०२ एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः

**अथ तृतीयाध्यायस्य द्वितीयः पादः **

एतत्पादीयपूर्वपक्षसिद्धान्तयुक्तयः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः

सुधा

‘भक्तिरस्मिन्पादे उच्यते । भक्त्यर्थं हि भगवन्महिमोक्तिरि’ति पादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तूत्तरत्र वक्ष्याम इत्याशयवानेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाह पश्चादिति ।

अनुव्याख्यानम्

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ॥

स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥

गुणसाम्यमयोगश्च तर्कबाधो विलोमता ॥

नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ।

अशक्यकर्तृताशक्तिः स्वतो बोधस्तथैव च ॥

अमानक्लृप्तिसन्मानव्यवस्थाऽत्यल्पता भवाः ॥

विदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ॥

अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥

पूर्वपक्षगाः पूर्वपक्षसम्बन्धिन्यः । निर्णयप्रमाः सिद्धान्तनिर्णयार्थानि प्रमाणानि ।

वाक्यार्थचन्द्रिका

यद्विद्याधिशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

एकवाक्यत्वादिसिद्ध्यर्थतयाऽवश्यवक्तव्यपादप्रतिपाद्यसङ्गत्योरकथनेन प्रसक्तामनुव्याख्याने न्यूनतां तदनुक्तौ निमित्तकथनेन परिहरन्नेव पश्चाददृष्टीत्युत्तरग्रन्थानर्थक्यमाशङ्क्य परिहरति भक्तिरित्यादिना । उत्तरत्र तृतीयपादे ॥ वक्ष्याम इति । ‘वैराग्यतो भक्तिदार्ढ्यमि’त्यादिनेति शेषः ॥ सङ्ग्रहेणेति । भाष्य एव सूत्राणां स्पष्टार्थतया सर्वत्र वक्तव्यविशेषाभावात्सङ्ग्रहः । परमाख्यविद्याव्याख्यां करोमीति प्रतिज्ञासिद्ध्यर्थत्वाच्च वचनमिति भावः । अमूर्तानां युकत्तीनां पूर्वपक्षं प्रति गमनानुपपत्तेराह पूर्वपक्षसम्बन्धिन्य इति । प्रमाया निर्णयत्वाव्यभिचारान्निर्णयपदानर्थक्यं युक्तीनामप्रमितिरूपत्वात्प्रमाशब्दस्य प्रमितिपरत्वानुपपत्तिश्चेत्यतोऽत्र निर्णयशब्दस्य सिद्धान्तनिर्णयपरत्वं प्रमाशब्दस्य प्रमाणपरत्वं शाकपार्थिवादित्वं चाभिप्रेत्य व्याख्याति सिद्धान्तेत्यादि ।

परिमल

आदावेव न्यायसङ्ग्रहोक्तेरनवसरदुःस्थत्वमाशक्याह भक्तिरिति ॥ उत्तरत्रेति । उपरितनपाद इत्यर्थः ॥ सङ्ग्रहेणाह पश्चादितीति । अत्रायं विवेकः । सन्ध्ये सृष्टिराह हि । पश्चाददृष्टिः, अशक्यकर्तृताशक्तिः ॥ पराभिध्यानात् । अविज्ञानं, स्वतो बोधः ॥ देहयोगाद्वासोऽपि । कालस् तथै(दे)वचेति अस्वातन्त्र्यादिनिबन्धनः स्वतो बोध एवात्रापि मानमित्यर्थः ॥ तदभावो नाडीषु । दुःखम् अमानक्लृप्तिः ॥ अतः प्रबोधोऽस्मात् । पृथग्भवः, सन्मानम् ॥ मुग्धेऽर्धसम्पत्तिः । पृथग्भवः, सन्मानम् ॥ न स्थानतोऽपि । स्थानभेदः, व्यवस्था । अरूपवदेव हि । विरुद्धत्वं, व्यवस्था ॥ अत एव चोपमा । न्यायसाम्यं, अत्यल्पता ॥ अम्बुवदग्रहणात् । स्वतो भवः, भवः ॥ वृद्धिह्रासभाक्त्वम् । गुणसाम्यं, विदृष्टिः ॥ प्रकृतैतावत्त्वं हि । अयोगः, विवाक्यं, चकारादन्नदानाद्युपपत्तिश्च ॥ तदव्यक्तमाह हि । तर्कबाधः, पुंशक्तिः ॥ उभयव्यपदेशात् । विलोमता, सुनिदर्शनम् ॥ परमतः ॥ विलोमता, अलौकिकत्वम् ॥ स्थानविशेषात् । नानाभाव आधिक्यम् ॥ तथान्यत् । नानाभावः, आधिक्यम् ॥ अनेन सर्वगतत्वम् । नानाभावः, स्वातन्त्र्यम् । फलमत उपपत्तेः । प्रलोभः, स्वातन्त्र्यमिति । अकर्तरि च कारके संज्ञायामिति करणे घञ्प्रत्ययः, माङ्मान इति धातुरिति भावेनाह सिद्धान्तनिर्णयार्थानीति ।

यादुपत्यम्

उत्तरत्रेति । उपासनापाद इत्यर्थः ।

वाक्यार्थरत्नमाला

श्रीगुरुराजवर्यो विजयतेऽतितराम् ॥ एकवाक्यत्वादीति । आदिपदेन पूर्वोत्तरपादभेदस्यासङ्गतिशङ्कानिरासस्य च परिग्रहः । पूर्वपाद इव विवेकः । उत्तरत्रेत्यनुवादेन तृतीयपाद इति व्याख्यानम् । तृतीयाध्याय तृतीयपाद इत्यर्थः । अमूर्तानामिति । कर्म मूर्तद्रव्यसमवेतमिति व्यावस्थापनादिति भावः । ननु सिद्धान्तनिर्णयप्रमाणानीत्युक्ते निर्णयरूपत्वं प्रमाणानामित्यापन्नमित्यतो निर्णयार्थानि प्रमाणानीति विग्रहाश्रयणात्प्रमाणानां निर्णयार्थत्वस्यैव लाभेन निर्णयरूपत्वालाभान्न दोष इत्यभिप्रेत्य तथा सति निर्णयार्थप्रमा इत्येव भवितव्यमिति दोषमुद्धर्तुमाह । शाकपार्थिवादित्वं चेति । यथाहि शाकप्रियः पार्थिवः शाकपार्थिव इत्यादि समासः प्रियपदादिलोपश्च, तथा निर्णयार्थानि प्रमाणानि निर्णयप्रमाणानीति शाकपार्थिवादीनामुत्तरपदलोपश्चेत्यनेन समासोत्तरमर्थपदलोपश्च भवतीत्येतदर्थं शाकपार्थिवत्वादिकमाश्रयणीयमिति भावः ॥