निर्मितं त्रातमेव च
मायामात्रपदव्याख्यानम्
निर्मितं त्रातमेव च
सुधा
मायामात्रपदं व्याख्याति निर्मितमिति ।
अनुव्याख्यानम्
……….. निर्मितं त्रातमेव च ॥
ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ॥
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ॥
ताभ्यामेवेति सम्बन्धः । तेन तुशब्दो व्याख्यातो भवति । यथासङ्ख्येनान्वयपरिहारार्थमुक्तं सह पृथगेवेति । चशब्दस्तस्मादित्यर्थे । ईर्यते सन्ध्यमिति शेषः । सह पृथगित्युक्तं विवृणोति उभाभ्यामिति ।
जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात्ततः सह पृथगित्युक्तम् । धातुसमुदायादातोऽनुपसर्गे क इति कः । अदिभूभ्यां डुतजिति यथा । यद्यप्येकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम् । तथाऽप्यधिकार्थलाभायैवं कृतम् । सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः । घञर्थे कविधानमिति वा । नन्विदं पूर्वापरविरुद्धम् । पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम् । इदानीं तु प्रज्ञोपादानकमिति । मैवम् । प्रज्ञाशब्दस्य वासनोपलक्षणत्वात् ।
वाक्यार्थचन्द्रिका
चैवशब्दयोर्विरुद्धार्थकत्वादेकत्रान्वयानुपपत्तेश्चशब्दस्य यथास्थितं सम्बन्धमङ्गीकृत्यैवशब्दं भिन्नक्रमतया योजयति ताभ्यामेवेति ॥ तुशब्द इति । सौत्र इति शेषः ॥ व्याख्यातो भवतीति । अतो न भाष्यस्थैवशब्दस्योत्सूत्रत्वमिति भावः ॥ यथासङ्ख्येनेति । जैव्या निर्मितमैश्वर्या त्रातमिति यथासङ्ख्येनेत्यर्थः ॥ विवृणोतीति । अतो न तस्य वैयर्थ्यमिति भावः ॥ धातुसमुदायादिति । मा निर्माणे त्रैङ् पालन इति धातुद्वयादित्यर्थः ॥ क इति । यद्यपि त्रैङ् पालन इत्यस्य नादन्तत्वं तथाऽप्यादे च उपदेशेऽशितीति कृतात्वस्यादन्तत्वाद्युक्तस्तन्निबन्धनः कप्रत्यय इति भावः । ततश्चोक्तधातुद्वयान्मीयते त्रायत इति कर्म‘ण्यातोऽनुपसर्गे क’ इति कप्रत्यये ‘आतो लोप इटि चे’ति द्वितीयधात्वाकारलोपे मात्रशब्दनिष्पत्तिरिति द्रष्टव्यम् । ननु कथं धातुद्वयादेकः प्रत्ययो व्याख्यायते । परश्चेति सूत्राद्धातोरिति पञ्चम्या च प्रत्ययस्य धात्वव्यवहितपरताया एव प्राप्तत्वात्तस्मादित्युत्तरस्येत्यत्र नैरन्तर्येणोच्चारणार्थकनिर्दिष्टग्रहणानुवृत्त्या पञ्चमीनिर्दिष्टादव्यवहितोत्तरमेव कार्यं भवतीति विज्ञानात् । न हि धातुद्वयात्प्रत्ययोत्पत्तावव्यवहितपरत्वं सम्भवति । मध्ये धात्वन्तरेण व्यवधानात् । धातोरित्येकवचनादपि न धातुद्वयादेकप्रत्ययोत्पत्तिरिति लाभाच्च । विधायकोदाहरणयोरनुपलम्भाच्चेत्यत आह अदिभूभ्यां डुतजिति यथेति । अद्भुतमित्यत्राद्यते भूयते तदद्भुतमिति अद भक्षणे, भू सत्तायामिति धातुद्वयाड् डुतच्प्रत्यये द्वितीयधातोष्टिलोपे च सत्यद्भुतमिति रूपनिष्पत्तिर्यथेत्यर्थः । यदत्र वक्तव्यं तदानुमानिकपाद एवोक्तं तत एव च प्रतिपत्तव्यम् ॥ एकस्मादेवेति । मीयत इति कर्मणि माधातोस्त्रप्रत्ययेऽपि मात्रमिति सिध्यतीत्यर्थः ॥
