०१ प्रथमपादपूर्वपक्षसिद्धान्तन्यायाः

स्वाभाविकान्यथानाम सहभावान्यथोक्तयः

अथ तृतीयाध्यायस्य प्रथमः पादः

॥ प्रथमपादपूर्वपक्षसिद्धान्तन्यायाः ॥

श्रीमज् जयतीर्थ (टीकाकृत्पादाचार्य) विरचिता

सनाभिः

न्यायसुधा

षट्टिप्पणीसमेता

अथ तृतीयाध्यायस्य प्रथमः पादः

॥ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मक लक्ष्मीहयग्रीवाय नमः ॥

प्रथमपादपूर्वपक्षसिद्धान्तन्यायाः

सुधा

कुपिताहिफणच्छायासमीकृत्यापरं सुखम् ।

सेवन्ते यत्पदं धीरास्तं भजे वल्लभं श्रियः ॥

साधनविचारोऽयमध्यायः । ‘‘वैराग्याय गत्यादिनिरूपणा’’ प्रथमपाद इत्यध्यायपादप्रतिपाद्यं भाष्य एव स्फुटम् । सङ्गतिं तु लाघवायैकीकृत्योपरि वक्ष्याम इत्याशयवांस्तृतीया(ध्याय)द्यपादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाह स्वाभाविकेति ।

अनुव्याख्यानं

स्वाभाविकान्यथानाम सहभावान्यथोक्तयः ॥

अविविशेषौ च सहभावो विमिश्रता ॥

विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ॥

युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतो भवौ ॥

उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ॥

योग्यता बलवत्त्वं च विभागः कारणाभवः ॥

क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥

साधका इति वक्ष्यमाणं पूर्वपक्षस्येत्यत्रापि सम्बध्यते । पूर्वपक्षस्य सिद्धान्तस्येति जातावेकवचनम् । साधका इति छान्दसो निर्देशः ॥ यद्वा युक्तयः पूर्वपक्षस्येत्यत्र साधका इति नाकृष्यते । पूर्वपक्षसम्बन्धिन्यो युक्तय इत्येवार्थः । सिद्धान्तस्यैव साधका इत्यत्र तु न्याया इति शेषः ।

वाक्यार्थचन्द्रिका

सर्वाभीष्टप्रदं रामं सर्वानिष्टनिवारकम् ॥

जानकीजानिमनिशं वन्दे मद्गुरुवन्दितम् ॥ १ ॥

वेदव्यासं तथाऽनन्दतीर्थं जयमुनिं गुरुम् ॥

व्यासतीर्थं गुरून्सर्वानभिवन्द्य यथामति ॥ २ ॥

सुधाया भावगूढायास्तृतीयाध्यायपञ्चिका ॥

प्रकाश्यते केशवेन गुरुराजोक्तमार्गतः ॥ ३ ॥

विद्वन्मतेभकुम्भाद्रिविपाटनविचक्षणः ॥

विद्याधीशनृसिंहो मे गुरुनित्यं भवेन्मुदे ॥ ४ ॥

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥ ५ ॥

एतदध्यायगतपादचतुष्टयप्रतिपाद्यगुणविशिष्टतयेष्टदेवतास्तुतिपूर्वकं तत्सेवारूपं मङ्गलमादावाचरति कुपितेति । अत्रापरं विषयजन्यं सुखम् । ‘कुपिताहिफणच्छायासमीकृत्ये’त्यनेन वैराग्यरूपं पूर्वपादार्थः । भजन्त इत्यर्थकसेवन्त इत्यनेन द्वितीयपादार्थः । समीकृत्येति क्त्वादेशल्यप्प्रत्ययेन पूर्वपादार्थस्य द्वितीयपादार्थेन हेतुहेतुमद्भावः । उपासार्थकसेवन्त इत्यनेनैव तृतीयपादार्थः । धिया रमन्ते ते धीरा इत्यर्थकधीरा इति विणेन च ज्ञानमात्रेणापेक्षितपुरुषार्थप्राप्तिसूचनाच्चतुर्थपादार्थश्च दर्शित इति द्रष्टव्यम् । यद्यपि पूर्वपदार्थबाहुल्ये गम्यमाने छायान्तस्य तत्पुरुषस्य ‘छाया बाहुल्य’ इति नपुंसकत्वविधानात् ‘‘ह्रस्वो नपुंसक’’ इति ह्रस्वतायां च सत्याम् इक्षूणां छायेक्षुच्छायमितिवत्फणानां छाया फणच्छायमिति नपुंसकत्वह्रस्वत्वयो सतोः फणच्छायं समीकृत्येति भवितव्यम् । तथाऽपीक्षुच्छायानिषादिन्य इत्यादावासमन्तान्निपदिन्य इत्याङ्प्रश्लेषवदिहाप्याङ्प्रश्लेषाश्रयणाच्छायासमीकृत्येत्यस्य साधुत्वमित्यवधेयम् । केचित्तु फणस्य छायेति विग्रहाश्रयणेन पूर्वपादर्थबाहुल्यस्यागम्यमानतया नपुंसकत्वाद्यप्राप्तेश् छायासमीकृत्येत्यस्य साधुत्वमित्याहुः ।

