०१ सुषुप्त्यादीनि ईशाधीनानि

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ

॥ अथ सुषुप्तिबोधमोहाधिकरणानि ॥

सुषुप्त्यादीनि ईशाधीनानि

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ

सुधा

॥ ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥ ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चोपेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाह सुषुप्तीति ।

अनुव्याख्यानम्

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥

ॐ अतः प्रबोधोऽस्मात् ॐ ॥

ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥

सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ॥

जीवं नयति जीवेशो ॥ ३२२ ॥

सुषुप्तिबोधादेः कारणान्तरदर्शनात्कथमेतदित्यत उक्तं स्ववशस्तद्वशमिति । स्वतन्त्रोऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः । एतच्च भाष्यादौ स्पष्टम् ॥ ३२४ ।५।७ ॥

वाक्यार्थचन्द्रिका

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥ ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ॥ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितमिति । यद्यप्यासु तदा नाडीषु सुप्तो भवति, पुरीतति शेते, सति सम्पद्येति जीवस्य सुषुप्तिस्थानतया श्रुतानां नाडीपुरीतदात्मनां किं विकल्पः किंवा समुच्चय इति सन्देहे सर्वत्र सप्तमीश्रुत्या नाड्यादीनामेकनिलयनार्थत्वसिद्धेरेकार्थानां च व्रीह्यादीना‘मेकार्थस्तु विकल्पेरन्नि’त्यधिकरणे विकल्पस्य निश्चितत्वादेकार्थानां नाड्यादीनामपि विकल्पेन कदाचित्किञ्चित्स्थानं जीवः स्वापायोपसर्पतीत्येवं प्राप्ते‘एवमेषोष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यते’ इत्युक्तरीत्या नित्यवदाम्नातानां पाक्षिकत्वस्यागतिकगतित्वेन समुच्चयासम्भव एव कल्प्यत्वात् । प्रासादे शेते, पर्यङ्के शेते इत्येवमादिषु समुच्चयेऽप्येकविभक्तिनिर्देशदर्शनेन तन्मात्रेणैकार्थत्वासिद्धेर्नाड्यादिद्वारा ब्रह्मसम्पत्त्यभ्युपगमेन गङ्गया सागरं गच्छतो गङ्गायामपि गतत्ववन्नाडीद्वारा ब्रह्मोपसर्पतोऽपि नाडीषु सुप्तत्वावश्यम्भावात् । समुच्चयेऽप्येकस्य नाड्यादिरूपानेकस्थानेषु सुप्तिसम्भवात्स्थानतया श्रुतानां नाड्यादीनां समुच्चय इत्याद्यसूत्रे निष्टङ्कितम् । तथा द्वितीयेऽपि कुत एतदागादित्यस्य प्रश्नस्य प्रतिवचनावसरे नाड्यादीनां विकल्पेन सुप्तिस्थानत्वात् । कदाचिन्नाडीभ्यः प्रतिबुद्ध्यते कदाचित्पुरीततः कदाचिदात्मन इत्येव वक्तव्यतया ‘यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणा’ इत्यादिना नित्यवदेवास्मादात्मनः प्रबोधस्य स्वापाधिकारेऽवक्तव्यत्वापत्त्या तदुक्त्यन्यथाऽनुपपत्त्या सुषुप्तिस्थानानां समुच्चय एवेति निष्टङ्कितम् । तृतीये तु जागरणं सुप्तिः स्वप्नो मरणं चेति चतसृणामेवावस्थानां श्रुतिप्रसिद्धत्वात्तद्विरोधेन मूर्छाया अवस्थाचतुष्टयभिन्नावस्थात्वानुपपत्तेश्चतसणामेवावस्थानामन्यतमा मूर्छेति प्राप्ते, इन्द्रियैर्विषयेक्षणाभावान्मूर्छाया जागरावस्थात्वस्य निःसंज्ञकत्वेन स्वप्नावस्थात्वस्य, प्राणोष्मणोर्भावान्मरणावरणावस्थात्वस्य, सुषुप्तिप्रययोजनकारणलक्षणविलक्षणप्रयोजनकारणलक्षणवत्त्वान् मोहस्य सुषुप्त्यवस्थात्वस्य चासम्भवात्पञ्चम्येवावस्था मूर्छेति सिद्धान्तितम् । न तु जीवब्रह्मणोरेकत्वं सूत्रत्रये व्युत्पादितमिति तथोक्तिरयुक्तेत्यापाततो भवति । तथापि ब्रह्माधारत्वमस्य नाधाराधेयभेदाभिप्रायेणोच्यते । किन्तर्हि तादात्म्याभिप्रायेणैवेति भाष्यवचनाज्जीवस्य ब्रह्मत्वमेव ब्रह्माधारत्वमिति भामतीवचनाच्चात्रवर्णिताया ब्रह्मसम्पत्तेर्ब्रह्मैक्यरूपत्वस्थित्या तथोक्तिरिति द्रष्टव्यम् ॥

