०१ स्वाप्नतिरोधानमपि ईश्वरेच्छाधीनम्

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ

॥ अथ पराभिध्यानाधिकरणम् ॥

स्वाप्नतिरोधानमपि ईश्वरेच्छाधीनम्

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ

सुधा

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ परकृतस्यापव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाह ईशेति ।

अनुव्याख्यानम्

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ।

ईशेच्छयाऽन्तर्दधति ……. …….

सन्ध्यमिति शेषः । न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थोऽनेन सूत्रेणोच्यते नान्यः । जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीयेऽभिहितत्वात् । न च ज्ञानैश्वर्य शक्ती ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते । किञ्च देहयोगात्तिरोहितमित्येतावताऽलम् । अन्यदसङ्गतमेव । किञ्च देहयोगश्चेत्तिरोधानहेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् । अविद्याद्युपलक्षणमेतदिति चेद् अथ तथैव किन्नोक्तमित्यास्तां विस्तरः । यदि स्वप्नोऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरित्यत आह व्यज्यते चेति ।

अनुव्याख्यानम्

…………. व्यज्यते च पुनस्तया ।

एतेन परकीयं बाधकथनं निरस्तम् । व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतोऽधिकरणद्वयार्थमुपसंहरति सृष्ट्वैवेति ।

अनुव्याख्यानम्

सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ॥

वासनामात्रतां तस्य नीत्वाऽन्तर्धापयत्यजः ॥ ३२२ ॥

एवशब्देनारोपं वारयति । दर्शयित्वेत्यपि द्रष्टव्यम् । तस्य च वासनामात्रतां नीत्वा कृत्वा । अन्यथा द्वितीया स्यात् । अन्तर्धापयति अदर्शनं गमयति । तस्य जीवस्य वासनाभिरिति वा । तस्यान्तर्धापयतीति वा ॥ ३२२ ॥

वाक्यार्थचन्द्रिका

॥ ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ईश्वरांशताया इति । ईश्वरेण भिन्नाभिन्नत्वरूपतदंशताया इत्यर्थः ॥ द्वितीय इति । (द्वितीयेऽध्याये) अंशाधिकरणे ‘भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः’ इत्यादिनेति शेषः ॥ न चेति । नापीत्यर्थः ॥ परेणेति । तत्त्वतो निर्धर्मकब्रह्मवादिनेत्यर्थः । सोपाधिकत्वेन निरुपाधिकब्रह्मस्वरूपताया असम्भवादतिरेके च तात्त्विकाद्वैतभङ्गप्रसङ्गादिति भावः ॥ एतावताऽलमिति । तावतैव त्वदुपवर्णितपूर्वपक्षनिरासादिति भावः । अन्यदिति । पूर्वसूत्रे पराभिध्यानादित्यादेरुत्तरसूत्रेऽपि वासोऽपीत्यस्य प्रकृतेन सङ्गत्यभावादित्यर्थः । किञ्च देहसम्बन्धमात्रं तिरोधानहेतुरभिमानो वा । नाद्यः । यथा कथञ्चिद्देहसम्बन्धस्य सर्वदा सत्त्वेन कदाऽप्याविर्भावाभावप्रसङ्गादिति भावेन ‘द्वितीयं’ दूषयति किञ्चेति । देहयोगो देहाभिमानः । तत्र तिरोधानहेतोर्देहाभिमानस्याभावादिति भावः ॥ तथैव किन्नोक्तमिति । तथा च स्वायवन्यायविरोध इति भावः । अस्वतन्त्रप्रयोगत्वान्न प्रयोजनापेक्षेत्यत आह आस्तामिति । तदर्थस्तु तथा सति स्वायत्तन्यायवार्तोच्छिद्येत । सर्वत्राप्यस्वतन्त्रप्रयोगत्वेन प्रयोजनानपेक्षत्वस्य वक्तुं शक्यत्वादिति ॥ एतेनेति । पुनः पुनर्व्यक्तितिरोधानकथनेनेत्यर्थः । बाधकथनं (स्वप्ने दृष्टं क्षणेनान्यथोपलभ्यत इति बाधकथनमित्यर्थः) आद्यन्तयोर्व्यभिचारदर्शनादित्यादिनोक्तम् । अनेन तत्परिणामितामावेदयतीति वक्ष्यत इत्युक्तं विवृतं भवति । (न ज्ञायते व्यक्तितिरोधानशब्दार्थो न ज्ञायते) ॥ नीत्वा कृत्वेति । धातूनामनेकार्थत्वादिति भावः । कुतोऽत्र प्रसिद्धार्थपरित्याग इत्यत आह अन्यथेति । प्रापणार्थत्व इत्यर्थः । प्रापणार्थस्य नयतेर्यत्कर्म तद्युक्तस्यापि ‘अकथितं चे’त्यनेन कर्मसंज्ञाविधानेन ‘द्वारकामनयद्बन्धूनि’त्यादाविवोभयत्रापि द्वितीयावश्यम्भावात् तं वासनामात्रतां नीत्वेति तच्छब्देऽपि द्वितीयाप्रसङ्गादिति भावः । नयतेः प्रापणार्थत्वेऽपि न तच्छब्दे द्वितीयाप्रसङ्गः । तस्य वासनाभिरित्यादिपदान्तरेणैव सम्बन्धाभ्युपगमेन नयतिकर्मयोगाभावेनाकथितं चेत्यनेन कर्मत्वाप्रसङ्गात् । न च द्विकर्मकत्वानुपपत्तिः । प्रपञ्चं वासनामात्रतां नीत्वेति प्रपञ्चमित्यस्यावृत्त्याश्रयणेन तदुपपत्तिरित्याशयेनाह तस्य जीवस्य वासनाभिरिति वेति । अत्र पक्षे तस्येत्यस्यातिव्यवहितान्वयो भवतीत्यपरितोषात्सन्निहितान्वयमेवाश्रित्यापि द्वितीयाप्रसङ्गं परिहरति तस्यान्तर्धापयतीति वेति ॥ ३२२ ॥