एकवाक्यत्वादिसिद्ध्यर्थतयाऽवश्यवक्तव्यानामध्यायपादप्रतिपाद्यसङ्गतीनामनुक्त्या प्रसक्तामनुव्याख्याने न्यूनतां तन्निमित्तकथनेन परिहरन्नेवोत्तरग्रन्थवैयर्थ्यमाशङ्क्य तत्प्रयोजनमाह साधनेति । उपरि उपासनापादे ॥ वक्ष्याम इति । ‘वैराग्यतो भक्तिदार्ढ्यमि’ त्यादिनेति शेषः ॥ सङ्ग्रहेणेति । एतत्पादीय सूत्राणां भाष्य एव स्पष्टार्थतया तत्र वक्तव्यविशेषाभावात्सङ्ग्रहः । परमाख्यविद्याव्याख्यांकरोमीति प्रतिज्ञासिध्यर्थत्वाच्च कथनमिति भावः ॥ पूर्वपक्षस्येत्यत्रापीति । उपलक्षणं चैतत् । युक्तय इत्येतदपि सिद्धान्तस्यैव साधका इत्यत्रापि सम्बध्यत इत्यपि द्रष्टव्यम् । ततश्च नोभयत्रापि साकांक्षत्वप्रयुक्तवाक्याभासतेति भावः । पूर्वपक्षव्यक्तीनां सिद्धान्तव्यक्तीनां च बहुत्वात् ‘बहुषु बहुवचनमि’ति पूर्वपक्षाणां सिद्धान्तानां चेति बहुवचनेन भवितव्यम् । पूर्वपक्षस्येत्याद्येकवचनं तु कथमित्यतो व्यक्तीनां बहुत्वेऽपि जातिरूपार्थस्यैकत्वात्तद्विवक्षया ‘द्य्वेकयोर्द्विवचनैकवचने’ इत्यनेनैकवचनप्राप्तेर्नानुपपत्तिरित्याशयेनाह जाताविति । यद्वा जातिपदं जातिव्यङ्ग्यसादृश्यपरम् । सिद्धान्ते व्यक्तिवज्जातेरप्यनेकत्वेन तद्विवक्षयाऽप्येकवचनानिर्वाहात् । यद्यपि च स्वमते जातिवत्सादृश्यमप्यनेकमेवेति न तदैक्यमपि विवक्षितुं शक्यम् । तथाऽपि त्रिविक्रम एकेन पादेनोर्ध्वलोकमन्येन चाधोलोकमिव सादृश्यं प्रतियोगित्वरूपसम्बन्धेन धर्मित्वरूपसम्बन्धेन च सर्वसम्बन्धीत्यनुगततुल्यमेवेति युक्तमेव तदेकत्वविवक्षयैकवचनमिति द्रष्टव्यम् । ननु प्रत्ययस्थात्कात्पूर्वस्यात ‘‘इदाप्यसुप’’ इति प्रत्ययस्थककारात्पूर्वस्याकारस्य आपिपरत इकारविधानादिकारे सति साधिका इति भवितव्यम् । तत्कथं साधका इति निर्देश इत्यतश्छन्दसि सर्वे विधयो विकल्प्यन्त इति सर्वविधीनां छन्दसि वैकल्पिकत्वस्याभ्यनुज्ञानादाचार्यवाक्यस्यापि परमर्षिवाक्यत्वेन छन्दस्तुल्यत्वादिकाराभावपक्षे साधका इति निर्देशेऽप्युपपन्न एवेत्याशयेनाह साधका इति छान्दसो निर्देश इति । आचार्यवाक्यस्य छन्दस्तुल्यत्वे विप्रतिपद्यमानं प्रति प्रकारान्तरमाह यद्वेति । उपलक्षणं चैतत् । सिद्धान्तस्य साधका इत्यत्र युक्तय इत्यपि नानुवर्तत इति द्रष्टव्यम् । तर्हि साकाङ्क्षत्वाद्वाक्यद्वयस्याप्याभासता स्यादित्यतस्तां परिहरति पूर्वपक्षेत्यादिना ।

