गीकारेण विरुद्धधर्माध्यासस्यैक्याभावसाधकत्वं न सम्भवति । भिन्नाभिन्नस्थलेऽपि तस्याभेदाभावसाधकत्वे तत्त्वेन सम्प्रतिपन्ने तन्तुपटादावपि तस्यैक्याभावसाधकत्वापातात् । तत्र भेदाक्षेपकत्वमात्रेण चरितार्थत्वाद्विरुद्धधर्माध्यासस्य नाभेदाभावसाधकत्वमिति यदि मन्यसे तर्हीहापि भेदाक्षेपकतयाऽन्यथासिद्धत्वाद्विरुद्धधर्माध्यासस्य नाभेदाभावसाधकत्वमिति तुल्यमिति नानुसन्धानाभावेनाभेदाभावसिद्धिरिति भावः । विप्रतिपन्नप्रमेयाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत उक्तं गूढाभिसन्धिरिति । एतदैक्यं नाममात्रं न वास्तवमित्यभिप्रायोऽत्र गूढ इति ज्ञेयम् । अभिसन्धिमजानानः शङ्कते विप्रतिपन्नेति । विप्रतिपन्नस्यैक्यस्याभ्युपगमे ‘न च चित्त्वादभिन्नत्वमि’त्यैक्यनिषेधप्रतिज्ञाहानिः स्यादित्यर्थः । नन्वनुसन्धानरहितमैक्यं न वास्तवमित्युक्त्याऽनुसन्दानाभावो वास्तवैक्याभावसाधक इत्युक्तं भवति । तच्चायुक्तम् । भेदमात्रज्ञापनेन चरितार्थस्यानुसन्धानाभावस्यैक्याभावसाधकत्वायोगात् । अन्यथा तन्तुपटादौ विरुद्धधर्माध्यासस्याप्यभेदाभावसाधकत्वापातादित्यत आह अयमभिसन्धिरिति ॥ तद्वचन मिति । ‘अनुसन्धानरहितसमुदायैक्यमेव चेदि’त्येतद्वचनमित्यर्थः ।

***परिमल ***

गूढाभिसन्धिरिति । उत्तरवाक्ये वक्ष्यमाणाभिसन्धिं गूढं कृत्वेत्यर्थः ॥ प्रत्यक्षादिनेति । तन्तव एव पटात्मना जाता इत्येवंरूपप्रत्यक्षेण गुरुत्वभेदाभावाद्यनुमानेन ‘तन्तुभ्योऽन्यः पटः साक्षात्कस्य दृष्टिपथं गत’ इत्याद्यागमेन चेत्यर्थः ॥ पुनस्तद्वचनमिति । ‘अनुसन्धानरहितसमुदायैक्यमि’तिवचनमित्यर्थः ॥ प्रागुक्तेति । ‘अत ऐक्यं क्व दोषिणे’त्यादिनोक्तेत्यर्थः ।

यादुपत्यं

गूढाभिसन्धिरिति । एतदैक्यं नाममात्रं न वास्तवमित्यभिसन्धिरत्र गूढ इति द्रष्टव्यम् ॥ इत्यत आहेति । इत्याशङ्कायामभिसन्धिमुद्घाटयतीत्यर्थः ।

श्रीनिवासतीर्थीया

अयमभिसन्धिरिति । योगरूढ इत्यर्थः ॥ एकप्रमाणक इति । येन विरुद्धधर्मदर्शनेन निवर्तेतेति भावः । कृती चरितार्थः ॥ विरुद्धेति । तन्तुपटादिभेदसाधक इत्यर्थः । कालात्ययापदिष्टेति । तन्तुपटाद्यभेदसाधकप्रत्यक्षविरोधभयादित्यर्थः ॥ न चैवमिति । चैतन्यैक्ये निरवकाशं प्रमाणं नास्तीत्यर्थः । तथाऽनुसन्धानमेव तत्र प्रमाणतया वाच्यमिति भावः । नाममात्रमेवेति । अस्य तात्पर्यं निरर्थकमेवेतीति ।

वाक्यार्थरत्नमाला

प्रमाणाभावेनेति । यत्प्रमेयं यदेकप्रमाणकं तदभावेन तत्प्रमेयेत्यर्थः । अतोऽनुसन्धानाभावेनेति पाठः । तथा चात्यन्ताभेदस्थल इत्येव पाठः । नञनुप्रवेशस्त्वधिकः । तस्येति । विरुद्धधर्माध्यासस्येत्यर्थः । तत्वेन भिन्नाभिन्नत्वेनेत्यर्थः । विप्रतिपन्नस्यैक्यस्याभ्युपगमेन च चित्वादभिन्नत्वमित्यैक्येति पाठः । अन्यादृशस्तु लेखकप्रमादात् ।