११ अनुमानमेव

जातिः स्वव्याहतिर्ज्ञेया

अनुमानमेव

जातिः स्वव्याहतिर्ज्ञेया

सुधा

अयं भावः । अस्ति तावत्स्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम् । न च तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः । जातेर्विरोधभेदत्वाच्छलस्यासङ्गतिप्रभेदत्वाद्द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात् । तत्र जातिं वा छलं वा प्रयुज्जानो दुष्टमेतदिति कथं प्रतिपादनीय इति वाच्यम् । जातौ तावद्युक्ताङ्गहीनत्वादयुक्ताङ्गाधिकत्वादविषयवृत्तित्वा(द्वा)द् दुष्टमेतदिति । छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत् । तत्र जातिवादीनेदमयुक्ताङ्गमिति वा नेदमयुक्तमिति वा नायमविषय इति वा नेदमयुक्तमिति वा (प्रति)ब्रूयादेव । छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतोऽर्थो मया दूषणीय इति । तौ कथं दुष्टत्वं प्रतिबोधनीयौ ।

वाक्यार्थचन्द्रिका

नन्वत्रेष्यत इति भाष्यखण्डवैयर्थ्यम् । न च छलजात्योर्व्याहतिप्रभेदत्वस्य प्रामाणिकत्वज्ञापनार्थत्वात्तस्य न तदिति वाच्यम् । तथा सति तयोर्निग्रहस्थानत्वस्यैववासिद्ध्या व्याहत्याद्यन्तर्भावस्यासम्भवदुक्तिकत्वात् । तत्सिद्धावपि वा बाधकाभावेन पृथङि्नग्रहस्थानताया एव सम्भवेनान्तर्भावस्यावक्तव्यत्वात् । बाधकसद्भावेनान्तर्भावस्य वक्तव्यत्वेऽपि भाष्ये तल्लक्षणोक्तेर्निष्प्रयोजनत्वात् । जातौ युक्ताङ्गहीनत्वादिना छले चासङ्गतत्वादिना दुष्टतायाः प्रतिपदयितुं शक्यत्वेन स्वव्याहत्यैव परो दुष्टिं बोधनीय इति तन्नियमाभावेन लक्षणोक्तेः स्वव्याहतिरूपदुष्टत्वमूलज्ञापकत्वस्याप्यप्रयोजकत्वात् । छलजात्योरुक्तरीत्या दुष्टतायाः पतिपादनानुपपत्त्या स्वव्याहत्यैव तत्प्रतिपादनस्यावश्यकत्वेऽपि स्वव्याहत्यैव तत्र दुष्टिबोधनेन परसिद्धन्यायेन तत्र दुष्टिबोधनाप्राप्तेः । तत्प्राप्तावपि वा तर्के परसिद्धन्यायेन ज्ञाप्यमानाया दुष्टेराभासत्ववादिनं प्रत्यनिष्टत्वाभावात् । तत्सद्भावेऽपि वा तत्र परसिद्धन्यायोक्तेरभिप्रायान्तरकत्वेन न्यायस्य प्रमाणतयोपन्यासाभावेन तज्ज्ञाप्याया दुष्टेरनाभासत्वोपपत्त्या दुष्टिमूलज्ञापकत्वेऽपि प्रकृते प्रमाणतयोपन्यस्तपरन्यायस्यासाधुत्वेन तज्ज्ञाप्याया दुष्टेराभासत्वेन दुष्टिमूलकत्वासम्भवात्तद्वदेव तर्केऽपि तदुक्तेस्तथाभिप्रायकत्वकल्पनेऽपि तत्रेवात्रापि स्वव्याहतिरूपपरसिद्धन्यायाभावान्न दुष्टत्वमूलव्युत्पादनसमानयोगक्षेमत्वमित्यतोऽभिप्रायमाह यं भाव इति ॥ षडेवेति । विरोधासङ्गतिन्यूनाधिक्यसंवादानुक्तिभेदादित्यर्थः । द्वितीयव्याख्यानमाश्रित्याह जातेरिति ॥ विरोधभेदत्वादिति । विरोधप्रभेदत्वं च विरोधप्रभेदमानविरोधप्रभेदत्वं विरोधप्रभेदमानविरोधरूपत्वं चेत्युभयमप्यत्र द्रष्टव्यम् ॥ असङ्गतिप्रभेदत्वादिति । परोक्तदूषणस्यैव सङ्गतत्वेनानुक्तारोपितदूषणरूपछलस्यासङ्गतिप्रभेदत्वादित्यर्थः । प्रथमव्याख्यानमप्याश्रित्याह द्वयोरपीति । गवानयनं न विधेयमशक्यत्वादित्यादिछलवाक्येऽपि गवानयनमित्ययुक्तम् । अनन्वितत्वादित्यादेश्छलस्य सम्भवेन तस्यापि स्वन्यायविरोधेऽन्तर्भाव इत्यर्थः । तत्प्रतिपादनप्रकारमाशङ्कते जातौ तावदिति ।

