०९ आभासत्वनिरूपणम्

तत आभासते नित्यं तद्वदाभासतेऽपि च

आभासत्वनिरूपणम्

तत आभासते नित्यं तद्वदाभासतेऽपि च

सुधा

ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति । गौण्येति चेत् । एवं तर्ह्यस्मदायत्ते शब्दप्रयोगेऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम् । मैवम् । योगाश्रयणादित्याह तत इति ।

अनुव्याख्यानम्

तत आभासते नित्यं तद्वदाभासतेऽपि च ।

भानमस्तित्वमपि चैवासमन्ताद्यतस्ततः ।

जीव आभास उद्दिष्टः सदैव परमात्मनः ॥

तेन परमात्मना निमित्तेनाभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते । तद्वद् ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम् । अपि चेति व्याख्यानसमुच्चये । भानं ज्ञानम् । अस्तित्वं सत्त्वम् । अस्तिशब्दोऽव्ययम् । अस्ति स्वस्तीति पाठात् । अपिशब्दो भानास्तित्वयोः समुच्चये । चशब्दो व्याख्यानसमुच्चये । एवशब्दस्य तत एवेति सम्बन्धः । आ इत्यनुवादेन समन्तादिति व्याख्यानम् । यतः कारणात्ततः परमात्मन एव जीवस्य भवतस्ततः कारणादित्यावृत्त्या योज्यम् । भा च आसा च भाऽऽसे, आ सर्वकालवर्तिन्यौ भाऽऽसे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः । ‘पूर्वान्तवत्स्वरःसन्धौ क्वचिदेव परादिवत् । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिविदि’ति वचनान्न यतिभङ्गः शङ्कनीयः ।

