१५ प्रश्नदोषाः

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः सिद्धार्थता च वैफल्यं

प्रश्नदोषाः

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः सिद्धार्थता च वैफल्यं

सुधा

सिद्धेऽर्थे संशयो न युज्यते । ततो विकल्पप्रश्नोऽपीत्युक्तम् । तत्र न युज्यत इति कोऽर्थः । न तावन्नोत्पद्यत इति । संशयविकल्पप्रश्नोत्पत्तेः प्रमितत्वात् । न चोत्पन्नोऽपि निष्कारण इति । अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात् । नाप्यतत्कारणादुत्पन्न इति । यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात् । न चान्यदनुपपन्नत्वमस्तीत्यत आह प्रश्नेति ।

अनुव्याख्यानम्

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ॥

सिद्धार्थता च वैफल्यं ……. …….

विकल्पप्रश्नदोषाः । प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्तः । स्वव्याहतिर्यथा । वन्ध्या किं पुत्रवती न वेति । असङ्गतिर्यथा । ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणमुतानुमितिरिति । सिद्धार्थता तु प्रकृतैव । वैफल्यं यथा । काकस्याष्टौ दश वा दन्ता इति । वैफल्यमित्यतःपरमितिशब्दोऽध्याहार्यः ।

वाक्यार्थचन्द्रिका

स्वव्याहत्यादिप्रतिबन्द्या अत्रोपपादयिष्यमाणस्याप्रतिपत्तिविप्रतिपत्ति रूपोभयलिङ्गत्वेन सिद्धार्थतायाः प्रश्नदूषणत्वस्यानेककोट्यवलम्बितया सन्देहमूलके ‘भेदोऽभेदोऽथवा द्वन्द्वमि’त्यादिप्रश्ने सम्भवेऽप्यज्ञानमूलकेषु देवदत्त कियन्तस्तव तनया इत्याद्येककोट्यवलम्बिप्रश्नेषु तेषामज्ञानमूलकतया सिद्धार्थताया अप्रतिपत्तिलिङ्गतया दूषणत्वसम्भवेऽपि संशयमूलकत्वेन वक्ष्यमाणरीत्या विप्रतिपत्तिलिङ्गत्वेन दूषणत्वस्यासम्भवादनुपपत्त्या प्रश्नशब्दस्य प्रश्नमात्रपरत्वासम्भवात्संशयमूलकप्रश्नपरत्वमेव तस्येत्यभिप्रेत्य प्रश्नदोषपदं व्याचष्टे विकल्पप्रश्नदोषा इति । यद्यपि तत्त्वोद्योतटीकोक्तरीत्या देवदत्त कियन्तस्तव तनया इत्यादिप्रश्नानामपि सन्देहमूलकत्वादज्ञानमूलकत्वाभावेन सिद्धार्थतायाः प्रश्नमात्रेऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वेनैव दूषणत्वसम्भवात्प्रश्नपदस्य विपरत्वाश्रयणमनर्थकमित्याभाति । तथाऽपि भेदोऽभेदोऽथवा द्वन्द्वमित्यनेककोट्यवलम्बिप्रकृतप्रश्नस्य सन्देहमूलताया उभयवादिसिद्धत्वेन तत्र सिद्धार्थतया अप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वेन दूषणतासमर्थनमात्रेणैव प्रकृतप्रश्नानुपपत्तिसमर्थनसिद्धौ प्रश्नमात्रे सन्देहमूलकत्वव्युत्पादनपूर्वकं सिद्धार्थताया अप्रतिपत्त्यादिलिङ्गत्वेन दूषणत्वोपपादनेन न किञ्चित्प्रयोजनमित्यङ्गीकृत्याज्ञानमूलकत्वं देवदत्त कियन्तस्तव तनया इत्यादिप्रश्नानामेतद्ग्रन्थप्रवृत्तेरदोषः । अत एव ‘अस्तु वाऽन्यत्र यथा तथा । अनेककोट्यवलम्बी प्रकृतः प्रश्नस्तावत्सन्देहमूल एवाङ्गीकरणीय’ इत्यादिनोदाहृतप्रश्नानामज्ञानमूलकत्वमभ्युपेत्यानेककोट्यवलम्बिप्रश्नत्वावच्छेदेनैव सन्देहमूलत्वनियमवर्णनं टीकाकाराणामिति द्रष्टव्यम् । तातचरणास्तु । विदिततत्वेन पुरुषेण परपरीक्षार्थं कृते प्रश्ने सिद्धार्थताया दूषणत्वप्रसङ्गपरिहाराय विकल्पपदम् । न चैवमपि तेनैव कृतेऽनेककोट्यवलम्बिप्रश्ने तस्यादोषत्वप्रसङ्गतादवस्थ्यम् । विकल्पपदोपादानमहिम्ना प्रश्नपदस्य संशयमूलकप्रश्नपरत्वलाभेन तदप्रसङ्गादित्यभिप्रायमाहुः । स्वव्याहत्यादिवत्प्रश्नदोषत्वेन क्लृप्ततयाऽवश्यं वक्तव्यायाः प्रमाणव्याहतेरनभिधानाद्विभागन्यूनतामाशङ्क्य परिहरति प्रमाणेति ॥ सिद्धार्थतैवेति । घटस्य मृन्मयत्वे प्रमाणसिद्धे सति घटः किं मृन्मयोऽथामृन्मय इति विकल्पप्रश्नस्य द्वितीयकोट्यंशे प्रमाणव्याहत्या सिद्धार्थतायामन्तर्भावान्न पृथगुक्तिरित्यर्थः ॥ इतिशब्दोऽध्याहार्य इति । अन्यथा स्वव्याहत्यादेः प्रत्येकं चतुष्टयरूपताभ्रान्तिः स्यादिति भावः ।