***परिमल ***

पराभिध्यानात्तु ॥ नान्य इति । जीवस्य ब्रह्माभेदेऽपि ज्ञानैश्वर्यसामर्थ्यं तिरोहितमित्यादिरूपोऽर्थो नेत्यर्थः । ईश्वरांशताया ईश्वरस्वरूपांशतायाः ‘अंशो नानाव्यपदेशादि’त्यत्राप्रामाणिकत्वस्याभिधानादिति भावः । ब्रह्मणोऽपि ज्ञानादिशक्तिर्न वास्तवी । येन तदभिन्नजीवस्यापि तदाशङ्क्य तिरोधानं ब्रूयादित्याह न च ज्ञानैश्वर्येति । सोपि ज्ञानादितिरस्कारोऽपि जीवस्य देहयोगादेवेति परेण सूत्रार्थकथनात् तत्रोपयुक्तांशमुक्त्वान्यदयुक्तमित्याह किञ्च देहेति ॥ बाधककथनमिति । स्वप्ने दृष्टं वस्तु क्षणेनान्यथोपलभ्यत इति बाधककथनमित्यर्थः । नीत्वेत्यनुवादेनार्थमाह कृत्वेति । धातूनामनेकार्थत्वादिति भावः । कुत एवं व्याख्येत्यत आह अन्यथेति । प्रापणार्थत्वे नीञ् प्रापण इत्यस्य द्विकर्मकत्वात्सुषुप्त्यादीन् जीवं नयतीत्युत्तरवाक्य इव वासनामात्रतां नीत्वेति द्वितीया स्यात्, तस्येति षष्ठीं न स्यादित्यर्थः । नयतेः कृत्यर्थत्वाप्रसिद्धेः प्रकारान्तरेण द्वेधा योजयति तस्य जीवस्येति ॥ ३२२ ॥