अधिकेति । तथा सति निर्मितत्वमात्रलाभेऽपि त्रातत्वालाभाद्धातुद्वयात्प्रत्ययाभ्युपगमे च तदुभयलाभादर्थाधिक्यमित्यर्थः । ननु ‘अतोऽनुपसर्गे क’ इत्यनेन कर्तरि कप्रत्ययविधानाद्गोद इति तथैवोदाहरणाच्च कथमत्र कर्मणि तेन कप्रत्ययः स्यादित्यतश्छन्दोवत्सूत्राणि भवन्तीति सूत्राणां छन्दःकल्पत्वस्य ‘व्यत्ययो बहुलमि’ति छन्दसि सर्वविधीनां बाहुलकत्वस्य चोक्तत्वाद्युक्तोऽत्र तेन कर्मणि कप्रत्यय इत्याशयेनाह सौत्रत्वादिति । कर्मणीत्युपलक्षणम् । कर्मण्यनुपपदेऽपीत्यपि द्रष्टव्यम् । अन्यथा कर्मण्युपपद एव कप्रत्ययस्य तेन विधानात्प्रकृते च तदभावात्तेन कप्रत्ययप्राप्त्यनुपपत्तेरिति भावः । आतोऽनुपसर्गे क इत्यत्रानुपसर्गपदस्येव कर्मणीत्यस्याश्रवणाद्वृत्तावप्यनुपसर्गे क इत्यस्येव कर्मणीत्यस्य प्रत्युदाहरणानुक्तेश्च तदनुवृत्तेरनावश्यकत्वाद्युक्तस्तदभावेऽप्यत्र कप्रत्यय इत्याहुः । अत्र पक्षे सौत्रत्वाद्याश्रयणीयं भवतीत्यपरितोषात्पक्षान्तरमाह घञर्थ इति । घञर्थे कविधानं स्थास्नापाव्यधिहनियुद्ध्यर्थमिति ग्रहवृदृनिश्चिगमश्चेत्येतत्सूत्रीयवार्तिके घञर्थे कविधानात्कर्मणोऽपि घञर्थत्वाद्धातुद्वयात्कर्मणि कप्रत्ययो युक्त इति भावः । न च स्थास्नादिष्वपाठात्कथमत्र तेनापि कप्रत्ययः स्यादिति वाच्यम् । पाठमूलभूतशिष्टप्रयोगानुरोधेन पाठोऽपि तत्र कार्यः । अन्यथाऽतिप्रसङ्गादित्यत्र तात्पर्यात् । टीकायां प्रज्ञात्मकं प्रज्ञोपादानमित्येव मूलपाठः स्वरसश्च । चिरन्तनकोशेषु दर्शनात् ।
परिमल
तेन तुशब्दो व्याख्यात इति । मायामात्रं त्विति सौत्रस् तुशब्द एवकारार्थो व्याख्यात इत्यर्थः ॥ धातुसमुदायादिति । मा निर्माणे, त्रैङ् पालन इति धातुद्वयादित्यर्थः ॥ आत इति । आकारान्तेभ्य उपसर्गासहकृतेभ्यो धातुभ्यः कर्मण्युपपदे कप्रत्ययो भवतीति सूत्रार्थः । धातुद्वयात्सहप्रत्ययोत्पत्तौ औणादिकं सूत्रं निदर्शयति अदिभूभ्यामिति । ननु कर्मण्युपपदे कर्त्रर्थे च कप्रत्ययविधानाद् गोदः कंबलद इति तथैवोदाहरणाच्च । प्रकृते च नोपपदं कर्म, नापि कर्ताऽत्र प्रत्ययार्थः । किन्तु कर्म । तत्कथमत्र तेन कप्रत्ययः । तस्य कर्तर्येव विधानादित्यत आह सौत्रत्वान्निर्देशस्येति । मायामात्रमिति निर्देशस्येत्यर्थः । उपलक्षणमेतत् । कर्मकारकोपपादाभावेऽपीति योज्यम् । सूत्राणां छन्दस्तुल्यत्वात्तत्र सर्वविधीनां बाहुलिकत्वादिति भावः । इति वेत्यनन्तरं कप्रत्यय इति शेषः । ‘अकर्तरि च कारके संज्ञायामि’ति सूत्रे कर्तृव्यतिरिक्तकारकं हि घञर्थ उक्तः, तस्मिन्नर्थ इत्यर्थः । तथा च त्रैङ् धातोः कप्रत्यये परतः ‘‘आदे च उपदेशेऽशिती’’ति आकारादेशे ‘‘लशक्वतद्धित’’ इति प्रत्ययककारस्य ‘‘आतो लोप इटि चे’’ति धात्वाकारस्य च लोपे मात्रमति रूपमिति भावः ।
यादुपत्यं
धातुसमुदायादिति । माङ् माने, त्रैङ् पालन इति धातुद्वयादित्यर्थः ॥ आतोऽनुपसर्ग इति । द्वितीयधातोर‘प्यादेच उपदेशेऽशिती’त्यनेनात्वे आकारान्तत्वमित्यवगन्तव्यम् । कप्रत्यये आतो लोप इटि चेति द्वितीयधात्वाकारलोपे मात्रमिति रूपमिति भावः । ननु धातुद्वयादेकः प्रत्ययो न क्वापि दृष्ट इत्यत आह अदिभूभ्यामिति । अद भक्षणे, भूसत्तायामिति धातुभ्यां डुतच्प्रत्ययो भवतीत्युणादिसूत्रार्थः । अद्भुतमित्यत्रोदाहरणम् । अत्रादिभुवो द्रुतजिति पाठकल्पनमज्ञानमूलमिति प्रथमाध्याय एवोक्तम् । ननु गोद इत्यादौ कर्तर्येव कप्रत्ययदर्शनात्कथमत्र स कर्मणीत्यत आह सौत्रत्वादिति । छन्दोवत्सूत्राणि भवन्तीति सूत्राणां छन्दःकल्पत्वस्य ‘बहुलं छन्दसी’ति छन्दसि सर्वविधीनां बाहुलिकत्वस्य चोक्तत्वादिति भावः । घञर्थ इति । घञर्थश्च कर्मापि भवतीति भावः ।
श्रीनिवासतीर्थीया
तुशब्दः सौत्रः ॥ व्याख्यात इति । अवधारणार्थतयेत्यर्थः ॥ यथासङ्ख्येनेति । ‘जैव्युपादानमेव सा निमित्तमैश्वरी’त्युक्तत्वान्निर्मितं त्रातमेव चेत्यत्र जीववासनया निर्मितमैश्वर्या त्रातमित्यन्वयः प्रतीयते । तथात्वे ईश्वरप्रज्ञया निर्मितत्वाप्राप्त्या तन्निर्मितत्वप्रतिपादकश्रुत्यादिविरोधः स्यादित्यर्थः ॥ विवृणोतीति । ‘स्वपदानि च वर्ण्यन्त’ इत्युक्तभाष्यलक्षणसंरक्षणायेत्यर्थः ॥ क इति । कर्मणि कप्रत्यय इत्यर्थः ॥ एकस्मादेवेति । मा निर्माण इत्यस्मादेव ॥ अधिकार्थेति । त्रातमित्यर्थलाभायेत्यर्थः । पूर्वं ‘वासनाः सर्ववस्तूनामि’त्यादिना ।
वाक्यार्थरत्नमाला
चैवशब्दयोरिति । त्रातमेवचेत्यत्रत्ययोरिति शेषः । आनुमानिकपादे मायामात्रपदव्याख्यानरूपमितं त्रातं मायाख्यहरीत्यनुव्याख्यानव्याख्यानमूले माङ्माने त्रैङ् पालन इत्याभ्यां घञर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवतीत्यादिकमुक्तम् । तत्रेव मानपदोक्तज्ञानस्यात्राप्यर्थत्वविवक्षणान्निर्माणस्यैव च विवक्षणात्तदर्थकधात्वन्तरमेव धातुसमुदायादिति सांमुग्ध्येनोक्तावभिप्रेतमित्याशयेन धात्वन्तरमुदाहरति । मानिर्माण इति । द्वितीयधातुस्तु