सूत्राक्षराप्रतीतमिति । सूत्रे तद्वाचकशब्दाभावादिति भावः ॥ तद्विरुद्धं चेति । आद्ये आधारत्वार्थकेनात्मनीत्यनेन, द्वितीये चापादानत्वार्थकेनास्मादित्यनेन, तृतीये च सम्बन्धबोधकेन सम्पत्तिशब्देन विरुद्धम् । तेषां भेदाविनाभूतार्थप्रतिपादकतया भेदप्रत्यायकत्वादिति भावः । सुप्तिप्रबोधादेरित्यादिपदेन मोहपरिग्रहः ॥ कारणान्तरेति । सुप्तिकारणस्य श्रमादेः प्रबोधकारणस्य भेरीताडनादेर्मूर्छाकारणस्य मुसलताडनादेर्दर्शनादित्यर्थः । ननु न प्रमाणेन विनोक्तिमात्रेणार्थसिद्धिरित्यतः पूर्वपक्ष्यभिप्रेतदर्शनरूपप्रमाणाच्छादकानि ‘एष एव सुप्तं प्रबोधयति । एतस्माज्जीव उत्तिष्ठत्येष प्रमातैष परमः’ । ‘मूर्छा प्रबोधनं चैव यत एव प्रवर्तते । स ईशः परमो ज्ञेयः परमानन्दलक्षण’ इति सूत्रसूचितप्रमाणानां भाष्यन्यायविवरणादावुदाहृतत्वान्नेदं प्रतिज्ञामात्रमित्याशयवानाह एतच्च भाष्यादाविति ॥ ३२४ ।५।७ ॥

***परिमल ***

तदभावो नाडीष्वित्यादि ॥ अत्र यज्जीवब्रह्मणोरेकत्वमिति । तदभावः प्रकृतस्वपञ्च्दर्शनाभावः सुषुप्तिरिति यावत् । नाडीष्वात्मनि नाडीद्वारा आत्मनि । ‘पुरीतति शेत इत्यादिश्रुतेः ॥ ‘अतः प्रबोधोऽस्मात्’ । यत आत्मनि सुप्तिर् अतः कारणादस्मादेव प्रबोधः ॥ मुग्धे मोहेऽर्धसम्पत्तिर् आत्मनीति सूत्रार्थानुक्त्वा आत्मनि सम्पत्तिस्तदैक्यमेव जीवस्येति वर्णितमित्यर्थः ॥ सूत्राक्षराप्रतीतमिति । ऐक्याप्रतीतिर्व्यक्तैव विरुद्धत्वं तु आधाराधेयभावादिकथनादिति भावः ॥ कारणान्तरेति । कालादिरूपकारणान्तरेत्यर्थः ॥ ३२४ ।५।७ ॥

