यद्युपाधिकृतं तदा
देहात्मभेदप्रतीतिर्नेत्याक्षेपः
यद्युपाधिकृतं तदा
सुधा
यदुक्तं देहात्मताप्रतीतिर्नास्ति देहोऽहमिति प्रतीत्यननुभवादिति तदसत् । अहमिति प्रतीतेरेव तत्प्रतीतित्वात् । इदमनिन्दरूपवस्तुगर्भो ह्यहङ्कारः ।
यच्चोक्तं मम देह इति भेदप्रती(तेर)त्यनुवृत्तेर्देहात्मत्वप्रतिभासोऽनुपपन्न इति । तदयुक्तम् । भेदप्रतीत्यसम्प्रतिपत्तेः । मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः । न खलु केवले देहे आत्मत्वप्रतीतिः । किन्तर्हि देहेन्द्रियान्तःकरणादिसङ्घाते । तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका । प्रासादस्य स्तम्भो, वृक्षस्य शाखेति यथा । न च, देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति । येन देहाद्यात्मप्रतीतिर्विरुध्येत ।
यदप्युक्तं कृष्णोऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठताप्रतीतिर्नास्ति प्रमाणाभावादिति । तन्न । कृष्णोऽहमिति व्यवहारदर्शनात् । ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा । तदनुपपत्तौ तूपचारत्वकल्पना । न च, नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति । यद्भयादुपचारत्वं कल्पयामः । अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः । यथाऽऽह । ‘अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्ये’ति ।
वाक्यार्थचन्द्रिका
नन्वहमितिप्रत्ययस्यात्मविषयत्वान्न देहात्मतादात्म्यविषयत्वमित्यतोऽह मिति प्रतीतिविषयस्याहमनुभवामीत्यात्मधर्मानुभवाश्रयत्वानुपपत्त्या केवलानात्मत्वस्याहं कर्तेत्यनात्मानुबन्धिकर्तृत्वाश्रयत्वानुपपत्त्या केवलात्मत्वस्य चासम्भवेनात्मानात्मरूपताया अवश्यं वाच्यत्वादेकदेशस्योभयरूपतायाश्च विरुद्धत्वेन वस्तुतोऽनुपपत्तेरात्मनोऽनात्मतादात्म्येनानात्मनश्चात्मतादात्म्येनाध्यस्ततयैव वक्तव्यत्वाच्चिदचित्संवलनात्मकतयाऽध्यस्ताहमर्थविषयकत्वादहमितिप्रतीतेर्देहात्मतादात्म्याध्यासे प्रामाण्यमित्याशयेनाह इदमनिन्दरूपवस्तुद्वयगर्भ इति । चिदचिद्रूपवस्तुद्वयगर्भ इत्यर्थः । ननु मम देह इति भेदप्रतीत्यभावे कथं मम देह इति भेदव्यवहारः स्यात् । तस्य तत्प्रतीतिसाध्यत्वादित्यतस्तथा सति मम स्वरूपमिति स्वरूभेदस्यापि व्यवहारात्तस्यापि तत्प्रतीतिसाध्यत्वप्रसङ्गः । यदि चानुपचरितभेदव्यवहारस्यैव स्वमूलभूतप्रतीतिसाधकत्वान्नौपचारिकस्य मम स्वरूपमिति स्वरूपव्यवहारस्य तत्प्रतीतिसाधकत्वमिति मन्यसे, तर्हि मम देह इत्यस्यापि व्यवहारस्यौपचारिकत्वान्न तेनापि मम देह इति देहात्मभेदप्रतीतिसिद्धिरिति सममित्याशयेनाह ममेति । अभ्युपेत्यैव चेदमुक्तम् । वस्तुतस्तु मम देह इति भेदप्रतीत्यङ्गीकारेऽपि न क्षतिरित्याह न खल्वित्यादिना । आत्मत्वप्रतीतिरहमितिप्रतीतिः ॥ तत्र सङ्घातेति । सङ्घातस्यैवाहमितिप्रतीतिविषयत्वेन मम देह इत्यत्रापि सङ्घात एव देहसम्बन्धितयाऽवभासते । ततश्च सङ्घातदेहयोरेव भेदावगाहिनीयं प्रतीतिर्नात्मसङ्घातयोरिति भिन्नविषयत्वान्न तस्याः सङ्घातात्मनोरभेदप्रतीतिबाधकत्वमिति भाः । ननु माऽस्तु मम देह इति प्रतीत्या सङ्घातात्मनोरभेदप्रतीतिर्विरोधः । सङ्गातात्मभेदप्रतीत्या तु विरोधः स्यादेवेत्यत आह न चेति । तादृशप्रतीतेरभवान्न तस्य बाधकत्वमिति भावः । ननु व्यवहारस्यौपचारिकत्वान्न स्वमूलभूतप्रतीतिप्रमापकत्वमित्यत आह ज्ञानमूलतेति ॥ भेदादीति । अत्रादिपदेनासंसर्गपरिग्रह उभयी प्रतीतिरिति । अहमिति तादात्म्यारोपरूपा कृष्णोऽहमिति संसर्गारोपरूपा चेत्युभयीत्यर्थः । उभयविधारोपसद्भावे भाष्यसम्मतिमाह यथाऽऽहेति । सङ्कर इति शेषः । तद्वाक्यं पठति अन्योन्यस्मिन्निति ।
परिमल
इदमनिदमिति । चिदचिद्रूपवस्तुविषयक इत्यर्थः । अचिद्भागश्च देहेन्द्रियान्तःकरणादिसङ्घात इति भावः ॥ अस्तु वा मम देह इति भेदप्रतीतिः । तथापि कृष्णोऽहमित्यभेदभ्रमो युज्यत इ(त्यत आह)त्याह न खलु केवले देहे आत्मत्वप्रतीतिरिति । अहमित्युल्लेखनम् आत्मत्वप्रतीतिरित्यर्थः ॥ सम्बन्धप्रतीतिरपीति । मम देह इति जायमानेति भावः । ममेत्यस्य चिदचिसङ्घातविषयत्वात् । तत्तदनुगुणदृष्टान्तमाह प्रासादस्येति ॥ भेदादिप्रतीत्यभावादिति । आदिपदेन संसर्गाभावादिप्रतीत्यभावादिति गृह्यते ॥ उभयी प्रतीतिरिति । अहमिति देहात्मतादात्म्यप्रतीतिरूपा कृष्णोहमित्यादितद्धर्मसंसर्गप्रतीतिरूपा चेत्युभयी प्रतीतिरित्यर्थः ॥ यथाहेति । अध्यासभाष्यकार इति योज्यम् ।
यादुपत्यम्
भेदप्रतीतिमभ्युपेत्यापि समाधत्ते न खलु केवल इत्यादिना ॥ आत्मत्वप्रतीतिर् अहमिति प्रतीतिः । तत्र सङ्घातापेक्षयेति । सङ्घातस्यैवाहमिति प्रतीतिविषयत्वेन मम देह इत्यत्रापि ममेत्यनेन सङ्घात एव सम्बन्धितया प्रतीयते । तथा च सङ्घातादेव देहे भेदावगाहिनीयं प्रतीतिर्नात्मसङ्घातयोः । सा च भिन्नविषयकत्वान्नाहमिति प्रतीतिबाधिकेति भावः । भेदादिप्रतीत्यभावादित्यत्रादिपदेनासंसर्गग्रहसङ्ग्रहः ॥ उभयी प्रतीतिरिति । अहमिति तादात्म्यारोपरूपा कृष्णोऽहमिति संसर्गारोपरूपा चेत्युभयी प्रतीतिरित्यर्थः ।
श्रीनिवासतीर्थीया
भेदादीत्यत्र देहात्मनोर्भेदप्रतीतिरादिपदेन कार्ष्ण्याद्यसंसर्गप्रतीतिर्गृह्यते ।
वाक्यार्थरत्नमाला
स्वतः शुक्लत्ववाचकशब्देन कार्ष्ण्यवाचकशब्दस्यानात्मत्वभङ्गीयतस्मादहमनुभवामीत्यात्मानुबन्ध्यनुभवस्याहंकर्तेत्यनात्मानुबन्धिकर्तृत्वादेश्चाश्रयोऽहंकारश्चिदचित्संवलनात्मकत्वादध्यस्त इति परभाष्यार्थानुवादरूपन्यायामृतं मनसि निधाय विवरणाद्युक्तरीत्या किं चित्संगृहीतं भाष्यार्थमाह । नन्वहमिति प्रत्ययस्येत्यादिना । आत्मधर्मानुभवेति । आत्मत्वनियतधर्मेत्यर्थः । केवलात्मत्वस्येत्यस्यासम्भवेत्युत्तरेणान्वयः । अनात्मानुबन्धीति । अनात्मत्वनियतेत्यर्थः । वक्तव्यत्वादित्यत्राप्युभयरूपतायाश्चेति वर्तते । सङ्घात एव देहसम्बन्धितयेत्यादौ सम्बन्धस्योभयाश्रितत्वविवक्षया धर्मिप्रतियोगित्वयोरनास्थया कीर्तनमिति न दोषः । स्वमूलभूतप्रतीति । तत्कार्यत्वेन तत्साधकत्वादित्यर्थः । अहमिति तादात्म्यारोपेति पाठः । भाष्यसंमतिमाहेति । भाष्यस्थाद्यवाक्यस्थोभयविधारोपसाधकांशं संमतितयोदाहरतीत्यर्थः । जिज्ञासानये विवृत्तमेतत् ।