प्राचीनमूलोक्त एवेति तथैव दर्शितः । समुदायोक्तया त्रिचतुरादिभ्रान्तिः स्यात्तां वारयितुं व्याख्यातं द्वयादिति । मीयते त्रायत इतीति । मानिर्माण इत्यत एवात्मनेपदे सार्वधातुके यकि घुमास्थागापाजहातिसां हलीति सूत्रेण यकाररूपे हलादिकिति परतः माधातोराकारस्य दीर्घे मीयत इति रूपं माङ्मान इति धातोरिव मानिर्माण इत्यत्राप्यविशिष्टमेव । यद्यपि मातेरस्य ङित्वाभावा न्नात्मनेपदमत्र भवति । तथापि भावकर्मणोरिति कर्मणि प्राप्तककारस्य स्थाने आत्मनेपदविधानादात्मनेपदं च समानमेवेति द्रष्टव्यम् ।
आतोलोप इटि चेति । किति इटिच परतस्तेनाकारलोपविधानादिति भावः । द्वितीयधात्वाकारेति । न तु प्रथमस्यापि । प्रत्ययस्योभयसम्बन्धित्वेऽपि वजगतौरमुक्रीडायामित्याभ्यां भावे डप्रत्ययस्तद्वान्वज्रीत्यृग्भाष्यटीकाद्युक्तरीत्या धातुद्वयोत्तरप्रत्यययोगनिमित्तकटिलोपादेः प्रथमधातावभाववदत्रापि तदभावोपपत्तेः । माङ्माने त्रैङ्पालन इत्याभ्यां मूलविभुजादित्वात्क इति प्रकृत्यधिकरण तत्त्वनिर्णयटीकोक्तत्वेऽपि द्वितीयधातावेवकारलोपः । यत्र च प्रत्येकं प्रत्यययोगनिमित्तककार्यमावश्यकं तत्र प्रत्येकमेव धात्वाश्रयणेन प्रत्ययोक्तिः । मित्वा त्रातीत्यादिव्याख्यानावसरे तथैवोक्तेः । तत्वनिर्णयटीकादौ आङ्पूर्वकात्तनोतेर्माङ्माने इत्यतश्च डप्रत्ययादौ तत्र तत्र तत्प्रकारेणोक्तानां तत्तदभिप्रायकत्वं तु आनुमानिकपादीयमायामात्रश्रुतिव्याख्यानरूपमितं त्रातमित्याद्यनुव्याख्यानमूलटीकाव्याख्यावसरेऽस्माभिर्निरूपितं तत एव प्रतिपत्तव्यम् ।
परश्चेतीति । धातोर्वा प्रातिपदिकाद्वा यः प्रत्ययसंज्ञकः सपरश्च भवतीति पञ्चमाध्यायमस्तिपर्यन्तमधिकारसूत्रार्थः । कुतोऽव्यवहितपरत्वस्य लाभ इत्यतस्तल्लाभप्रकारं दर्शयति । तस्मादित्युत्तरस्येत्यत्रेति । नैरन्तर्येणेति । निर्दिष्ठग्रहणमानन्तर्यार्थमित्येतत्काशिकाव्याख्यावसरे दिशिरुच्चारणक्रियः । निःशब्दो नैरन्तर्ये । निरन्तरदिष्टो निर्दिष्टः । एवमानन्तर्यमर्थो भवतीति मञ्जर्यामुक्तेरिति भावः । उत्तरमेव कार्यमिति । यद्यपि तस्मादित्युत्तरस्येत्यत्रोत्तरस्य कार्यं भवतीति प्रतिपादितमिति न सर्वांशेऽस्य ज्ञापकत्वं तथाप्यव्यवधाने पूर्वापरीभावमात्रे साधकतयाऽस्योपन्यास इत्यवधेयम् । धातोः पर इत्युक्तेऽप्यव्यवहितपरत्वं नायातीत्यादिदूषणाभासस्योमर्जीकबौद्धोक्तस्य दूषणं तद्बौद्धाधिक्कारेऽस्मत्कृतेऽवधेयम् । प्रथमस्य चतुर्थे लिखितं चैतत्ततएव प्रतिपत्तव्यम् । एकवचनादपीति । पूर्वं धातोरिति पञ्चमीबलेनाव्यवधानमानीतम् । अत्र पुनरेकवचनेनैकस्मादेव प्रत्यय इत्यर्थलाभे