०७ प्रतिबिम्बपदार्थकथनम्

तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम्

प्रतिबिम्बपदार्थकथनम्

तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम्

सुधा

इदानीमत एव चोपमेति वाक्यं योजयति तावन्मात्रेण चेति ।

अनुव्याख्यानम्

तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।

तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्माभिराभास इत्युक्तम् । सूर्यकाद्युपमा च तावन्मात्रेण चोपपत्तेरिति चार्थः । जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम् । अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्रार्थ इत्युक्तं भवति । एवशब्दव्यावर्त्यं दर्शयति नेति ।

अनुव्याख्यानम्

नोपाध्यधीनताद्यैश्च …….. …..

उपाध्यधीनत्वतन्नाशनाश्यत्व(नाशित्व)जडत्वाद्यैरपि नेत्यर्थः । (इह) बहुवचनप्रयोगान्नाशिता भवेदित्यापादनमप्युपलक्षणं बोद्धव्यम् ।

वाक्यार्थचन्द्रिका

उक्तमिति । सौत्रोपमाशब्दार्थतयेत्यर्थः ॥ चार्थ इति । तावन्मात्रेण चेति भाष्यगतचशब्दार्थ इत्यर्थः ॥ इदं द्वयमस्तीति । यद्यपि संसारिष्वपि तदधीनत्वं तत्सदृशत्वं चेति द्वयमस्त्येव तथाऽपि व्यक्तं नास्तीत्यभिप्रारेणेयमुक्तिरिति ध्येयम् अनेनेति । यदुक्तं तदधीनत्वमित्यादिभाष्यग्रन्थेनेत्यर्थः । स्वाभिप्रायेति । सूत्रकाराभिप्रायेत्यर्थः । जडत्वाद्यैरित्याद्यपदेन बिम्बसन्निधिनाशनाशित्वादिपरिग्रहः । ननु ‘तदोपाध्यायत्तरूपाणां नाशिता भवेदि’त्युपाध्यायत्तत्वेन नाशित्वमात्रस्यैव प्रागापादितत्वादापादकतयोक्तस्योपाध्यायत्तत्वस्यापाद्यतयोक्तस्य नाशित्वस्य चानभिमतत्वात्तयोरेवैवकारव्यावृत्ततया व्याख्यानमुचितं न तु जडत्वादीनाम् । तेषां प्रागनापादितत्वादित्यतो नाशितेत्यस्य तदुपलक्षणत्वान्नाशित्वस्येव जडत्वादेरपि तेन प्रागापादिततया विवक्षासिद्धेर्युक्तमेवकारव्यावृत्ततया तद्व्याख्यानमित्यभिप्रेत्याह इहेति । नाशितेत्यस्य जडत्वाद्युपलक्षणत्वे भाष्यकारीयं नियामकमाह बहुवचनेति । नाशितेत्यस्य जडत्वानुपलक्षणत्वे ‘नोपाध्यधीनताद्यैरि’ति जडत्वादिसङ्ग्राहकबहुवचनानुपपत्तिरिति भावः । यद्यप्यत्र नाशित्वस्येव जडत्वादेरप्यापाद्यशब्देनैव गृहीतत्वात्तत्सङ्ग्राहकाद्यपदप्रयोग एव नाशितेत्यस्य जडत्वाद्युपलक्षणत्वनियामकतया वक्तुं शक्यते । तथाऽपि बहुवचनासमभिव्याहृतस्य तस्य सावकाशत्वेन तन्नियामकत्वानुपपत्त्या तत्समभिव्याहृतस्यैव नियामकत्वेनानुसरणीयत्वात्प्राप्ताप्राप्तविवेकेन बहुवचननिर्देशस्यैव तत्र नियामकत्वपर्यवसानमित्यभिप्रेत्य बहुवचनप्रयोगादित्येवोक्तमित्यवधेयम् ॥

***परिमल ***

स्वाभिप्रायेति । आभास एव चेत्यादौ स्वोक्तजीवाभासत्वस्य योऽभिप्रायः स्वस्य सूत्रकारस्य तत्प्रकटनमत्र सूत्रखण्डेन कृतमिति स एव सूत्रार्थो न परोक्त इत्यर्थः ॥ एवशब्देति । सौत्रैवशब्देत्यर्थः ॥ इत्याद्यापादनमिति ॥ आभासत्वहेतोर्विरुद्धत्वापादनादिरादिपदार्थः ॥ उपलक्षणमिति । जडत्वहिताहितप्राप्तिपरिहारहेत्वनुष्ठानेच्छापूर्वप्रवृत्त्यभावादेरुपलक्षणम् । एतदापादनमपि उपाध्यायत्तरूपाणां नाशिता भवेदिति शङ्काग्रन्थे ध्येयमित्यर्थः । आदिपदस्याप्युपलक्षणज्ञापकत्वेऽपि तस्यैकधर्मपरत्वेनाप्युपपत्तेरनेकधर्मलाभाय निरवकाशबहुवचनमेवोपात्तम् ॥