परिमल

एतत्समानयोगक्षेममित्युक्तं व्यनक्ति अयं भाव इति ॥ द्वयोरपीति । छलजात्योरपीत्यर्थः । अत एव(स्व)व्याहत्यन्तरमित्यस्य व्याहतिप्रभेद इत्यपि व्याख्यानं कृतम् । पर्वतोऽग्निमानित्युक्ते धूलिकाभिप्रायेण नास्ति पर्वतेऽग्निरिति छलोत्तरेऽपि ना पुमानस्ति पर्वते अग्निरिति असङ्गतमिति छलवाक्येऽप्यर्थान्तरकल्पनेन दूषणोक्तिसम्भवेन स्वन्यायविरोधे छलस्यान्तर्भावसम्भवादिति भावः । विवृतमेतत्प्रमाणलक्षणटीकायां गृष्टिविवक्षयेत्यत्र ॥ प्रयुञ्जान इति । स्थापनावादिनं प्रति जात्युत्तरं वदन् प्रतिवादी कथं प्रतिपादनीयः । त्वयोच्यमानमुत्तरमसमीचीनमिति कथं बोधनीय इत्यर्थ । दूषणीय इत्यनन्तरं प्रतिब्रूयादेवेति योज्यम् ॥ ताविति । जातिवादी छलवादी चेत्यर्थः। दुष्टत्वं तदुक्तोत्तरस्येति योज्यम् ।

यादुपत्यं

स्वव्याहत्यन्तरं व्याहतिप्रभेद इति प्रथमव्याख्यानमनुसृत्याह ॥ द्वयोरपीति । गृष्टिविवक्षया गामानयेत्युक्ते पृथिवीविवक्षया गवानयनमशक्यमिति छलवादिवाक्यस्याप्यर्थान्तरं परिकल्प्य गवानयनमित्यनन्वितमिति दूषणसम्भवेन छलस्यापि स्वन्यायविरेधेऽन्तर्भावयितुं शक्यत्वादिति भावः ।

श्रीनिवासतीर्थीया

यद्वेत्युक्तव्याख्यानमुपपादयति ॥ जातेरिति । युक्ताङ्कं व्याप्त्यादि ।

वाक्यार्थरत्नमाला

प्रतिपादनानुपपत्या स्वव्याहत्यैवेति पाठः ।


जातिः स्वव्याहतिर्ज्ञेया

जातिः स्वव्याहतिर्ज्ञेया

सुधा

अथ मन्यसे । द्विविधं दुष्टत्वमूलं साधारणमसाधारणं च (चेति) । तत्रासाधारणं युक्ताङ्गत्यागादिकम् । साधारणं तु स्वव्याहतिः । तत्रासाधारणदूषणोपन्यासेऽपि पुनश्शङ्कमानः स्वव्याहत्या बोधनीयः । यदि व्याप्त्याद्यङ्गमनपे(क्ष्यैव)क्ष्य प्रसङ्गस्तदा जातिवाक्यार्थोऽपि तथा दूषयितुं शक्यत इत्यादि । यदि (च) वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणं तदा छलवाक्येऽपि तथा शक्यमिति । एवं तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्टिं बोधनीयः । ततःपरं तु न शङ्क्यत एव । व्याघातावधित्वादाशङ्काया इत्युक्तं भवति । तथा च परन्यायस्तावदसाधुः । तेन बोध्यामाना दुष्टिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात् । न स्यात् । न ह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्याया यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्तुल्यमेतत्प्रकृतेऽपि । न ह्यत्रापि निरग्निकत्वं प्रमाणतयोपन्यस्यतेऽपि तु असाधुरयं त्वदीयो निरग्निकत्वाङ्गीकारो यतः प्रमाणविरुद्धं निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्राय इति । जात्यादौ स्वविरु(द्धताप)द्धापत्तिस्तर्के तु प्रमाणविरुद्धापत्तिरिति वैलक्षण्यमात्रम् । अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्केऽपि । यथोक्तम् । ‘व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मत’ इति । तदेवं तर्कस्य दूषणानुमानेऽन्तर्भावाद्युक्तमुक्तमिति ।