धातुद्वयस्थले धात्वन्तरव्यवहितपूर्वधातोरुत्तरप्रत्ययो न सम्भवतीति अव्यवधानमानीतमिति विशेषः । एवं धातुद्वयादेकप्रत्ययस्योपपत्तिविरोधमभिधाय यदि धातुद्वयादेकप्रत्ययविधायकं किञ्चिद्दृष्टं स्याद्यदि वा तत्रोदाहरणं किञ्चिद्दृष्टं स्यात्तदा प्रतीमो यदुपपत्तिविरुद्धोऽपि धातुद्वयादेकः प्रत्ययोऽङ्गीकारामर्हति । नचैतदुभयं दृश्यत इत्याह । विधायकेति ।
अत्र च अदिभूभ्यां डुतजिति यथेत्युत्तरमूले विधायकमात्रकथनेन तदभावमात्रस्य शङ्कनीयत्वेऽपि उदाहरणस्योत्तरत्र कथनेऽपि अत्र तदभावशङ्कनमुत्तरत्र विधायककथनमुदाहरणोपलक्षणतयाऽभिप्रेतम् । अत एव आनुमानिकपादीयमूले धातुद्वयादप्येकः प्रत्ययो अदिभूभ्यां डुतच् । अद्भुतमित्यादौ दृष्ट इति विधायकवद् उदाहरणमपि कथितम् । ततश्चोत्तरमूलस्य विधायकोदाहरणोभयपरत्वमिति मूलकारीयाभिप्रेतं स्पष्टीकर्तुमिति न कश्चिद्दोषः ।
आदिभूभ्यां डुतजिति यथेतीत्येव प्रतीकमुपादायापि अद्भुतमित्येतदुदाहरणोपपादनमपि उक्तमूलस्योपलक्षणत्वाभिप्रायमेव प्रकटयतीति तदपि न विरुध्यत इति द्रष्टव्यम् । एतेन आनुमानिकपादे उदाहरणकथनेन तदभावशङ्काया उदाहरणस्योपपदानस्य च युक्तत्वेऽपि अत्र तदकथनात्तदुभयायोग इति शङ्का अपहस्तिता भवति ।
अत्र क्षुद्रोपद्रवान्तराणितु पूर्वमेवाशङ्क्य निराकृतानीति न पुनस्तत्र प्रयत्नः क्रियते । अदिभुवो डुतजित्येवौणादिकसूत्रस्य क्वाचित्कं पाठं दृष्ट्वा धातुद्वयादेकः प्रत्यय इत्यत्र दृष्टान्तत्वं न तस्य सम्भवतीति भट्टोज्युक्तदोषस्य विद्यमानत्वात्कथमेतद्-व्याख्यानं युज्यत इत्यतस् तदुक्तदूषणमाशङ्क्य तदुद्धारस्य पूर्वमेव कृतत्वान्न तदर्थं पृथक् प्रयत्नापेक्षेत्याशयेनाह । यदत्र वक्तव्यमिति । आनुमानिकपाद एवेति । प्रपञ्चो यदि विद्येतेति श्रुतिस्थमायामात्रशब्दव्याख्यानोपपादनावसर इति शेषः । कर्मणि धातोस्त्रप्रत्ययेपीति । …. उणादिसूत्रेण ….. त्रप्रत्यय इत्यर्थः । छन्दःकल्पत्वस्येति । उक्तत्वादित्युत्तरेण सम्बन्धः । छन्दोवदितीयमिष्टिरेव । वृद्धिरादैजित्येतत्सूत्रभाष्यस्थैतदुक्तेरिष्टित्वस्य कैय्यटे उक्तेः शिष्टं नानुमानमतछब्दादित्येतद्विचारे प्रागुपपादितं ज्ञेयम् । व्यत्ययोबहुलमितीति । एत….धिकरणे व्याख्यातं टीकायाम् अयं च षष्टीयुक्तश् छन्दसिवेत्येतत्सूत्रीयवेत्यस्य सर्वे विधयश् छन्दसि विकल्प्यत इत्यर्थः । कस्य प्रपञ्च इति प्रागेवोक्तमस्माभिः । यत्वन्यथाख्यातौ बहुलं छन्दसीति छन्दसीति व्यवहृतम् । तत्सूत्रं प्रकृतोपयोगिकमिति विचार्यम् । कर्मण्यनुपपदेऽपीति । कर्मरूपादशून्येपीत्यर्थः । कुत उपलक्षणाश्रयणमित्यतो निमित्तमाह । अन्यथेति । इदं च वृत्यादौ कर्मण्युपपद इति व्याख्यानमात्रमनुसृत्य । वस्तुतस्तु न कर्मणीत्यस्यानुवृत्तिरावश्यकतया वृत्तिकृत्संमता । अत एवोपक्लेशतमसोरित्येतत्सूत्रव्याख्यावसरे क्लेशतमसोः कर्मणोरुपपदयोरित्युक्तावपि नियमप्रतीतिवारणायानाशीरर्थै आरम्भ इति विषयान्तरप्रदर्शनेन सावकाशत्वमुक्तम् । अत एव चानुपसर्ग इत्यस्येव कर्मणीत्यस्य प्रत्युदाहरणकथनाभाव इत्याशयेनोत्प्रेक्षितं पक्षान्तरमाह । आतोनुपसर्गे क इत्यत्रेति । अत्र चाहुरित्युक्तिरस्य प्रकारस्य वैय्याकरणैरनाश्रितत्वाद् व्युत्पादनस्य च घञर्थे कविधानपरोत्तरमूलानुसारेणैतत्पक्षत्यागप्रतीतेः स्वस्यानवश्यकत्वादनास्थेति सूचनार्थम् । नत्वस्वरससूचनार्थम् । मुख्यश्चायं पक्षः । अन्ते मोक्षोमितत्वेनान्तम इत्यानोभजपरमेष्वावाजेष्वित्येतदृग्भाष्यमित्वात्रातीति मित्रोयमित्यादिनृग्भाष्यगीताभाष्यादिव्याख्याने टीकाकृता कर्मण्यनुपपद एव बहुस्थले कप्रत्ययाङ्गीकारेणोक्तानुपपत्तिपरिहारस्य मूलकृत्संमतताप्रतीतेः । अक्षयं पुरुषस्याक्षमिति तत्वनिर्णयोदाहृतवाक्यव्याख्याने एतेन नञ्युपपदे क्षैक्षय इत्यस्माद्धातोरातोनुपसर्गेक इति कप्रत्यय इत्युक्तं भवतीत्युक्तेश्च । नहि नञः कर्मत्वं येनोपपदता स्यात् । सद्भावं यापयेदित्यानन्दमयाधिकरणीयानुव्याख्यानमूले सच्छब्दे कर्मण्युपपदे यातेर्धातोरातोनुपसर्गेक इत्युक्तिरप्यङ्गीकारवादेनैवेति न दोषः । अधिको विचारो वायवायाहित्येतदृग्भाष्यटीकाव्याख्यानप्रपञ्चेऽस्माभिः कृतः । सौत्रत्वादीत्यादिपदेन बाहुलिकत्वपरिग्रहः ।
कर्मणोऽपीति । कर्तृव्यतिरिक्तकारकस्य घञर्थतया तादृशकारकमध्यपतितकर्मणोपि तदर्थत्वादिति भावः । उक्तं च सुपिस्थ इति सूत्रे हरदत्तेन । घञर्थे कविधानमित्यत्रस्थग्रहणं कर्तृवर्जितेपि कारके यथा स्यादिति । अकर्तरिच कारके संज्ञायामिति सूत्रमूलकमेवेदम् । न च स्थास्नादिष्वपाठादित्यादि । एतदुपपादनमाभासोद्धारेण प्रागुदाहृतमायामात्रपदव्याख्यानप्रपञ्चावसरेऽस्माभिः कृतस् तत एव प्रतिपत्तव्यम् । अतिप्रसङ्गादिति । स्थास्नादीनामपि ग्रहणं न कुर्यादित्यतिप्रसङ्ग इत्यर्थः । इत्येव मूलपाठ इति । क प्रत्ययोऽधिक इति भावः । तत्र हेतुः स्वरसश्चेति । चशब्दो यस्मादित्यर्थे यस्मात्स्वरसस्तस्मात्तथैव पाठ इत्यर्थः । मनसः प्रज्ञां प्रत्युपादानत्वेऽपि प्रज्ञाया मनः प्रति उपादानत्वाभावेनास्वरसत्वापत्तेः । ततोऽबाधितार्थत्वादयमेव स्वरस इति भावः । स्वार्थे कप्रत्ययकल्पनादिना बाधितार्थत्वाभावो भविष्यतीत्याशङ्क्य परिहरति । चिरन्तनकोशेष्विति । चशब्दोऽनुवर्तते इति ज्ञेयम् ।