तदीशानात्प्रसन्नादेव नान्यथा
भगवत्प्रसादादेव मोक्षः
तदीशानात्प्रसन्नादेव नान्यथा
सुधा
ततः किमित्यत आह तदिति ।
अनुव्याख्यानम्
…….. तदीशानात्प्रसन्नादेव नान्यथा ।
तद् दुःखाप्ययादिरूपं कैवल्यम् । ईशानाद् विष्णोरेव भवेन्नान्यस्मात् । स हि तस्येष्टे नान्यः । अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं प्रसन्नादेव नान्यथा न ज्ञानमात्रादिति ।
ततोऽपि किमित्यत आह प्रसन्नतेति ।
अनुव्याख्यानम्
प्रसन्नता गुणोत्कर्षज्ञादादेव हि केवलम् ॥
निर्दोषतापरिज्ञानादपि नान्येन केनचित् ।
विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्देषतापरिज्ञानाच्च भवति । हिशब्दः प्रमाणप्रसिद्धिं द्योतयति । तच्च वक्ष्यते । केवलशब्दोऽवधारणार्थः । नान्येन केनचिदित्येतत्प्रतिरूपेणाल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः । तथा च मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्दोषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे निरस्तसमस्तदोषे नारायण एवाशास्त्रस्य महातात्पर्यमित्यवसीयते ।
वाक्यार्थचन्द्रिका
मूले ईशानादित्यस्य विणस्य प्रयोजनमाह स हीति ॥ तच्च वक्ष्यत इति । यो मामित्याद्यागमरूपमनुपदमेवोदाहरिष्यमाणमित्यर्थः ।
***परिमल ***
ईशानपदतात्पर्यमाह स हीति । यद्वा ईशानाद्विष्णोरिति कुतो व्याख्येत्यत आह स हीति ॥ वक्ष्यत इति । यो मामित्यादिनोत्तरवाक्य इति भावः ।
यादुपत्यं
तच्च वक्ष्यत इति । अनुपदमेवेति शेषः ।
श्रीनिवासतीर्थीया
तच्चेति । प्रमाणमित्यर्थः ॥ अवधारणार्थ इति । निर्दोषतापरिज्ञानादित्यनेनास्य सम्बन्धो द्रष्टव्यः । परिज्ञानाच्चेत्युक्त्याऽपिशब्दः समुच्चयार्थ इत्युक्तं भवति । ननु कथं द्वयोर्गुणोत्कर्षनिर्दोषतापरिज्ञानयोः समुच्चयः । उभावत्राप्यवधारणसद्भावेन परस्परं व्यावर्तितत्वादित्यतस्तद्व्यावर्त्यं दर्शयितुं नान्येन केनचिदित्युक्तं तस्यार्थमाह नान्येन केनचिदितीति । इत्यस्येत्यर्थ इत्यन्वयः ॥ एतदिति । एतयोर्गुणोत्कर्षनिर्दोषतापरिज्ञानयोरित्यर्थः । तथा च प्रसन्नता गुणोत्कर्षज्ञानादेव भवति । न त्वल्पगुणत्वज्ञानात् । तथा निर्दोषतापरिज्ञानादेव भवति । न तु दोषित्वपरिज्ञानात् । तथैतदुभयज्ञानव्यतिरिक्तकर्मादिसाधनेन वा न भवतीत्येवमनभिमतव्यावृत्त्यर्थमवधारणमित्यर्थः ।
वाक्यार्थरत्नमाला
केवलं निर्दोषतापरिज्ञानाच्चेति मूलम् । केवलशब्दस्यावधारणार्थतया व्याख्यास्यमानत्वान्निर्दोषतापरिज्ञानादेव चेत्यर्थः ।