०१ रामानुजमतविमर्शः

ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ

॥ अथ कर्मानुस्मृत्यधिकरणम् ॥

रामानुजमतविमर्शः

ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ

सुधा

॥ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ केचिदेवं व्याचक्षते । सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवः किं स एवोत्तिष्ठत्युतान्योऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव ब्रह्मणैकीभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते । स एवोत्तिष्ठति, यः सुप्तः । कुतः । कर्मसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति । तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पर्यमाह नान्य इति ।

अनुव्याख्यानम्

॥ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥

नान्यः कर्ताऽस्य कश्चन ॥ ३२६ ॥

स्वप्नादीनां परमेश्वरकृतत्वेऽभिहिते किं देशकालान्तरेऽन्योऽपि कर्ताऽस्त्युतेश्वर एवेति संशये लौकिकेश्वराणां देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते; स एवेश्वरोऽस्य स्वप्नादेः कर्ता न तु देशकालान्तरेऽन्यः कश्चनेत्येष एवार्थोऽत्र प्रतिपाद्यत इति । न हि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयोऽस्ति । न च सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्टं वा परस्येति यत्किञ्चिदेतत् । लाघवार्थं क्रमोल्लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् । सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ॥ ३२६ ॥

वाक्यार्थचन्द्रिका

ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ कर्मेति । यद्धि द्य्वहादिनिर्वर्तनीयमेकस्य पुसंश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्य परेद्युः शेषानुष्ठानदर्शनादित्यर्थः । न ह्यन्येन समीकृतस्य कर्मणः क्रियां निर्वर्तयितुमन्योऽर्हति । अतिप्रसङ्गात् । तस्मादेक एव द्य्वहादिनिर्वर्तनीयकर्मणः पूर्वेद्युरपरेद्युश्च कर्तेति गम्यत इति भावः ॥ प्रत्यभिज्ञानादिति । योऽहमतीतेऽहन्यदोऽद्राक्षं तदिदमिति प्रत्यभिज्ञानं चात्मान्तरोत्थाने नावकल्पते । अन्यदृष्टस्यान्येन स्मर्तुमशक्यत्वादिति भावः ॥ शब्देभ्य इति । स्वापप्रबोधाधिकारपठितेभ्यः पुनः ‘प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवाहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति त इह व्याघ्रो वा सिंहो वे’त्यादिशब्देभ्य इत्यर्थः ॥ विधिभ्यश्चेति । कर्मविद्याविधिभ्यश्चेत्यर्थः । तदुपपादयति सुप्तस्येति । यः सुप्तः स एवोत्तिष्ठतीत्यङ्गीकार्यम् । अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युर् अन्योत्थानपक्षे हि सुप्तमात्रं मुच्यत इत्याद्यापद्यते । एवञ्च किं कालान्तरफलकेन कर्मणा विद्यया वा कृतं स्यादिति भावः । परपक्षेऽधिकरणाङ्गसंशयासम्भवमुक्त्वा पूर्वपक्षानुत्थानमप्याह न च सुप्तस्येति ॥ इष्टं वेति । विशिष्टयोरैक्यस्य परेणानङ्गीकारादिति भावः । ननु स एवेति पूर्वाधिकरणस्य पूर्वं तात्पर्यमभिधायानन्तरं तदुत्तरस्य मुग्धेऽर्धसम्पत्तिरित्यधिकरणस्य तात्पर्यकथनमुचितम् । तत्कथमनन्तरस्य पूर्वं तात्पर्यमभिधाय पूर्वस्याधिकरणस्य पश्चात्तात्पर्यकथनमिति भाष्यकारीयं क्रमोल्लङ्घनमित्यत आह लाघवार्थमिति । एकेन वाक्येनाधिकरणतात्पर्यकथने उक्तिलाघवादिति भावः । एवं तर्हि सूत्रकृताऽप्येवमेवाधिकरणद्वयपौर्वापर्यस्याश्रयितुं शक्यत्वात्किमिति व्यवधानं कृतमित्यत आह सूत्रकृता चेति ॥ ३२६ ॥

***परिमल ***

तच्छब्दपरामृष्टं दर्शयति यः सुप्त इति ॥ कर्मशेषेति । पूर्वेद्युरुपक्रान्तकर्मणो यः शेषस् तस्य परेद्युः समापनात्, योऽहं सुप्तः सोहं प्रबुद्ध इति प्रत्यभिज्ञानात् । ‘प्रतिन्यायं प्रतियोन्या द्रवति बुद्धान्तायैवे’त्यादिशब्देभ्य इत्यर्थः । विधिभ्य इत्येतदस्फुटत्वाद्य्वनक्ति सुप्तम्येति । परोक्तं कुतोपव्याख्येत्यत आह न हि यः सुप्त इति ॥ इष्टं वेति । तथात्वे पुनरुत्थानायोगादिति भावः । लाघवार्थमिति । मुग्धेऽर्धसम्पत्तिरित्यस्य स एव चेत्येतदनन्तरभावित्वेऽपि सुषुप्तिबोधमोहांश्चेति पूर्वमेव तत्सूत्रतात्पर्यवर्णनं स एव चेत्यस्य नान्यः कर्तेति पश्चादेव तात्पर्यकथनमित्येवं सूत्रकारक्रमोल्लङ्घनं सुषुप्तिबोधमोहांश्चेति उक्तिलाघवार्थमित्यर्थः ॥ व्यवधानमिति । स एव चेत्येतदानन्तर्यं मुग्ध इत्यस्येत्यर्थः ॥ ३२६ ॥