वाक्यार्थचन्द्रिका

कया वृत्त्येति । अभिधानाद्यभावेन रूढेरसम्भवात् । अवयववृत्त्यप्रतिभासेन योगस्याप्यनुपपत्तेर्न तस्य तत्र मुख्यवृत्तिः सम्भवति । नाप्यमुख्यवृत्तिः । तस्याः प्रयोजनसापेक्षत्वेनासति प्रयोजने तदनुपपत्तेरिति गूढाभिसन्धेरियमाशङ्का । आशयमजानानः शङ्कते ॥ गौण्येति चेदिति । पूर्ववादी स्वाशयमुद्घाटयति एवं तर्हीति ॥ तेन परमात्मनेति । अनेनाद्यादिभ्य उपसङ्ख्यानात्तेनेति तत इति तृतीयान्तात्तसिरित्युक्तं भवति निमित्तेनेति । जीवकर्तृकप्रतीतावीश्वरस्य कर्तृत्वकरणत्वयोरसम्भवान्न तत्रेयं तृतीया किन्तु निमित्त एवेति भावेनेदमुक्तम् ॥ तद्वदिति । ‘तत्र तस्येवेति, लक्षणस्य प्रायिकत्वेनाभियुक्तैर्व्याख्यातत्वात्प्रथमान्तादेवात्र वतिरिति भावः ॥ व्याख्यानसमुच्चय इति । तत आभासत इति व्याख्यानस्य तद्वदाभासत इति व्याख्यानस्य च समुच्चयेऽपि चेति समुदायरूपो निपात इत्यर्थः । नन्वस्तीत्येषोऽस्तेर्लट् तत्कथं तिङन्तादस्तिशब्दाद्भावप्रत्ययः । ‘तस्य भावस्त्वतलावि’ति षष्ठ्यन्तात्समर्थादेव भावे त्वतलोर्विधानादस्य च षष्ठयन्तत्वाभावादित्यत आह अस्तिशब्द इति । सत्ताविशिष्टकर्तृवाच्यास्तिशब्दो निपातत्वादव्ययमित्यर्थः। ततश्चाव्ययस्य सर्वविभक्त्यन्ततया युक्तः षष्ठ्यन्ताद्विहितस्त्वप्रत्ययोऽस्तिशब्दादपीति भावः । कथमस्य निपातत्वं येनाव्ययत्वमित्यतो ‘विभक्तिप्रतिरूपकाश्च निपाता भवन्ती’ति भाष्यं मनसि निधाय तदुपपादयति अस्ति स्वस्तीति पाठादिति । विभक्तिप्रतिरूपकेषु पाठादित्यर्थः । यद्यपि स्वरादिपाठादप्यव्ययत्वमस्योपपादयितुं शक्यं तथाऽपि तस्य सत्तामात्रार्थत्वेनास्तीत्येतावतैव सत्तालाभात्तदर्थकत्वप्रत्ययवैयर्थ्यप्रसङ्गात्तदनाश्रयणमिति मन्तव्यम् । व्याख्यानसमुच्चय इति । तत आभासत इति पूर्वोक्तव्याख्यानेन भानमस्तित्वमिति व्याख्यानस्य समुच्चय इत्यर्थः । आ समन्तादिति भाष्येऽन्यतरेणान्यतरस्य वैयर्थ्यमाशङ्क्य परिहरति आ इत्यनुवादेनेति । भा च आसा च भासे इत्येव मूलपाठः । अत्र भानं भा, असनमसा भा च असा च भासे इति विग्रहो द्रष्टव्यः ॥ परमात्माभास इति । यद्यप्यत्र परमात्माभास इति पदं नास्ति तथाऽपि ब्रह्माभासशब्दार्थकथनार्थमस्य वाक्यस्य प्रवृत्तत्वात्तदुपपत्त्यर्थं परमात्माभास इत्युक्तमिति भावः । ननु पदमध्ये विरामाद्यतिभङ्ग इत्यत आह पूर्वान्तेति । योऽयं पूर्वापरयोरेकादेशः स्वरः सन्धौ सवर्णदीर्घादिः स प्रायः पूर्वान्तवत् क्वचिदेव परादिवच्च द्रष्टव्यः । अत एव ‘अन्तादिवच्चे’ति पाणिनिः सस्मार । यणादेशः पूर्वान्तोऽपि परादिवदेव द्रष्टव्यः । अत्र च स्वरस्य परादिवद्भावे व्यञ्जनमपि परादिवद्भवति । तद्भक्तत्वात् । प्रकृते च पूर्वापरयोरेकादेशस्यैकारस्य पूर्वान्तवद्भावान्न यतिभङ्ग इति भावः । वचनाद् वृत्तरत्नाकरवचनात् । एतच्च यतिभङ्गस्य शास्त्रदोषत्वमङ्गीकृत्योक्तम् । वस्तुतस्तु ‘य उपाधिर्लगति साध्ये सम्बन्धविण’ इत्याद्यभियुक्तप्रयोगदर्शनान्न तस्य शास्त्रदोषत्वं किन्तु काव्यदोषत्वमेवेति प्रमेयदीपिकायां टीकाकृतोक्तं समाधानमेवात्रावधेयम् ।

परिमल

अव्ययमिति । तिङन्तप्रतिरूपमव्ययमित्यर्थः । तेन ‘तस्य भावस्त्वतलावि’ति प्रातिपदिकाद्विहितत्वप्रत्ययोपपत्तिरिति भावः ॥ इतिपाठादिति । अव्ययगणपाठादित्यर्थः ॥ व्याख्यान समुच्चय इति । पूर्वव्याख्यानद्वयेनास्य समुच्चय इत्यर्थः ॥ आवृत्त्येति । तत इत्यस्येत्यर्थः । अपिचैवेत्यत्र एवशब्दे विच्छेदावगमाद्यतिभङ्गमाशङ्क्याह पूर्वान्तवदिति । स्वरो ऽकारादिः । अत्रैकाररूपस्वरस्य पूर्वान्तवत्त्वभावान्न दोष इत्यर्थः ।

यादुपत्यम्

अव्ययमिति । न तिङन्तं पदं, तेन त्वप्रत्ययोपपत्तिरिति भावः । परमात्माभास इति । तथा चोक्तं व्याख्यानं परमात्माभासशब्दस्यैव नाभासशब्दमात्रस्येति ज्ञेयम् । पूर्वान्तवदिति आनन्दमयाधिकरणे व्याख्यातम् ।

श्रीनिवासतीर्थीया

वक्तीति । योगरूढ्योरभावादिति भावः ॥ व्याख्यानसमुच्चय इति । तत आभासते, तद्वदाभासत इत्याभासशब्दव्याख्यानयोः परस्परं समुच्चय इत्यर्थः ॥ चशब्द इति । तत आभासत इत्यादिना कृताभासशब्दव्याख्यानद्वयापेक्षया भानमिति क्रियमाणव्याख्यानसमुच्चय इत्यर्थः ।