यादुपत्यम्

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥ ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ अत्र यज्जीवब्रह्मणोरेकत्वमिति । तदभावो नाडीष्वित्यादिसूत्रत्रयं परेणैवं व्याख्यातम् । तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति । आसु तदा नाडीषु सुप्तो भवतीति क्वचिच्छयते । अन्यत्र तु नाडीरनुक्रम्य श्रूयते । ताभिः प्रत्यवमृश्य पुरीतति शेत इति । तथान्यत्र सता सोम्य तदा सम्पन्नो भवतीत्यादि । तत्र संशयः । किमेतानि नाड्यादीनि परस्परनिरपेक्षया भिन्नानि सुप्तिस्थानानि । आहोस्वित्परस्परापेक्षयैकं सुप्तिस्थानमिति । तत्र परस्परनिरपेक्षतया भिन्नान्येवैतानि स्थानानि सुषुप्तिरूपैकार्थत्वात् । न ह्येकार्थानां व्रीहियवादीनां क्वचित्परस्परापेक्षत्वं दृश्यते । नाड्यादीनां त्वेकार्थता सुषुप्तौ दृश्यते । नाडीषु सुप्तो भवति, पुरीतति शेते, सति सम्पद्य न विदुरिति तत्र तत्र सप्तमीनिर्देशसाम्यात् । तथा च व्रीहियवादिवद्विकल्प एव सुप्तिस्थानानामिति पूर्वः पक्षः । सिद्धान्तस्तु नित्यवदाम्नातानां यत्पाक्षिकत्वं तद्गत्यन्तराभावे कल्प्यम् । यथाहुः । ‘एवमेषोऽष्टदोषोऽपि यद्व्रीहियववाक्ययोः । विकल्प आश्रितस्तत्र गतिरन्या न विद्यत’ इति । न च प्रकृते गत्यन्तरासम्भवः । समुच्चयेऽपि तथोक्तिसम्भवात् । प्रासादे शेते, पर्यङ्के शेत इत्यादौ समुच्चितानामप्येकविभक्तिनिर्देशस्य दर्शनात् । तथेहापि नाडीषु पुरीतति ब्रह्मणि च स्वपितीत्युपपद्यते समुच्चयः ॥ कुतस्तच्छतेः । तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुप्तिस्थानत्वं श्रूयत इति । अतः प्रबोधोऽस्माद् यस्माच्चात्मैव सुप्तिस्थानमत एव कारणान्नित्यवदेवास्मादात्मनः प्रबोधः स्वापाधिकारे शिष्यते । कुत एतदागादित्यस्य प्रश्नस्य प्रतिवचनावसरे यथाऽग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे ‘प्राणा इत्यादिना विकल्प्यमानेषु च सुप्तिस्थानेषु कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित्पुरीततः कदाचिदात्मन इत्यशाशिष्यत् । तस्मादप्यात्मैव सुप्तिस्थानमिति व्याख्यातम् ।