यादुपत्यम्

ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ कर्मसमापनादिति । यद्धि द्य्वहादिनिर्वर्तनीयमेकस्य पुंसश्चोदितं कर्म तस्य पूर्वेद्युरनुष्ठितस्य परेद्युः समापनादित्यर्थः । न ह्यनेन असमापितस्य कर्मणः क्रियायामन्यः प्रवर्तितुमुत्सहेतेऽतिप्रसङ्गादिति भावः ॥ प्रत्यभिज्ञानादिति । यः पूर्वेद्युः सुप्तः सोऽहमस्मीति प्रत्यभिज्ञानादित्यर्थः ॥ शब्देभ्य इति । स्वापप्रबोधाधिकारपठितेभ्यः ‘पुनः प्रतिन्यायं प्रतियोन्या द्रवति बुद्धान्तायैव सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति त इह व्याघ्रो वा सिंहो वेत्यादिशब्देभ्यश्चेत्यर्थः । अयनमायो, नि नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां बुद्धान्तायाद्रवति आगच्छति । प्रतियोनि यो हि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन्स व्याघ्र एव भवति न जात्यन्तरम् । तदिदमुक्तं त इह व्याघ्रो वा सिंहो वेत्यादीत्येतद्वाक्यार्थस्त्पक्षे भामत्युक्तोऽवगन्तव्यः । विधिभ्य इत्युक्तं विवृणोति सुप्तस्येति । अयं भावः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापन्नम् । एवं चेत्किं कालान्तरभाविफलकेन कर्मणा विद्यया वा । ततश्चानर्थका एव कर्मविद्याविधयः स्युरिति ॥ प्रमाणदृष्टमिष्टं वेति । येनोक्तरीत्या पूर्वपक्षोत्थानमुपपन्नं स्यादिति भावः ॥ लाघवार्थमिति । एकेनैव वाक्येनोक्तिलाघवायेत्यर्थः ॥ ३२६ ॥

श्रीनिवासतीर्थीया

ॐ स एव कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ केचिद् रामानुजाः । उत्तिष्ठति बहिः पुनरागच्छति ॥ उदबिन्दोरिवेति । समुद्रे क्षिप्तो य उदबिन्दुः स एव पुनर्नागच्छति । अपि त्वन्यो यथेत्यर्थः । अनियमः स वाऽन्यो वेत्यर्थः । समापनादिति । तथा च कर्मसमापनार्थं तस्यैवागमनमङ्गीकार्यम् । प्रत्यभिज्ञा तु योऽहं सुप्तः स एवाहमिदानीं जाग्रदस्मीत्येवंरूपा । अन्यस्यैव उत्थाने एवं प्रत्यभिज्ञा न युक्तेत्यर्थः । शब्देभ्य इति । स्वापात्प्रबोधप्रकरणे पठितेभ्यः ‘प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताये’त्यादिशब्देभ्य इत्यर्थः । विधिभ्य इत्युक्तहेतुमुपपादयति सुप्तस्येति । यागादिना स्वर्गाद्यभिधायकानां विधीनामनुपपत्तिः । स्वर्गं गन्तुरभावात् । यागं कृत्वा सुप्तौ मुक्तत्वस्यैव प्राप्तेरिति भावः । ब्रह्मणैकीभूतस्योद्धरणासम्भवादित्युक्तपूर्वपक्षोत्थानमेवायुक्तमित्याह न च सुप्तस्येति । परस्य त्वत्पूर्वपक्षिणो मायावादिनः ॥ इष्टं वेति । सुप्त्यवस्थावतो जीवस्याविशिष्टत्वेन तस्य विशिष्टभूतप्रज्ञारूपब्रह्मैक्यं तन्मते नेष्टमित्यर्थः । ननु स एव चेत्यधिकरणव्याख्यानानन्तरं मुग्धेऽर्थे सूत्रं व्याख्यातव्यम् । अतो मोहांश्चेति मुग्ध इति सूत्रमादौ व्याख्याय नान्य इति स एवेति सूत्रं व्याख्यायते । अतः क्रमोल्लङ्घनं कुत इत्यत आह लाघवेति । भगवतः सुषुप्त्याद्यवस्थाप्रेरकत्वमेकोक्त्या वक्तुमित्यर्थः । सूत्रकारस्यापि स एव चेति । सूत्रेण व्यवधानं कृत्वाऽन्ते मुग्ध इति मोहस्य भगवदधीनत्वकथने किं निमित्तमित्यत आह सूत्रकृता चेति । यदि व्यवधानमकृत्वा स्वप्नाद्यवस्थानिरूपणानन्तरमेव मोहावस्था निरूप्येत । तदा तद्वदेषाऽपि स्वतन्त्रावस्थेति विज्ञायेत । सा मा विज्ञायीति व्यवधानं कृतमित्यर्थः ॥ ३२६ ॥

वाक्यार्थरत्नमाला

ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ तथा हि पूर्वेद्युरनुष्टितस्येत्यादिभाष्यं यद्धि द्य्वहादिनिवर्तनीयमित्यादिभामतीं च मनसि निधाय व्याचष्टे । यद्धि द्य्वहादीत्यादि । प्रतिन्यायमिति । अयनमायः नियमेन गमनं न्यायः । जीवाः प्रतिन्यायं संप्रसाद इत्यादिभामत्यां च कल्पतरौ च श्रुत्यर्थो ज्ञेयः ॥

॥ इति कर्मानुस्मृत्यधिकरणम् ॥