**परिमल **

एतदध्याये निरूपयिष्यमाणसाधनस्वरूपं सूचयन् मङ्गलमाचरति कुपितेति । अपरं विषयजन्यम् । सेवन्ते भक्तिश्रवणमननध्यानज्ञानैर्विषयीकुर्वन्ति । यत्पदं यस्य स्वरूपम् । समीकृत्येति ल्यबन्तप्रयोगेण आद्यपादार्थस्य वैराग्यस्य भक्त्यादौ हेतुत्वात्तस्य प्राथम्यमुचितमिति सूचितम् । धीरा ज्ञानिनः धैर्योपपन्ना वा । नन्वत्र ‘छायाबाहुल्ये’ इति छायाशब्दे ह्रस्वत्वं कुतो न भवति । इक्षुच्छायमित्यादाविवेति चेदुच्यते । छायानिरूपकबाहुल्ये विवक्षिते हि तत् । न ह्यत्रेक्षूणामिव फणस्य बाहुल्यं विवक्षितम् । अतो न दोषः । अत एव द्वितीयस्य तृतीयपादे छायाबाहुल्ये इति सूत्रवृत्तौ बाहुल्यं पूर्वपदार्थस्य धर्म इत्युक्तम् । ‘विभाषासेनासुराच्छाये’ति विकल्पितत्वान्न दोष इत्येके उपरीति । उपासनापादे पूर्वपक्षसिद्धान्तयुक्तीः सङ्ग्रहेणाहेति ॥ तत्रायं विवेकः । तदन्तरप्रतिपत्तौ । स्वाभाविकं पूर्वपक्षस्य युक्तिः, गुणाधिक्यं सिद्धान्तयुक्तिः ॥ त्र्यात्मकत्वात् । अन्यथानाम, अर्थतो भवः । प्राणगतेश्च । सहभावः, उपपत्तिः ॥ अग्न्यादिगतिश्रुतेः । अन्यथोक्तिः, द्विरूपत्वम् । प्रथमे श्रवणादिति चेत् । अविशेषः, आधिक्यम् ॥ अश्रुतत्वादिति चेत् । अविशेषः, अनुरूपता । भाक्तं वाऽनात्मवित्त्वात् । विशेषः, योग्यता । कृतात्ययेऽनुशयवान् । सहभावः, योग्यता ॥ यथेतमनेवं च । सहभावः, योग्यता ॥ चरणादिति चेत् । सहभावः, योग्यता ॥ अनिष्टादिकारिणामपि च श्रुतम् । विमिश्रता, बलवत्त्वं च । अपि सप्त । विरुद्धोक्तिः, विभागः । तत्रापि च तद्-व्यापारात् । सहस्थानं, कारणाभवः ॥ विद्याकर्मणोरिति तु । सहस्थानं, कारणाभवः । न तृतीये तथोपलब्धेः सहस्थानं कारणाभावः । तत्स्वाभाव्यापत्तिः सहस्थानं कारणाभावः । नातिचिरेण सहस्थानं कारणाभावः । अन्याधिष्ठिते सहस्थानं कारणाभावः । रेतस्सिग्योगोऽथ वैयर्थ्यं (ईश)क्लृप्तिः । योनेः शरीरम् अन्यथा गतिर् अन्या गतिः । ननु साधका इति कथम् । युक्तिविणत्वेन स्त्रीलिङ्गत्वापत्त्या प्रत्ययस्थाकात्पूर्वस्यात ‘इदाप्यसुप’ इति सूत्रेण साधिका इति भाव्यम् इत्यत आह साधका इति च्छान्दसो निर्देश इति ।

यादुपत्यं

विषयविरतिजातस्नेहमाहात्म्यबुद्धि

प्रचयजनितयोग्यध्यानतो यस्य सन्तः ॥

निजमनसि विलोक्य प्राप्नुवन्ति प्रसादं

निजसुखततिहेतुं श्रीपतिं तं नमामि ॥ १ ॥

व्यासपादाम्बुजे ध्यात्वा मध्वमानससंस्थिते ॥

व्याकरिष्ये सुधाऽस्पष्टतृतीयाध्यायफक्किकाः ॥ २ ॥

अपरं विषयोत्थम् ