०१ स्वमतरीत्या अधिकरणशरीरम्

ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ

॥ अथ स्थान(तोऽप्य)भेदाधिकरणम् ॥

स्वमतरीत्या अधिकरणशरीरम्

ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ

सुधा

॥ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ केचिदिदमित्थं व्याचक्षते । द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविमस्थूलमनण्वित्यादौ निर्विम् । तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् । यदाऽप्यन्यतररूपं तदाऽपि किं सविमुत निर्विमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते । न तावत्स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति विरोधात् । अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् । मैवम् । न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति । अतश्चान्यतरपरिग्रहेऽपि निरस्तसमस्तविमेव ब्रह्म प्रतिपत्तव्यम् । सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते । न भेदादिति चेन्न प्रत्येकमतद्वचनात् । न निर्विमेव ब्रह्म । चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न । यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधिभेदाभाववचनात् । अपि चैवमेके । नेह नानाऽस्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति ।

तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान् व्याख्यानमेवारभते ।

सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वप्नाद्यवस्थाः प्रवर्तयतीत्युक्तम् । तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपद्भिन्नस्थानं तद्भिन्नं दृष्टम् । यथा घटादि । भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् । भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गोऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतोऽपीति । तद्-व्याचष्टे नेति ।

अनुव्याख्यानम्

॥ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥

न स्थानभेदतोऽप्यस्य भेदः कश्चित्परेशितुः ।

अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति । सप्तम्यर्थे तसिः । आद्यादिभ्य उपसङ्ख्यानात् ।

वाक्यार्थचन्द्रिका

ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ विरोधादिति । एकस्य वस्तुनः स्वत एव रूपादिविवत्त्वतद्राहित्ययोर्विरुद्धत्वादित्यर्थः ॥ न हीति । तथा सति स्वतो धवलस्यापि स्फटिकमणेर्लाक्षारसावसेकोपाधिवशादधवलत्वप्रसङ्गादिति भावः ॥ न निर्विमेव ब्रह्मेति । किन्तु सविमपीत्यर्थः । तत्र हेतुमाह चतुष्पादिति । न च परस्य ब्रह्मणः स्वत उभयरूपत्वं विरुद्धमित्युक्तमिति वाच्यम् । आकारभेदस्योपाधिकृतत्वेन निर्वित्ववत्स्वाभाविकत्वाभावेनाविरुद्धत्वादित्याशयात् ॥ भेदेनोपदेशादिति । प्रतिविद्यं ब्रह्मण उपदिश्यमानाकाराणां भिन्नत्वादित्यर्थः । इत्यादिनेत्यादिपदेन ‘तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमय, पुरुषोऽयमेव स योऽयमात्मे’ति वाक्यपरिग्रहः । प्रत्युपाधिभेदमभेदस्यैव शास्त्रेण प्रतिपादनान्न भिन्नाकरयोगो ब्रह्मणि शास्त्रीय इति भावः ।

सर्वशरीरेष्वित्यादि । तदभावे स्वप्नाद्यवस्थाप्रवर्तकत्वानुपपत्त्या तदुक्त्यैव सर्वशरीरादिस्थत्वमपि लब्धमेवेति भावेनायमनुवाद इति ज्ञातव्यम् ॥ उक्तमिति । ‘सन्ध्ये सृष्टिराह ही’त्यादिनेति शेषः । सूत्रासारेण स्थानत इत्येव वक्तव्यत्वाद्भाष्ये भेदपदमधिकमित्याशङ्क्य पूर्वपक्षहेतोः स्थानभेदस्य सूत्रोक्तत्वसूचनार्थत्वान्न तदिति भावेन तत्तात्पर्यमाह अत्रेति । अप्रयोजकत्वरूपपूर्वपक्ष्युक्तहेतुदूषणस्यापि सूत्रसूचितत्वलाभायाह सप्तम्यर्थ इति । प्रतियोगे पञ्चम्यास्तसिरिति पञ्चम्यन्तात्तद्विधानात्कथमत्र सप्तम्यन्तात्तसिरित्यत आह आद्यादिभ्य इति । आद्यादेराकृतिगणत्वात्स्थानभेदशब्दस्याप्याद्यादित्वमिति भावः । भाष्ये भेद इत्यंशस्योत्सूत्रत्वपरिहारायाह भेद इति वदतेति ।