वाक्यार्थरत्नमाला

उत्तरव्याख्यानस्य पूर्वव्याख्यानसमुच्चायकतया भानमस्तित्वमपि चेति चशब्दस्य व्याख्यास्य(?)तया भानमित्युत्तरव्याख्यानसमुच्चयार्थत्वायोगात्तत आभासत इत्यादिव्याख्यानद्वयसमुच्चयस्य चान्यतरेणैव सिद्धेः परस्परसमुच्चयस्य चानावश्यकत्वादन्यतरवैय्यर्थ्यमित्याशङ्कापरिहाराय निपातसमुदायरूपोऽयं निपात एक एवेति न वैय्यर्थ्यमिति मूलाभिप्रायं स्पष्टयति । समुदायरूपो निपात इति । तस्येति षष्टी समर्थादित्यादिकाशिकोक्तसूत्रार्थानुसारेणाह । तस्य भाव इत्यादि । समर्थानां प्रथमाद्वेति प्राग्दिशीयपर्यन्तं समर्थाधिकारात्समर्थादेवेत्युक्तम् । तच्च सामर्थ्यं परिनिष्टितत्वम् । नत्वेकार्थभावरूपमित्यादिकं तत्र समर्थनामिति सम्बन्धार्थानामित्यादिमञ्जर्यादौ स्पष्टम् । निपातत्वादिति । स्वरादिनिपातमव्ययमिति सूत्रेण निपातानामव्ययत्वविधानादिति भावः । उक्तं च तदस्यास्त्यस्मिन्निति मतुबिति सूत्रीय मञ्जर्यामस्तिविवक्षायामस्तिमानिति क्वाचित्कवृत्तिग्रन्थव्याख्यानवसरेऽस्तिशब्दो विभक्तिप्रतिरूपको निपातः कर्तृविशिष्टसत्तावाची । नैषोऽस्तेर्लट् । प्रयोगान्तरमपि दृश्यते । अस्तित्वमस्तित्येत्यादि । विभक्तिस्वरेति । अत्र विभक्तिस्वरप्रतिरूपकाश्चेति पाठः । प्रतिरूपकेष्विति वक्ष्यमाणत्वात् । तदस्यास्तीति सूत्रीयभाष्ये हि तद्धितविधावस्तिग्रहणम् । तद्वै क्रियमाणमपि प्रत्ययविध्यर्थम् । अस्तिमानिति मतुब्यथास्यात् । किं कारणं नस्यात् । अप्रातिपदिकत्वात् । नैष दोषः । अव्ययमेवास्तिशब्दः । नैषोस्तेर्लट् । कथमव्ययत्वम् । विभक्तिस्वरप्रतिरूपकाश्च निपाता भवन्तीति निपातसंज्ञा निपातोऽव्ययमित्यव्ययसंज्ञेति प्रतिपादनादिति भावः । अव्ययमिति । कतृविशिष्टसत्तावाचीति भावः । तथा चास्तित्वमिति भावप्रत्ययप्रयोगोपपत्तिरिति कैय्यटोक्तिं च मनसि निधायैतद्विभक्तिप्रतिरूपका वेलायां मात्रायामित्यादयः स्वरप्रतिरूपका अइउऋलृ इत्येवमादयः । उपसर्गप्रतिरूपकाणामन्यत्रोक्तं निपातत्वम् । यथा दत्तं विदत्तं च प्रदत्तं चादिकर्मणीत्यादिशेष्यादौ स्पष्टमेतत् । तदर्थकेति । सत्तारूपभावार्थेकेत्यर्थः । सत्ताविशिष्टवाचित्वे तु तद्भावरूपसत्तार्थकतया त्वप्रत्ययवैय्यर्थ्यमिति भावः । स्वरादिगणे पठितस्यास्तीत्यस्य सत्तायामिति व्याख्यानात् । विभक्तिप्रतिरूपकस्य च सत्ताविशिष्टकर्तर्थत्वोक्तेरिति भावः । ब्रह्माभासशब्दार्थेति । ब्रह्माभासत्वादिति हेतूकरणेन ब्रह्माभासशब्दः प्राक्प्रयुक्त इति भावः ।