परिमल

ननु चत्वार इति कथम् । पञ्चेति वक्तव्यम् । प्रमाणव्याहतिरूपदोषस्यापि सत्वादित्यतोऽन्तर्भावं परिगणितेष्वाह प्रमाणव्याहतिस्सिद्धार्थतैवेतीति । घटस्य मृण्मयत्वे प्रमाणसिद्धे सति घटः किं मृण्मयोऽथामृण्मय इति विकल्पप्रश्नस्य द्वितीयकोट्यंशे प्रमाणव्याहत्यादिसिद्धार्थतायामन्तर्भावान्न पृथगुक्तेत्यर्थः ।

यादुपत्यं

विकल्पप्रश्नदोषा इति । अत्र विकल्पपदं प्रकृतप्रश्नाभिप्रायेण । प्रकृतप्रश्ने हि सिद्धार्थताया, व्याहत्यादिदृष्टान्तेनाप्रतिपत्तिविप्रतिपत्तिरूपोभयलिङ्गत्वेन दूषणत्वमुपपाद्यते । तच्च नाज्ञानमात्रमूलकेष्वविकल्परूपेषु ‘देवदत्त कियन्तस्तव तनया’ इत्यादिप्रश्नेषु सम्भवति । तत्र सिद्धार्थताया अप्रतिपत्तिलिङ्गत्वेन दूषणत्वसम्भवेऽपि प्रश्नस्य संशयमूलकत्वाभावेन वक्ष्यमाणरीत्या विप्रतिपत्तिलिङ्गत्वेन दूषणत्वस्यासम्भवात् । यत्तु तत्त्वोद्योतटीकायां तत्रापि कथञ्चित्संशयमूलकत्वमुपपादितं तदभ्युच्चयवादेनैव न वस्तुतः । अत एव तत्रैव ‘अस्तु वाऽन्यत्र प्रश्ने यथातथे’त्यग्रे उक्तम् । अत उभयलिङ्गत्वेन प्रकृतप्रश्ने सिद्धार्थत्वस्य दूषणत्वमुपपादयितुं विकल्पपदम् । तदप्ययोगिकृतविकल्पप्रश्नपरम् । तेन योगिकृतेषु विकल्पप्रश्नेषु सिद्धार्थताया दोषत्वाभावात्कथमेतदिति शङ्काऽनवकाश इति ध्येयम् ॥ सिद्धार्थतैवेतीति । अन्यतरकोटेर्निर्णयादिति भावः ।

श्रीनिवासतीर्थीया

सिद्धार्थतैवेति । इदं भवति न वेति नानाकोटिकप्रश्ने एककोटौ यदि प्रमाणव्याहतिः प्राप्ता तदाऽपरकोटेः सिद्धत्वप्राप्त्या स प्रश्नः सिद्धविषयको जात इत्यर्थः । नानाकोटिक प्रश्न एव यदि प्रमाणव्याहतिस्तदैवोक्तरीत्या सिद्धार्थत्वं न तु सर्वत्रापि प्रमाणबाधे सति सिद्धार्थत्वमिति ध्येयम् ।

वाक्यार्थरत्नमाला

अप्रतिपत्तिविप्रतिपत्तिरूपोभयलिङ्गत्वेनेति । सिद्धार्थप्रश्नस्य विकल्पप्रश्नोहि सन्देहमूल इत्यादिमूलोक्तरीत्या तदुभयानुमापकत्वेनेत्यर्थः । प्रश्नदूषणत्वस्येति । प्रश्ने सम्भवेपीत्युत्तरेण सम्बन्धः । एककोट्यवलंबिप्रश्नेष्विति । अप्रतिपत्तीत्यादिदूषणत्वस्येत्यन्तमनुवर्तते । तस्य चानुपपत्येति वक्ष्यमाणेनान्वयः । तत्र हेतुस्तेषामित्यादि । तत्र सिद्धार्थताया इति पाठः । समर्थनसिद्धौ प्रश्नमात्र इत्येवपाठः । किंप्रश्नेति किंशब्दो लेखकागतोऽधिकः । न किञ्चित्प्रयोजन मित्युत्तरत्रोक्तेः । किं प्रयोजनमितीति । इत्यतो हेतोरिवेत्याशयेनेतिवेतिशब्दार्थः । इत्यादिप्रश्नानामज्ञानमूलकत्वमेवाङ्गीकृत्येति सम्बन्धः । टीकाकाराणामिति । तत्वोद्योतटीकायामिति शेषः ।