न ह्याज्ञैवात्र साधिका
कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः
न ह्याज्ञैवात्र साधिका
सुधा
स्यादेतत् । व्याप्तिस्तावदनुमानाङ्गम् । सम्बन्धविश्च व्याप्तिः । न च व्याश्रययोः सम्बन्धो युज्यते । अतो व्याश्रयत्वस्य दोषत्वात्सम्म(तवि)ते विषये विपरिणाम इति । मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् । अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति । यथा कृतकत्वस्यानित्यत्वेन । अत एवान्यगतेन तेन नान्यत्रानित्यतासिद्धिः । क्वचिद्विभिन्नाश्रययोरेव । यथा धूमस्याग्निना । धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ । नापि संयोगवृत्त्या । ऊर्ध्वाधोदेशसंयोगित्वात् । (धूमस्याधोदेशसंयोगस्य सिद्धत्वात्) । तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीति चेन्न । तथा सत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः । धूम एव धूमत्वेन मूलेऽग्निमान्साध्यत इति चेत् । किमेषा लौकिकी प्रतीतिः । आहोस्वित्समयसिद्धये विपरिणामः क्रियते । न प्रथमः । लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति । न द्वितीयः । निर्मूलत्वात् । अपि च देहादीनां तावत्परेण क्षणिकता स्वीक्रिय(ऽऽस्थीय)ते । तत्र पतनकर्मणा गुरुत्वानुमानं दुर्घटं स्यात् । न हि तयोः कालतः सामानाधिकरण्यम् । कार्यकारणभावात् । नापि देशतः । विभिन्नद्रव्याश्रयत्वात् । अतः कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः ।
वाक्यार्थचन्द्रिका
व्याप्त्यभावाद्वेति प्राग्विकल्पितद्वितीयपक्षस्य पृथगनिरासान्मूले न्यूनतामाशङ्कय ‘व्याप्तत्वे व्याश्रयत्वं त्वि’ति पूर्वग्रन्थेनैव निरस्तत्वात्पृथगनिरासो न दोषायेत्यभिप्रेत्य तत्पक्षनिरासकतयाऽपि तमेव ग्रन्थं योजयितुं प्राग्विकल्पित द्वितीयपक्षमुत्थापयन्नेव प्रमाणोपदर्शनेन प्रागुक्तं प्रयोगविपरिणामं चोपपादयति स्यादेतदिति । व्याप्तत्वेऽविनाभावमात्रस्यैवानुमितिहेतुसम्बन्धव्याप्तित्वे सति व्याश्रयत्वं सामानाधिकरण्यरूपसम्बन्धविशेषाभावः कथमेव दूषणं न कथमपि । ततश्च व्याश्रययोः सम्बन्धरूपविरूपव्याप्त्यसम्भवेऽप्यनुमितिहेतुभूतोक्तरूपव्याप्तिसद्भावान्न व्याप्त्यनुपपत्तिः । नापि तथा सम्मते विषये प्रयोगविपरिणामस्य कर्तव्यत्वसिद्धिरिति ग्रन्थयोजनामभिप्रेत्य समाधत्ते मैवमिति । ननु विभिन्नाश्रययोरप्युक्तरूपव्याप्तिसत्त्वे कृत्तिकागतेनोदयेन रोहिण्युदयासत्तेरिव घटगतकृतकत्वेन शब्दगतानित्यत्वस्यापि सिद्धिः स्यादित्यतोऽविनाभावस्य सर्वत्रैकरूप्याभावेन घटगतकृतकत्वस्य शब्दगतानित्यत्वेनाविनाभावाभावान्नातिप्रसङ्ग इत्यभिप्रेत्य तस्य नानारूपतामाह अविनाभावश्चेति ॥ अत एवेति । अत्राविनाभावस्य यत्कृतकं तदनित्यमिति सामानाधिकरण्यगर्भितत्वादेवेत्यर्थः । ननु धूमाग्न्योः सामानाधिकरण्यस्य सर्वसम्प्रतिपन्नत्वात्कथं तद्-व्याप्तेर्विभिन्नाश्रययोरविनाभावत्वेनोदाहरणमित्यतः सामानाधिकरण्यघटकः सम्बन्धः किं समवायोऽभिमतः संयोगो वा । द्वितीयेऽपि किमवान्तरदेशमादाय सोऽभिमतः स्थूलदेशमादाय चेति विकल्पान्मनसि निधायाद्यौ क्रमेण दूषयति धूमाग्नी खल्विति । स्वस्वावयवसमवेतत्वान्न तयोरेकत्र समवाय इति भावः ।
द्वितीये द्वितीयमाशङ्कते तथाऽपीति ॥ धूम इति । ततश्च धूमो मूलेऽग्निमान्धूमत्वादित्यनुमानं द्रष्टव्यम् ॥ लौकिका इति । तथा च त्वदुक्तकुसृष्टिमजानतामपि लौकिकानामूर्ध्वदेशे धूमदर्शनेनाधोदेशे वन्हिविषयस्वार्थानुमितेस् तदनुसारिपरार्थानुमितेश्च दर्शनान्नैवं लौकिकप्रतीतिरिति भावः ॥ निर्मूलत्वादिति । तथा चान्योन्याश्रम इति भावः ॥ आस्थीयत इति । अन्यथा परिमाणभेदानुपपत्तेरिति भावः ॥ कार्येति । तथा च पतनरूपकार्योत्पत्तिकाले गुरुत्वं नास्ति । एतदुपपादनायैव प्राग्देहादीनामिति वाक्यं प्रवृत्तम् ॥ विभिन्नद्रव्याश्रयत्वादिति । क्षणिकत्वेनैकत्र पतनगुरुत्वयोरभावादिति भावः ॥ अतः कस्यचिदिति । किमर्थं तर्हि विमतो गौर्गवयसदृशो गवयगतसादृश्यप्रतियोगित्वादिति प्रमाणलक्षणटीकायां साध्यसाधनयोः सामानाधिकरण्यसम्पादनमिति चेन्न ॥ तस्य परमतमाश्रित्य प्रवृत्तत्वात् । अत एव तत्रैव ‘इति प्रयेगसम्भवादि’त्युक्तम् । पद्धतौ ‘चासौ गौरेतद्गवयसदृशोऽस्य गवयस्य तत्सदृशत्वादि’ति वैयधिकरण्येनैव प्रयोगो दर्शित इत्यवधेयम् ।
परिमल
व्याप्त्यभावाद्वेति प्राग्विकल्पितद्वितीयपक्षं विवरणपूर्वं शङ्कित्वा निराह स्यादेतदित्यादिना ननु व्यधिकरणस्येत्यतः प्राक्तनग्रन्थेन ॥ सम्मतविषय इति । रोहिण्युदय आसन्न इत्यादौ तत्प्रामाण्यमाप्तप्रामाण्यादित्यादौ च विमतः काल इति प्रागुक्तरीत्या विपरिणाम इत्यर्थः ॥ अत एवेति । एतद्-व्याप्तेरेकाश्र(य घटितत्वा)यावृत्तित्वादेवेत्यर्थः । एतेन तथा च वक्ष्याम इति प्रागुक्तं स्पष्टीकृतं भवति ॥ विभिन्नद्रव्याश्रयत्वादिति । प्रतिक्षणपरिणामः भेदोपलम्भेन देहलताफलादीनां क्षणिकत्वमिति पक्षे यत्र पतनं तत्रत्यं गुरुत्वं न तस्य कारणं नैककालीनत्वात् । किन्तु पूर्वपूर्वक्षणिकद्रव्यगतमेव गुरुत्वम् उत्तरोत्तरदेहादिद्रव्यगतपतनहेतुरिति वाच्यम् । तथाच हेतुसाध्ययोर्वैयधिकरण्यमिति भावः ।
यादुपत्यम्
अविनाभावमात्रस्येति । अनेन व्याप्तत्वेऽविनाभावरूपव्याश्रयत्वं सामानाधिकरण्यरूपसम्बन्धविशेषाभावः कथं दूषणमिति द्वितीयपक्षोत्तरत्वेनापि मूलं योजितमित्यवगन्तव्यम् ।
श्रीनिवासतीर्थीया
धूम इति । ततश्च धूमो मूलेऽग्निमान्धूमत्वादित्यनुमानं द्रष्टव्यम् । आस्थीयते परिमाणभेदेनावयवोपचयाभ्यां वेति शेषः ॥ कार्येति । तथा च पतनरूपकार्योत्पत्तिकाले गुरुत्वं नास्ति । एतदुपपादनायैव प्राक् ‘देहादीनामि’ति वाक्यं प्रवृत्तम् । विभिन्नेति । देहादीनां क्षणिकतापक्षे कारणीभूतगुरुत्वाश्रयकार्यभूतपतनाश्रयदेहयोर्भिन्नत्वादिति भावः ।
वाक्यार्थरत्नमाला
पृथगनिरासादिति । अनिरासात्प्राप्ता या मूले न्यूनता तामित्यर्थः । व्याप्तिर्व्याप्तं भावे क्त इति मनसि निधाय व्याप्तत्व इत्यनूद्य विवक्षितमर्थमाह । व्याप्तत्वे अविनाभावेति । घटगतकृतकत्वस्येत्यादि । अत्र वस्तुत इति प्रागभिधानाद्वस्तुतो घटगतं कृतकत्वमित्यादिकमेव विवक्षितम् । न तु घटस्य कृतकत्वादित्यादि हेतुविणाभिप्रायेणेति द्रष्टव्यम् । प्रमाणलक्षणटीकायामिति । उपलक्षणमेतत् । उपमानान्तर्भाव तत्वनिर्णयटीकायां गवयगतसादृश्यप्रतियोगित्वस्य लिङ्गत्वेनाङ्गीकाराद्वेत्युक्तमित्यपि ज्ञेयम् ।