अस्य वाक्यस्येति । तत आभासत इति मौलवाक्यस्येत्यर्थः । अनेन परमात्मन आभासत इति व्यस्ततयानुव्याख्याने पदद्वयोपादानात्परमात्माधीने आभासे यस्येति विग्रहप्रदर्शनं मूले अनुपपन्नमिति शङ्का निरस्ता भवति । अस्य सर्वस्य प्राक्प्रयुक्तब्रह्माभासशब्दार्थकथन एव तात्पर्यात् । पञ्चम्यर्थतयैवाधीनत्वस्य कथनाच्चेति ज्ञेयम् । पदमध्ये विरामादिति । पदान्ते पदमध्ये विरामादित्यर्थः । अयं भावः ।

‘‘अब्धिभूतरसादीनां ज्ञेयाः संज्ञास्तु लोकतः ।

ज्ञेयः पादश्चतुर्थांशो यतिर्विच्छेदसंज्ञितः ॥’’

इति परिभाषाकथनपरवृत्तरत्नाकरे अब्धयश्चत्वार उपलक्षणया वेदा वा । भूतानि पञ्च इन्द्रियाणि वा । रसाः षट् मुनयः सप्तेत्यादिरूपेण समुद्रादीनां या संख्या तावत्सङ्ख्याकेषु चतुःपञ्चषडाद्यक्षरेषु तत्तत्सङ्ख्याकाक्षराणां समुद्रादिसंज्ञा ज्ञेया । यतिनियतस्थानेषु ‘‘यतिः सर्वत्र पादान्ते श्लोकार्धेतु वित’’ इत्याद्युक्तेषु समुद्रादिसंज्ञकानि चतुरक्षरादीनि अनुष्टुबादिछन्दस्सु यथासम्भवं ज्ञेयानि । पादश्च यस्य छन्दसो यावदक्षरता ततश्चतुर्थांशः । स च समाक्षर एवेति नियमः । किं तु उद्गीथादिछन्दस्सु समो वा विषमो वाऽन्यत्रोक्तस्तावानेव पादचरणादिव्यवहारेषु ज्ञेयः । यतिशब्दो विच्छेदे विरामे संज्ञितः परिभाषितः । संज्ञितेति पाठे तु यतिर्विच्छेदसंज्ञिता ज्ञेया । पादान्तादि यतिस्थानेषु समुद्रादिसंज्ञिकचतुरक्षरादीनि वस्तुतः सन्तीति प्रतिपादनात् । यतिः सर्वत्रेति नियतस्थानकथनपरवृद्धवाक्येषु समुद्रादिपदान्ते चेति समुद्रादौ पदान्ते च विरतिमभिधाय समुद्रादौ यतेः क्वचित् पदमध्येऽपि समुद्रादौ यतिर्भवेदिति पदमध्येऽपि सत्वमभिधाय विशिष्योक्तया च पदान्ते पदमध्ये विरतिर्नास्तीति प्रतिपादनाच्च यतिर्जिह्वोष्टविश्रामस्थानं कविभिरुच्यते । ‘‘सा विच्छेदविरामाद्यैः पदैर्वाच्या निजेच्छये’’ति छन्दोग्रन्थोक्ते विच्छेदादिशब्दितजिह्वोष्टविश्रामस्थानरूपयतेः पदान्त एव विधानस्य सिध्या प्रकृते च चै इति पदमध्येऽवसानस्य सत्वात्प्रमाणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वंद्वमानन्दहेतुमित्यादाविव यतिर्ननियतस्थानेति तद्भङ्ग स्यादिति । वृत्तरत्नाकरनारायणभट्यानुसारेण व्याख्याति योऽयं पूर्वापरयोरित्यादि । स्वरः सन्धौ योऽयं पूर्वापरयोरेकादेशः सवर्णदीर्घादिरिति सम्बन्धः । अन्तादिवच्चेति पाणिनिरिति । षष्टाद्यपाद इति शेषः । अत्र सूत्रे एक इति पूर्वापरयोरिति च वर्तते । तथा च योऽयमेकादेशो विधीयते स पूर्वस्यान्तवद्भवति परस्यादिवद्भवति । यथा तदन्त आदिर्वा तदन्तर्भूतस्तद्ग्रहणेन गृह्यते तद्वदेकादेशोऽपि तद्ग्रहणेन गृह्यत इति सूत्रार्थः ।

ब्रह्मबन्धुरित्यत्र ऊङुत इति सूत्रेणोकारान्तान्मनुष्यजातेः स्त्रियामूङ्विधायकेन ब्रह्मबन्धुशब्दादूङि सवर्णदीर्घे चान्तवद्भावात्पूर्वान्तत्वेन प्रत्ययान्तत्वाभावादर्थवदधातुरप्रत्यय इति सूत्रेण प्रातिपदिकत्वे स्वाद्युत्पत्तिर्भवति । एवं ब्रह्मबन्धु आ इति तृतीयास्थलेनोङ्धात्वोरिति विभक्तयाद्युदात्तत्वनिषेधो न भवति । मञ्जर्यां शेष्यादौ च स्पष्टमेतत् । यत्र पदमध्ये विरतिस्तत्रैव समुद्ररसादावपि पदविरतिर्दोष एव । परंतु क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेदिति विशेषात्क्वचिदेव विरतावपि प्रायो विरत्यभाव एवावश्यकः । अन्यत्रापि क्वचिद्विरतिश्चेत्पूर्वान्तवदित्युक्तलक्षणस्थल एव स्वीकार्या नान्यत्रेति निरूपणायेदं प्रवृत्तमिति न यतिः सर्वत्रेत्याद्युक्तस्यैतस्य च विरोधः शङ्कनीय इति द्रष्टव्यम् । एतदुदाहणानि तु अभेदेऽपि विणैवान्य इत्युदितो हरिरित्यानन्दमयाधिकरणीयानुव्याख्यानमूलटीकायां स्पष्टानिवचनादित्यनूद्य व्याचष्टे । वृत्तरत्नाकरेति । वृत्तरत्नाकरे संमतितयोदाहृतवचनादित्यर्थ इति पाठः । आनन्दमयाधिकरणे तथैव टीकापाठात् । वृत्तरत्नाकरवचनादिति पाठेऽपि उक्त एवार्थे तात्पर्यान् न कश्चिद्दोषः । गीताभाष्यटीकाविरोधं परिहर्तुमाह एतच्च यतिभङ्गस्येति । यतिस्थाननियमादिकथनस्य काव्यार्थत्वेन उक्तलक्षणस्य श्लोकेषु नियतस्थानपदच्छेदं यतिं विदुरित्युक्तलक्षणस्य च काव्यलक्षणया तदभावोऽपि काव्यस्यैव दोषो न तु शास्त्रस्य । न चात्र नियामकाभावः । तथा सति शास्त्रेषु तादृशबहुविधप्रयोगानुपपत्तिप्रसङ्गादिति भावः । अभियुक्तेति । ….स्तबके कुसुमाञ्जलिकारप्रयोगेत्यर्थः । एतत्कारिकाव्याख्यानन्तु ‘‘तद्विणयुक्तैतदभावा भूस्तु केवले’’ इति वाक्यसाहित्येन गीताभाष्यटीकाप्रपञ्चे अस्माभिः सङ्क्षेपतो दर्शितम् । तत एव प्रतिपत्तव्यम् । यत्तु तद्ग्रन्थविवरणकारैर्य उपाधिर्लालगीति साध्ये यद्वै विणे इति पाठान्तरं कल्पितं तत् तन्मूलकोशेषु पाठान्तराभावाद् उक्तरीत्या यतिभङ्गस्य काव्यदोषत्वेन शास्त्रदोषत्वाभावेन समाधानोपपत्तौ तत्कल्पनानर्थक्याच्चायुक्तमिति स्पष्टमेवेति न तन्निराकृतवान् टीकाकार इति ज्ञातव्यम् । अधिकमानन्दमयनये द्रष्टव्यम् । प्रमेयदीपिकायामिति । ‘‘देवं नारायणं नत्वे’’ति गीताभाष्यीयप्रथमपद्यगतचाङ्गीतेत्यंशव्युत्पादनावसर इति शेषः ।