यादुपत्यम्

उक्तमिति । सौत्रेण चशब्देनेति शेषः ॥ स्वाभिप्रायेति । सूत्रकारः स्वाभिप्रायमनेन सूत्रखण्डेन प्रकटितवानित्यर्थः । जडत्वाद्यैरित्यत्राद्यशब्देन बिम्बसन्निधिनाशनाश्यत्वादिसङ्ग्रहः ॥ बहुवचनेति । यद्यपि तन्नाशनाश्यत्वं जडत्वादिकं चाद्यशब्देनैव गृहीतम् । तथाऽपि तस्य बहुवचनसमभिव्याहाराभावे तथात्वं न ज्ञातुं शक्यमित्युपजीव्यत्वाद् बहुवचनप्रयोग एवोपात्त इति ज्ञातव्यम् ।

श्रीनिवासतीर्थीया

स्वाभिप्रायेति । सूर्यकादिवदितिदृष्टान्तोक्त्याऽऽभासत्वरूपो हेतुः प्राप्तस्तत्राभासत्वे उपाध्यधीनत्वादिना नाशशङ्कायां न तेन साम्यं विवक्षितम् । किन्तु तदधीनत्वादिनैवेतिसूर्यकादिवदित्यत्रत्यं स्वस्याभिप्रायं सूत्रकारोऽत एव चोपमेति प्रकटीचकारेत्यर्थः ॥ उपलक्षणमिति । ‘नाशिता भवेत्’ उपाध्यधीनत्वे सूर्यकादिवज्जडत्वादिकं च भवेदिति द्रष्टव्यम् ॥

वाक्यार्थरत्नमाला

अस्माभिराभास इत्युक्तमिति मूलम् । तत्रायमर्थः । प्राक्सूर्यकादिवदित्येतत्खण्डेनाभास एव सूत्रोक्तस्येति च वक्ष्यमाणमूलानुसारेण दृष्टान्तमात्रकथनमुखेन योग्यतयाऽध्याहृतप्रतिज्ञाहेतुमेलनेन प्रयोगे सूत्रकृतोक्ते सौत्रहेतौ असिद्धिशङ्कायां दृष्टान्तानुपपत्तिशङ्कायां च प्राप्तायां सूत्रकारो ब्रवीति अस्माभिर्यदाभासत्वं हेतुत्वेनोक्तं तत् सूर्यकादिवदित्यनेन तदधीनत्वतत्सदृशत्वाभ्यामेव । उपमा च तावन्मात्रेणोपपत्तेरिति नासिद्ध्यादिप्रसङ्ग इति । अत एवानेनेत्युत्तरवाक्य एवमेव च सूत्रकाराभिप्रायकथनपरतया सूत्रव्याख्यानं वर्णयिष्यतीति ज्ञेयम् । एवं टीकायां पाठश् चार्थ इत्युक्तयोपमामात्रोपपादनं सूत्रकारस्य न विवक्षितमपि प्रागुक्तहेतूपपादनमपि । अन्यथा चशब्दं नोपादद्यात् । अत एव वक्ष्यति सौत्रश्चशब्द आभासत्वसमुच्चय इत्यादीति ज्ञेयम् । क्वचित्पुस्तके उक्तमित्यस्य सौत्रचशब्दार्थतयेत्यर्थ इत्यप्याहुरिति पाठस्तत्रान्येषामर्थस्तु प्रतिज्ञाहेतुप्रदर्शनावसरेऽपि आभास एव चेत्युक्तस्याभासत्वहेतोः कल्पनायां सूत्रकारीयश्चशब्द एव नियामक इति भावेन कथंचिन्नेयः । अस्वरसस्तु स्पष्ट एव । अनेनान्यथाख्यातिस्थचशब्देनेति इति व्याख्यानमात्रमपास्तं वेदितव्यम् । सौत्रश्चशब्द आभासत्वसमुच्चयार्थतयेत्युत्तरग्रन्थविरोधश्च । सौत्रोपमाशब्दार्थतयेत्यर्थ इति पाठस्तु लेखकागतः । मूलकोशे चकारस्थाने उपमापदशोधस्य केनचित्करणादिति ज्ञेयम् । यद्यप्यत्र नाशित्वस्यैवेति पाठः । सावकाशत्वेनेति । समभिव्याहृतातिरिक्तयत्किञ्चित्सङ्ग्राहकत्वेनाप्युपपत्तेत्यर्थः । बहुवचननिर्देशस्यैवेति । यद्यप्यनेकेषु तत्सत्तादौ ब्रह्माद्यं जगद्वियदादीत्यादिस्थलेषु तदभावेऽपि सर्वसङ्ग्रहो दृष्ट इति न तस्यैव नियामकता । तथापि तावतापि यत्किञ्चिदेकमात्रपरत्वेन सङ्कोचशङ्का स्यात् । बहुवचने तु प्रयुक्ते तन्निवृत्तिरिति भावेन तथोक्तिरिति ध्येयम् । यद्यपि च बहुवचनप्रयोगेऽपि विवक्षितसर्वसङ्ग्रहो नियमान्न लभ्यते तृतीयसङ्ग्रहमात्रेण तदुपपत्तेरतस्तदर्थं न बहुवचनमावश्यकं तथापि तत्प्रयोग आद्यपदेन विवक्षितस्य सङ्ग्रहे सम्भावकः स्यादिति भावेनेदमित्यादि ध्येयम् । निरवधिकसुखाव्यवच्छेद इति सुखाद्यव्यवच्छेद इत्यर्थः । आदिपदगर्भपाठस्तु सुगम एव ।