‘मुग्धेऽर्धसम्पत्तिः परिशेषात्’ । चतस्त्रः खल्ववस्थाः प्रसिद्धाः । जागरणं सुषुप्तिः स्वप्नो मरणं चेति । न तु पञ्चमी काचिदवस्था श्रुत्यादौ प्रसिद्धा । तस्माच्चतसृणामेवावस्थानामन्यतमा मूर्च्छेत्येवं प्राप्ते ब्रूमः । न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । इन्द्रियैर्विषयेक्षणाभावात् । नापि स्वप्नावस्थो निस्संज्ञकत्वात् । नापि मृतः प्राणाप्मणोर्भावात् । नापि सुप्तः सुषुप्तिमोहयोः प्रयोजनकारणलक्षणानां विलक्षणत्वात् । श्रमानुत्त्यर्था हि ब्रह्मसम्पत्तिः सुप्तिः । शरीरत्यागार्था तु ब्रह्मसम्पत्तिर्मोहः । श्रमादिनिमिवा हि सुषुप्तिः । मुसलसम्पातादिनिमित्तो मोहः । प्रसन्नवदनत्वादिलक्षणा सुषुप्तिः । मुखनेत्रादिविकारलक्षणा मोह इति । तस्मात्परिशेषादर्धसम्पत्तिरेव मुग्धतेत्यवगच्छामः । निस्संज्ञकत्वात्सम्पन्नः । उक्तवैलक्षण्यादसम्पन्न इतीति । अत्र सूत्रत्रये जीवस्य ब्रह्मसम्पत्तिर्या परेण वर्णिता सा ब्रह्मैक्यरूपैव । ‘ब्रह्माधारत्वमप्यस्य नाधाराधेयभेदाभिप्रायेणोच्यते । किन्तर्हि तादात्म्याभिप्रायेणैवे’ति तेनोक्तत्वात् । भामत्यामपि ‘जीवस्य ब्रह्मत्वमेव ब्रह्माधारत्वमि’त्युक्तत्वाद् अतोऽत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितमित्येतदुपपद्यत इति ज्ञातव्यम् ॥ तत्सूत्राक्षराप्रतीतमिति । ऐक्यवाचकपदाभावादिति भावः ॥ तद्विरुद्धं चेति । आद्यसूत्रे आधारत्वार्थकेनात्मनीत्यनेन द्वितीयसूत्रे चावधित्वार्थकेनास्मादित्यनेन तृतीयसूत्रे सम्बन्धबोधकेन सम्पत्तिशब्देन च विरुद्धम् । तेषां भेदनियतत्वादित्यर्थः ॥ सुप्तिप्रबोधादेरिति । सुप्तितत्प्रबोधमोहानामित्यर्थः ॥ कारणान्तरेति । सुप्तिकारणस्य श्रमादेस्तत्प्रबोधकारणस्य भेरीताडनादेर्मोहकारणस्य मुसलताडनादेश्च दर्शनादित्यर्थः । ननु प्रतिज्ञामात्रेण कथं पूर्वपक्षोपमर्द इत्यत आह एतच्च भाष्यादाविति । आदिपदेन न्यायविवरणं ग्राह्यम् । पूर्वपक्ष्यभिप्रेतदर्शनरूपप्रमाणाच्छादकानि सूत्रसूचितानि प्रमाणानि भाष्ये न्यायविवरणे चाभिहितानीत्यर्थः ॥ ३२४ ।५।७ ॥

श्रीनिवासतीर्थीया

ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ ॥ ॐ अतः प्रबोधोऽस्मात् ॐ ॥ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ ॥ कारणान्तरेति । अतिश्रमभेरीताडनादिरूपेत्यर्थः ॥

॥३२४ ।५।७ ॥

वाक्यार्थरत्नमाला

तदभावो नाडिष्वित्येतत्सूत्रीय तत्रैताः सुषुप्तिविषयाः श्रुतयो भवन्तीत्यादि शाङ्करभाष्यमिह हि नाडी पुरीतत्परमात्मानो जीवस्य सुषुप्त्यावस्थायां स्थानत्वेन श्रूयन्तो तत्र किमेतेषां स्थानानां विकल्प आहो समुच्चय इत्यादि भामतीं च मनसि निधायाधिकरणशरीरं सङ्गृह्याह । आसु नाडिषु सुप्त इत्यादिना । नाडी पुरितदात्मनामिति । नाडी च पुरीतच्च आत्माचेति तेषामित्यर्थः । यथा निरपेक्षा व्रीहियवा इत्यादिभामत्या सूचितमधिकरणसूत्रं स्वयं दर्शितमेकार्थास्तु विकल्पेरन्नित्यधिकरण इति । एवमेवाष्टदोषोपीति । अयमत्र कल्पतरुपरिमलोक्तरीत्या गुरुराजोक्तौ दोषविवेकः । प्रथमं व्रीह्यनुष्टानपक्षे यवशास्त्रस्य प्रतीतप्रामाण्यत्यागः । अप्रतीताप्रामाण्यस्वीकार इति दोषद्वयम् । तथा तत्रैव द्वितीये प्रयोगे यदा यवानुष्ठानं तदा यवशास्त्रस्य प्राक् स्वीकृताप्रामाण्यत्यागः । परित्यक्तप्रामाण्योपादानमिति दोषद्वयम् । तत्रैव प्रयोगे व्रीहिशास्त्रे स्वीकृतप्रामाण्यत्यागः । परित्यक्तप्रामाण्योपादानमिति प्रयोगद्वयं मिलित्वा दोषषट्कम् । पुनस्तृतीयप्रयोगे व्रीह्युपादाने व्रीहिशास्त्रस्य स्वीकृताप्रामाण्यत्यागः । परित्यक्तप्रामाण्यस्वीकार इति प्रयोगत्रयाश्रयणेन व्रीहिशास्त्रे चत्वारो दोषा यवशास्त्रे चत्वारो दोषाः । इत्येवमष्टदोषदुष्टो विकल्प इत्यर्थ इति । ननु प्रामाण्यपरित्यागो नामाप्रामाण्यास्वीकार एव । अन्यानिर्वचनात् । प्रामाण्यस्वीकारोऽपि स एव । निर्दोषे वेदे विपर्यासप्रमितिजनकत्वासम्भवेनाप्रामाण्यस्वीकार इत्यत्राप्रामाण्यशब्दस्य प्रामाण्याभावपरत्वात् । तथाचाद्ययोर्दोषयोर्नभेद इति चेन्न । उभयत्रापि प्रामाण्याभावस्वीकारपर्यवसितो दोषः । तस्य च दोषत्वबीजं द्विविधम् । प्रामाण्ये प्रामाण्यस्य निर्दोषत्वादेः सद्भावरूपम् । प्रामाण्याभावेऽप्रामाण्यस्य प्रामाण्यानुपलम्भस्याभावरूपं चेति । एवं च भावप्रमाणसद्भावोपाधिकतया स आद्यो दोषो ऽभावप्रमाणाभावोपाधिकतया स एव द्वितीयो दोष इति उपधाभिधेन दोषद्वैविध्यं विवक्षितम् । तदेतत्

प्रमाणत्वं प्रतीतं यदुज्वलं तदुपह्नुतम् ।

एकस्तावदयं दोषः स्यात्प्रमाणविपर्ययात् ।

तथा तदप्रमाणत्वं यदभावप्रमाणकम् ।

भावे सत्यप्यभावेन विनैव परिकल्पिते ।

इति वार्तिके स्पष्ठम् । अत्राद्यश्लोके प्रमाणविपर्ययादित्यनेन प्रामाण्यसद्भावविषयकप्रमाणविरोध इत्यर्थकेन प्रामाण्ये प्रमाणसद्भावमूलकप्रामाण्याभावस्वीकारस्य दोषत्वं दर्शितम् । द्वितीयश्लोकेन तु अभावप्रमाणाभावमूलकं तद्दोषत्वं दर्शितम् । तच्छ्लोकस्य हि अयमर्थः । यथा प्रामाण्यपरित्यागो दोषः । तथा तदप्रमाणत्वमपि दोषः । यद् यस्मात् हेतोर् अभावप्रमाणकं प्रामाण्यानुपलब्धिरूपाभावप्रमाणग्राह्यप्रामाण्याभावरूपमप्रमाणत्वम् । भावे सत्यपि प्रामाण्योपलम्भरूपे भावे विद्यमानेऽपि तस्याभावेन विनैव कल्प्यते । ततो हेतोर्द्वितीयदोष इति । नाडीपुरीतत्परमात्मसुस्वापविकल्प इत्यङ्गीकारेऽष्टदोषोपपादनं विस्तरेण भामत्यादौ कृतमस्ति । सामान्येन मिथ्यात्वश्रुतिनिरासे न्यायामृततरङ्गिण्यां च । समुच्चयेऽपीति । उपलक्षणं चैतत् । नानार्थेष्वित्यपि द्रष्टव्यम् । नानार्थत्वसमुच्चययोरपीति भाष्योक्तेः । एकार्थत्वस्य निराकार्यत्वेन प्रसक्तत्वाच्च । एकार्थत्वासिद्धेरिति । नाडीपुरीतति सतीति च सप्तमीनिर्देशस्य तुल्यत्वेन खलु स्वापरूपैकार्थत्वमानीय व्रीहियववद्विकल्प आश्रयणीयः । न च प्रकृते तुल्यत्वेऽप्येकार्थमायाति । सप्तमीनिर्देशे समानेऽपि प्रासादे शेते पर्यंके शेते इत्यादौ शयनार्थपर्यंकावस्थानार्थमेव प्रासादस्यापेक्षणेन शयनार्थत्वस्य प्रसादेऽभावेनैकार्थत्वाभावेन सप्तमीनिर्देशस्य व्यभिचारित्वेन तैनैकार्थत्वासिद्धेरित्यर्थः । द्वितीयेऽपीति । अतः प्रबोध इति द्वितीयसूत्रेऽपीत्यर्थः । भाष्यमात्रमनुसृत्याह । कुत एतदित्यादि । सुषुप्तमुत्थाप्य गमनापवं गार्ग्यं प्रत्यजातशत्रुणा पृष्टः कुत एतदागादिति । एतदागमनं कुत आगमनं कुतः । कृतवानित्यर्थः । विकल्पेन सुप्तिस्थानत्वादिति । यदि विकल्पेन सुप्तिरुच्यते तर्हि तत एव कदाचिन्नाडीभ्य इत्यादेरेव वक्तव्यत्वापत्तेत्यर्थः । सर्वेप्राणा इत्यादिनेति । उपलक्षणं चैतत् । सत आगम्य न विदुरित्यपि ग्राह्यम् । इत्यादिनेत्यनन्तरं सत आगम्येति वाक्यस्य भाष्ये उदाहरणात् । सुषुप्तिस्थानानां समुच्चय एवेति । नित्यवदेवास्मादात्मन इति पूर्वोपपादनानुसारेण तस्मादप्यात्मैव सुप्तिस्थानमिति भाष्यानुसारेण चात्मैव सुप्तिस्थानमित्येव फले कथनीये स्थानसमुच्चयाभिधानं पूर्वसूत्रनिर्णयानुसारेणात्मनः स्थानत्वं प्रतिपत्तव्यम् । नविस्मर्तव्यम् । परंपरया स्थानत्वस्यात्याज्यत्वात् । आत्मैवेति भाष्यमपि साक्षादित्यर्थकतया योज्यमिति ग्रन्थभावं प्रकटीकर्तुं फलतस्तु आत्मैव सुप्तिस्थानम् इत्येवार्थ इति सन्तोष्टव्यम् । तृतीय इति । मुग्धेऽर्धसंपत्तिरिति तृतीयसूत्रे । अस्ति मुग्धो नामेत्यादिभाष्यानुसारेण संगृह्याह । जागरणं सुप्तिरित्यादि । सुप्तिमोहयोरपि प्रयोजनभेदात्कारणभेदादित्यादि भामत्यनुसारेणाह । सुषुप्तिप्रयोजनेति । भाष्यवचनादिति । तदभावो नाडीष्विति सूत्रीयभाष्यवचनादित्यर्थः । उपपादितं च भाष्ये स्वरूपमापन्नः सुप्तोभवतीत्यर्थ इत्यादिनेति भावः ॥

॥ इति सुषुप्तिबोधमोहाधिकरणानि ॥