वाक्यार्थचन्द्रिका

ननु साधारणदूषणोपन्यासेऽपि शङ्का चेत्तर्हि दुष्टत्वबोधनमशक्यमेव स्यादित्यत आह ततःपरमिति । तत्र हेतुमाह व्याघातेति ॥ असाधुरिति । अन्यथा परसिद्ध इत्येव न स्यादिति भावः ॥ तेनेति । असाधुनेत्यर्थः ॥ प्रमाणत्वेनेति । साधनानुमानतयेत्यर्थः । स्वात्मानमपि व्याहन्तीति । स्वव्याहतिमापादयतीत्यर्थः ॥ प्रमाणतयेति । साधनानुमानतयेत्यर्थः । वैलक्षण्यमात्रमिति । ज्ञाप्याया दुष्टेराभासत्वेनानाभासत्वसम्पादकत्वाभावादिति भावः । असिद्धं च तदित्याह अस्ति चेति । अत्रैव सम्मतिमाह यथोक्तमिति । अत्र तर्कस्य शङ्कानिवर्तकतायाः शङ्कायाश्च व्याघातावधित्वस्य चोक्तत्वात्तर्केऽपि स्वव्याहतिर्लभ्यते । अन्यथा तर्केऽपि शङ्कावश्यम्भावात्तर्कस्य तन्निवर्तकत्वोक्त्ययोगादिति भावः ॥ युक्तमुक्तमिति । त्रीण्येव प्रमाणानीत्युक्तं युक्तमित्यर्थः ।

परिमल

दुष्टिं बोधनीय इति । दुष्टत्वं बोधनीयस्तद्वादी स्थापनवादिनेत्यर्थः । ततोऽपि शङ्कायां किं कार्यमित्यत आह ततः परंत्विति ॥ प्रमाणत्वेनेति । स्वाभिमतप्रमेयसाधनत्वेनेत्यर्थः ॥ प्रकृतेऽपीति । तर्केऽपीत्यर्थः । प्रमाणतया निर्धूमत्वसाधकतयेत्यर्थः ॥ स्वविरुद्धतापत्तिरिति । धूममङ्गीकृत्याग्न्यनङ्गीकारे स्वक्रियाविरुद्धता स्यादेव कार्योद्देशेन कारण एव स्वस्य प्रवृत्तिदर्शनात्, धूमवन्ह्योश्च कार्यकारणभावाभावादिति भावः । तत इत्युक्तेस् तार्किकोक्तिं संवादयति यथोक्तमिति । यस्मिन् शङ्क्यमाने व्याघातो भवति तच्छङ्का न कार्येति व्याघातावधिरित्यर्थः । यावत्पर्यन्तं शङ्का तावत्तर्कानुसन्धानमिति शङ्कावधिस्तर्कः । शङ्का च व्याघातावधिरित्यर्थः ॥ ततः स्वविरुद्धेत्युक्तमिति ज्ञेयम् ।

