०६ पूर्वपक्षनिरासः

इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः

पूर्वपक्षनिरासः

इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः

सुधा

एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवातारयति इत्याशङ्केति ।

अनुव्याख्यानम्

इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ॥

अत एवोपमेत्येव च ….. …….

चशब्दोऽत एव चोपमेति भिन्नक्रमः । एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमिति एवशब्दः । अन्यथा हि सूर्यकादिवदित्यस्यावृत्तिराशङ्क्येत । यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह; यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्योऽत एव चास्योपाधिनिमित्तामपारमार्थिकीं विवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति । यद्यप्येवमेकवाक्यतालाभस्तथाऽप्यर्थदोषस्तत्र तत्र व्युत्पादित एव । वतेर्वैयर्थ्यं च । सूर्यकादिरित्येतावता पूर्णत्वात् । इतिशब्दाध्याहारश्चैवं न कर्तव्य इति ।

वाक्यार्थचन्द्रिका

प्रतीकग्रहणमेवैतत्किन्न स्यादित्यत आह अन्यथेति । एवशब्दस्य प्रयोजनान्तरमाह यद्वेति । किं तदपव्याख्यानमित्यतस्तदेव दर्शयति यत एवेति ॥ परप्रतिषेधोपदेश्योऽन्यनिषेधमुखवेद्य इत्यर्थः । मोक्षशास्त्रेष्वितीत्यत्रत्यस्येतिशब्दस्य इति परकृतस्येति पूर्वेण सम्बन्धः । तत्र तत्रेति । ‘निर्वित्वमेतेन मूकोऽहमितिवद्भवेदि’त्यादिना जन्माधिकरणे निर्वित्व दूषणेनेक्षत्यधिकरणे वाङ्मनसातीतत्वपरप्रतिषेधोपदेश्यत्वनिराकरणेन जिज्ञासासूत्रादौ च सार्वज्ञादिविशेषाणामपारमार्थिकत्वनिरासेन निर्वित्वादिरूपेऽर्थे दोषस्तत्र तत्र व्युत्पादित एवेत्यर्थः । तथा चार्थदोषेणैकवाक्यत्वस्यात्रासम्भवाद्वाक्यभेदाश्रयणमेव युक्तमिति भावः । एवं वतिपरित्यागे इतिशब्दाध्याहारश्च न कर्तव्य इति सम्बन्धः ।

***परिमल ***

अन्यथेति । एवशब्दाप्रयोगे सूत्रस्यैव प्रतीकत्वापत्त्या पूर्वपक्ष(प्राप)ज्ञापकत्वेन प्राप्तस्य सूर्यकादिवदित्यस्य सिद्धान्तार्थकत्वेनाप्यावृत्तिः शङ्क्येतेत्यर्थः ॥ एकवाक्येति । अत एव चोपमेत्यस्य सूर्यकादिवदित्यनेनैकवाक्यतेत्यर्थः ॥ परकृतस्येति । एकवाक्यतया परकृतव्याख्यानस्येत्यर्थः ॥ आहेति । एवशब्द इत्यनुषङ्गः । किं तद्व्याख्यानं कथं निरास इत्यत आह यत एवेत्यादि । मोक्षशास्त्रेष्वितीतिशब्दस्य परकृतेति पूर्वेणान्वयः ॥ अर्थदोष इति । आत्मनोर्निर्वित्वे विशेषाणामसत्यत्वे च पृथगुपदेशादित्याद्यधिकरणव्याख्याने व्युत्पादित इत्यर्थः ॥ इति शब्देति । सूर्यकादिवदित्युपमेति(वाच्यत्वात्)वचनात् । प्रत्युत वतिप्रत्ययः प्रतिकूल एवेति भावः ॥

यादुपत्यम्

अपव्याख्यानतामाहेत्यत्रैवशब्द इत्यनुवर्तते । मोक्षशास्त्रेष्वितीतिशब्दस्य परकृतस्येत्यनेनान्वयः ॥ अर्थदोष इति । चैतन्यस्य निर्वित्वरूपेऽर्थे विवत्वस्यापारमार्थिकत्वरूपे चार्थे यो दोषः स तत्र तत्र प्रथमाधिकरणादौ व्युत्पादित इत्यर्थः । तथा चैवमेकवाक्यत्वस्यासम्भवाद्वाक्यभेदाश्रयणमेव युक्तमिति भावः ॥

श्रीनिवासतीर्थीया

अन्यथेति । समग्रसूत्रप्रतीकग्रहणं चेदाचार्याणां विवक्षितं तर्हि समग्रसूत्रानुवादाय ‘अथाभासा मुख्यतः सूर्यकादिवदि’त्यत्रोक्तस्य सूर्यकादिवदित्यस्यानुवृत्तिशङ्का स्यादित्यर्थः ॥ एवं न कर्तव्य इति । सूर्यकादिरित्येव कृते सति सूर्यकादिरुपमोपादीयते मोक्षशास्त्रेष्विति सामञ्जस्यादित्यर्थः ।

वाक्यार्थरत्नमाला

….नुसारेण व्याख्याति । अन्यनिषेधेति । निर्वित्वादिरूपे इति । अनेन मूलस्थम् अत्रेति पदं विवृत्तं भवति । अर्थदोषेणेति । एकवाक्यतामाश्रित्य कृतस्य यत एवेत्याद्यर्थस्य निर्विशेत्वाद्यनुपपत्यादिदोषेणानुपपन्नत्वेनेत्यर्थः । एतत्सूत्रीय यस्मादेवमित्यादिभाष्यव्याख्यानरूपतत्वप्रकाशिकायां तु वर्णकान्तराभिधानान्न तद्ग्रन्थेनैतन्मूलस्य विरोधः । एतत्सर्वं तर्कशास्त्र इति जिज्ञासाधिकरणभाष्यमूलगतेदंशब्देनेत्येतट्टीकायाम् एतच्छब्दरूपत्वविचारोऽस्ति । तदनुसारेणाह । एतत्सर्वं तर्कशास्त्र इति ।