***परिमल ***

न स्थानतोऽपि परस्य । स्थानत इति सौत्रपदानुवादः । पृथिव्याद्युपाधियोगादिति व्याख्या । नेति सौत्रनञार्थानुवादः मैवमिति । सूत्रान्तरं च पठित्वा तदर्थमनुवदति न भेदादित्यादिना (भेदेनेति विवाची भेदशब्दः) । पृथिव्यामित्यादिनेति । अत्रादिशब्दस्य तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शरीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेत्यादिनेत्यर्थः । (मम शरीरस् तेजोमयोषऽमृतमयः पुरुषोऽयमेव स योऽयमध्यात्मेत्यादिना) । तथा च भेदोपदेश औपाधिक एव वाच्य इति भावः ॥ सर्वशरीरेष्विति । स एव चेति सूत्रार्थपरेण नान्यः कर्ताऽस्य कश्चनेत्यनेन प्राप्तत्वात् । सर्वशरीरेषु प्रवर्तयति इत्युक्तमित्युक्तम् । प्रतिशरीरं दक्षिणाक्ष्यादि इत्यादि तु देहयोगाद्वासोऽपीत्यादिना जाग्रदाद्यवस्थाप्रेरकत्वोक्त्या प्राप्तम् । ‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजस’ इत्यादेरिति भावः । स एव च कर्मानुस्मृतिशब्दविधिभ्य इति सूत्रे सार्वत्रिकसार्वकालिकसर्वपुरुषेषु स एक एव सर्वावस्थानां प्रवर्तक इति कथमुक्तमित्यर्थः ॥ अत्रेति । सूत्र इत्यर्थः । सप्तम्यर्थ इति । सूत्रे भाष्ये च स्थानभेदे सत्यपीत्यर्थे ‘प्रतियोगे पञ्चम्यास्तसिरि’ति सूत्रे आद्यादिभ्य इति वार्तिकेन तसिरित्यर्थः ।

यादुपत्यम्

ॐ न स्तानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ न निर्विमेवेत्यनन्तरमेकरूपमेवेति शेषः । ‘यश्चायमस्यां पृथिव्यामित्यादिने’त्यत्रादिपदेन ‘तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मे’त्यादिवाक्यसङ्ग्रहः । ततश्च भेदोपदेशस्यौपाधिकपरत्ववर्णनमेव न्याय्यमिति भावः ॥ सर्वशरीरेष्वित्यादि । स्वप्नाद्यवस्थाप्रवर्तकत्वोक्त्येदमप्यर्थादुक्तमेवेति भावः ।

श्रीनिवासतीर्थीया

ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हीति ॐ ॥ अन्यदन्यथेति । तथा च स्वत एकस्योभयरूपत्वमुपाधिरपि न सम्पादयतीत्यर्थः । तर्हि किमुपाधिकृत्यमत आह किन्त्विति ॥ तत्प्रसङ्गोऽपीति । तारतम्यानुग्राह्यनुग्राहकभावयोः प्रसङ्ग इत्यर्थः ।

वाक्यार्थरत्नमाला

न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ ॥ मूलस्य शाङ्करभाष्यसङ्ग्रहरूपत्वाद्भाष्योक्तरीत्यैव हेतूनुपपादयति । एकस्य वस्तुन इत्यादिना । उपदिश्यमानाकारणां भिन्नत्वादित्यर्थ इति । ततश्च सवित्वं प्राप्तमिति केवलनिर्वित्वायोग इति भावः । एतदनन्तरं न च परस्य ब्रह्मण इत्यादीत्याशयादित्यन्तं ग्रन्थपाठः स्वरसः ।

सन्ध्ये सृष्टिराहहीत्यादौ स्वप्नाद्यवस्थाप्रवर्तकत्वमात्रोक्तावपि सर्वशरीरेषु दक्षिणाक्ष्यादिस्थानेषु च तदनुक्तेः कथमयं तत्सूत्रोक्तार्थानुवाद इत्यतस्तत्सूत्रे सर्वशरीरादिस्थत्वस्य वचनतः प्राप्त्यभावे स्वप्नाद्यवस्थाप्रवर्तकत्वान्यथानुपपत्यैव प्राप्तिसद्भावान्नानुपपत्तिरित्याह । तदभाव इति । सर्वशरीरादिस्थत्वाभाव इत्यर्थः । तेषु तेषु शरीरेषु स्थितत्वाभावे तत्तच्छरीरेऽवस्थाप्रवर्तकत्वायोगः । दक्षिणाक्ष्यादिस्थानगतजीवस्य जाग्रदाद्यवस्थानां प्रवर्तकस्य तत्स्थनस्थित्यभावेन तत्प्रवर्तकत्वायोग इत्यतः सर्वशरीरादिस्थत्वं लब्धमित्यर्थः । पूर्वपक्ष्युक्तयुक्तीति । स्थानभेदरूपयुक्तीत्यर्थः । पञ्चम्यन्तात्तद्विधानादिति । तच्छब्देन बुद्धिप्रकृतस्य तसेः परामर्शः । ‘‘प्रतियोग’’ इति सूत्रे प्रकृततया तसिपरामर्श इत्याहुः । आदिमध्यपार्श्वपृष्टादिभ्य उपसङ्ख्यानमित्यस्य सङ्ग्रहो ‘‘आद्यादिभ्य उपसङ्ख्यान’’ इति ग्रन्थकारैरभिधीयते । आकृतिगणश्चायमिति काशिकोक्तेराद्यादेराकृतिगणत्वमिति भावेनाह । आद्यादेरिति ।