यादुपत्यं

दृष्टिं बोधनीय इति । दुष्टत्वं बोधनीय इत्यर्थः । ननु असाधारणदूषणोपन्यासेऽपि पुनः शङ्केव साधारणदूषणोपन्यासेऽपि पुनः शङ्का चेद्दुष्टत्वबोधनमशक्यमित्यत आह ततः परन्त्विति ॥ प्रमाणतयेति । साधनानुमानतयेत्यर्थः । यतः स्वात्मानमपीति । स्वव्याहतिमापादयतीत्यर्थः । आपादनं च परसिद्धन्यायेनैव कार्यमित्यभिप्राय इत्यर्थः । अत एव पूर्वं ‘यदि व्याप्त्याद्यङ्गमपेक्ष्यैव प्रसङ्ग’ इत्यादिनाऽऽपादनमेवोक्तम् । वक्ष्यति च ‘जात्यादौ स्वविरुद्धार्थापत्तिरि’ति । एवं प्रमाणतयोपन्यस्यत इत्यत्रापि साधनानुमानतयेत्यर्थः । अतस्तर्कस्यापि प्रमाणत्वात्कथमेतदिति शङ्काऽनवकाशः ॥ अङ्गीकारयतीति । आपादयतीत्यर्थः ।

निवासतीर्थीया

तथा स्वव्याहत्या । यथा मेयं मानापेक्षमिति केनचिदुक्ते मेयं मानापेक्षं न भवतीति जातिवादिना दूषिते मेयं मानापेक्षं न भवतीत्यस्यैव प्रमेयस्य प्रमाणापेक्षत्वात्स्वव्याहतिर्जातौ द्रष्टव्या । तथा वक्तुर्विवक्षामनपेक्ष्य शाब्दप्रतीतत्वमात्रेण यदि दोषत्वं तर्हि गृष्टिविवक्षया गामानयेत्युक्ते पृथिवीविवक्षया गवानयनमशक्यमिति छलवादिना दूषिते तद्वाक्यमपि गवानयनमशक्यमित्येवं छलवाक्येऽपि दूषणं कर्तुं शक्यमिति ज्ञातव्यम् । ततः परं जात्यादिवादिनः स्वव्याघातप्राप्त्यनन्तरम् । न शङ्क्यते जात्यादिवादिना । तत्र छलजातिवादिनोरनेन प्रतिवादिना दुष्टत्वे ज्ञापनीये य..परन्यायश् छलजातिवादिनोर्न्यायः प्रतिवादिना दूषयितुमाद्रियते सोऽसाधुरित्यर्थः । तेन असाधुना परन्यायेन ॥ वास्तवमदुष्टत्वमिति । दुष्टिप्रमाजनकत्वाभावः स्यादित्यर्थः ॥ न स्यादिति । दुष्टिप्रमाजनकत्वाभावो न स्यात् । दुष्टिप्रमाजनकत्वमेव स्यादिति यावत् ॥ इत्यभिप्राय इति । तथा चांसाधुः परन्यायो नास्माभिरुपादीयते । किं नाम तादृशेन परन्यायेन परस्यैव दुष्टिप्रमोत्पत्तिः स्यादित्युच्यत इत्यर्थः । तदुपपादयति न ह्यत्रेति । एवं सति तर्केणापि दुष्टिप्रमोत्पत्तिः परस्योच्यमाना युक्तैव । न चैवं दुष्टस्य न्यायस्य कथं प्रमोत्पादकत्वमिति वाच्यम् । कूटलिङ्गे भ्रान्तप्रतारकवाक्ये च दर्शनात् । अस्मन्मतेऽपि स्वयमसाधोरपि तर्कस्य विपर्ययपरतन्त्रत्वाद्युक्तं प्रामाण्यमित्यादिकमस्मदावार्यकृतटीकायां स्पष्टमुपपादितं द्रष्टव्यम् ॥ तर्कः शङ्कावधिरिति । धूमोऽस्तु वन्हिर्मास्त्विति शङ्कायां यद्यग्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति तर्कः प्रवर्तत इत्ययं तर्कः शङ्कावधिर्मतः । तत्रापि निरग्निकत्वमस्तु निर्धूमत्वं माऽस्त्वित्यप्रयोजकताशङ्कायां कार्यभूतो धूमो यदाऽङ्गीकृतस्तदा कारणीभूताग्निरप्यङ्गीकृत एव । कारणं विना कार्यायोगात् । अन्यथाऽकारणकार्योत्पत्तिप्रसङ्गात् । तथा धूमार्थं वन्हिमुपादत्ते । तत्कारणं च तत्रेति ब्रूते इति स्वक्रियाव्याहतिरिति । व्याघातावधिराशङ्केत्यर्थः । उक्तं प्रमाणत्रित्वम् ।