वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः
वाक्यादीनामप्यनुमानेऽन्तर्भावः
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः
सुधा
वाक्यादीनामपि प्रमाणानामनुमानान्तर्भावमाह वाक्यमिति ।
अनुव्याख्यानम्
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ॥
यतो वाक्यादायोऽपि तथाविधा व्याप्तिमपेक्ष्यैवागमार्थावसित्यर्थास्ततस्तथाविधा युक्तय एवेत्यर्थः । उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः ।
यद्युपक्रमादयो वाक्यादयश्चानुमानेऽन्तर्भवन्ति तर्हि कथम् ‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अथवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इत्युपक्रमादीनामनुमानापरपर्या(याया उप)योपपत्तेः पृथक्त्वेनोक्तिः । तथा ‘श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथे’ति वाक्यादीनां लिङ्गादित्यत आह कुरुपाण्डववदिति ।
अनुव्याख्यानम्
कुरुपाण्डववत्तेषामुपपत्तेः पृथग्वचः ॥
यथा पाण्डवानां कुरु(वि)त्वेऽपि सामान्यविशेषापेक्षया ‘सन्तानबीजं कुरुपाण्डवानामि’त्यादौ कुरुभ्यः पृथग्वचनं तथा तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वेऽप्युपपत्तेर्लिङ्गाच्च पृथग्वचनं युक्तमित्यर्थः ।
वाक्यार्थचन्द्रिका
अत्र वाक्ये प्रकरणमित्यादिमूलतद्-व्याख्यानयोः श्रुतेः स्वनिर्णये श्रुतित्वेनैव निर्णायकत्वेन वाक्यादिवदनुमानत्वेन निर्णायकत्वभावाल्लिङ्गत्वानुक्तिः । ‘श्रुतिर्लिङ्गं समाख्या चे’त्युक्तानां श्रुत्यादीनां लिङ्गग्रहणेनैव गृहीतत्वादिति युक्तिपादीयटीकायां श्रुतेर्लिङ्गतालाभात्तद्विरोध इति भाति । अतद्गुणसंविज्ञानबहुव्रीहिणा वाक्यादीनामेव तत्र ग्रहणेन श्रुतेस्तदलाभान्न तद्विरोध इत्यन्ये ॥ इत्यादावित्यादिपदेन कुरुपाण्डवपदोपेतवाक्यान्तरपरिग्रहः ।
परिमल
इत्यादाविति । दशमस्कन्धादिवाक्य इत्यर्थः ।
यादुपत्यं
सन्तानबीजमिति । ‘द्रौण्यस्त्रविप्लुष्टमिदं मदङ्गं सन्तानबीजं कुरुपाण्डवानामि’ति भागवतवाक्यस्य ‘जुगोप कुक्षिं गत आत्तचक्र’ इत्युत्तरार्धेनान्वयः । आदिपदेन गोबलीवर्दादिशब्दसमभिव्याहृतवाक्यग्रहणम् ॥
वाक्यार्थरत्नमाला
ननु श्रुतिर्लिङ्गं समाख्याचेति वाक्ये श्रुतेरपि वाक्यादिवत्स्वनिर्णये प्रमाणत्वेन गणनाच्छलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षादिति जैमिनिसूत्रेऽपि गणनाद्वाक्यं प्रकरणं स्थानमिति भाष्ये श्रुतेः कथं युक्तित्वानुक्तिः । तत्रानुक्तौ वा मूले उपलक्षणया श्रुतिग्रहणं कुतो न व्याख्यातं लिङ्गस्याग्रहणेऽपि बाधकाभावादित्यत ईशानाधिकरणचन्द्रिकानुसारेणाह । अत्र वाक्यं प्रकरणमित्यादीति । प्रमाणलक्षणस्थसमाख्यावक्येति मूलटीकयोरित्यपि ज्ञेयम् । समाख्याया वाक्यादेरवरत्वेपीत्यादिव्याख्यानगतवाक्ये श्रुतिलिङ्गेति श्रुतिर्लिङ्गमिति वाक्यानुसारेण क्रमोपपत्युक्तावपि श्रुतिरूपलक्षणानुक्तया एतन्मूलतुल्यत्वात् । यद्येवं लिङ्गत्वानुक्तिगतिः क्रियते । तर्हि युक्तिपादीयमूलविरोध आयातीत्यतः सत्यमत्र विरोध आयात्येव तत्परिहाराय यत्नः कार्य इत्याशयेनाह । श्रुतिर्लिङ्गमित्यादीति । युक्तीनामित्येव तत्रोक्तावपि श्रुत्यादीनामिति स्पष्टत्वार्थं पूरितम् । युक्तिपादीयेति । नविलक्षणत्वाधिकरणीयलिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रह इत्येतदनुभाष्यटीकायामित्यर्थः । करिष्यते चेदं विरोधोद्भावनं श्रुत्यादौ पूर्वं पूर्वं तु ब्रह्मतर्केति ज्ञानपादीयानुभाष्यमूलटीकायामिति ज्ञेयम् । उपपत्तेः पृथक्त्वेनोक्तिरिति मूले उपपत्तेरिति पञ्चमी । तथा सति पुनरुक्तिः स्यादिति भावः । पृथग्वचनमिति मूलम् । ततो न पुनरुक्तिरिति भावः । अत एव न च केवलतर्केणेत्येतत्तत्वनिर्णयटीकास्थकुरुपाण्डववत्सामान्यविभावमाश्रित्येत्येतद्वाक्यव्याख्यावसरे यथा सन्तानबीजं कुरुपाण्डवानामित्यत्र सामान्यवाचिकुरुशब्दस्य तद्विवाचिपाण्डवशब्दसमभिव्याहारेण तदतिरिक्तकुरुपरत्वाद् अपौनरुक्तयमिति पौनरुक्तयपरिहारे पर्यवसानं वर्णितमिति ज्ञेयम् ।