यादुपत्यम्

ईश्वरांशताया इति । ईश्वरस्वरूपांशताया इत्यर्थः ॥ अभिहितत्वादिति । अंशाधिकरण इति शेषः ॥ एतेन परकीयं बाधकथनमिति । ईशेच्छया तथा तथा वासना परिणमत इत्यस्यार्थस्यात्र विवक्षितत्वेन ‘रथोऽयमिति हि कदाचित्स्वप्ने निर्धारित’ इत्यादि परकीयं बाधकथनं निरस्तमित्यर्थः ॥ नीत्वा कृत्वेति । धातूनामनेकार्थत्वादिति भावः ॥ अन्यथेति । प्रापणार्थत्व इत्यर्थः । प्रापणार्थस्य नयतेर्यत्कर्म तद्युक्तस्याप्यकथितं चेत्यनेन कर्मसंज्ञायां कर्मणि द्वितीयेत्यनेन द्वितीयाया विहितत्वात् । ‘द्वारकामनयद्बन्धूनि’त्यादौ द्वारकादिशब्द इवात्रापि तं वासनामात्रतां नीत्वेति तच्छब्दे द्वितीया स्यादिति भावः ॥ तस्य जीवस्येत्यादि । अत्र नयतिः प्रापणार्थ एव । प्रपञ्चमित्यस्यावृत्तिः । तस्यैवाकथितं चेत्यनेन कर्मसंज्ञा, न तच्छब्दस्य, कर्मयोगाभावात् । तथा च प्रपञ्चं वासनामात्रतां नीत्वेति द्विकर्मता तस्योपपद्यत एवेति भावः ॥ ३२२ ॥

श्रीनिवासतीर्थीया

ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ ॥ ‘नन्वग्नेरंशस्ये’त्यादिनोक्तमर्थं दूषयति जीवस्येति ॥ द्वितीय इति । द्वितीयाध्याये ‘अंशो नाने’त्यत्रेत्यर्थः । अन्यत् सोऽपीत्येतत् ॥ तिरोधानेति । ज्ञानैश्वर्यादितिरोधानेत्यर्थः ॥ स्यादिति । तिरोधानहेतोर्देहयोगस्य तदानीमभावादिति भावः ॥ अविद्येति । सूत्रे देहपदमविद्यारूपप्रतिबन्धकपरम् । तथा च सुप्तिप्रलययोरविद्यारूपप्रतिबन्धकस्य सत्त्वात्तदा नाविर्भाव इत्यर्थः ॥ तथैवेति । अविद्यायोगाद्वासोऽपीत्येव कुतो नोक्तमित्यर्थः । न ज्ञायते व्यक्तितिरोधानशब्दार्थो न ज्ञायत इत्यर्थः ॥ अन्यथेति । नयतेः प्रापणार्थत्वे ‘द्वारकामनयद्बन्धून् । अजां ग्राममनयदि’त्यादाविवात्रापि तं वासनामात्रतां नीत्वेति द्विकर्मकतापत्त्या तच्छब्दे द्वितीया स्यान्न षष्ठीत्याशयः ॥ ३२२ ॥

वाक्यार्थरत्नमाला

त्वदुपवर्णितेति । अनुवादावसरे नन्वग्नेरंशस्येत्यादिनोक्तेरित्यर्थः । उक्तमिति । यत्तूक्तं रथोऽयमित्यादि तत्परिणामितामेवावेदयति न बाधमिति वक्ष्यत इति मूले उक्तमित्यर्थः । अनेकार्थत्वादितीति ।

क्रियावाचित्वमाख्यातुमेकैकोऽर्थः प्रदर्शितः ।

प्रयोगतोऽनुगन्तव्या अनेकार्थाहि धातवः ।

इत्युक्तेरिति भावः । द्वितीयाप्रसङ्गादितीति । ततश्च तस्येति षष्ट्यनुपपत्तेरिति भावः । तस्येति । तच्छब्दस्येत्यर्थः । नयतिकर्मयोगेति । नयतेर्यत्कर्म वासनामात्रत्वं तद्योगाभावेनेत्यर्थः । द्वितीयाप्रसङ्गं परिहरतीति प्राचीनपक्षे तस्येत्यस्य वासनाभिरित्यनेन सम्बन्धमुपादाय नयतिकर्मयोगाभाव उक्तः । अत्र च तद्धर्मापयतीति पदान्तरेण सम्बन्धमुपादाय तदभाव उच्यते । द्विकर्मत्वाभावादिकं तु प्रागुक्तरीत्यैवेति स्पष्टमिति तदनुक्तिर्नदोषायेति ज्ञेयम् ।

॥ इति पराभिध्यानाधिकरणम् ॥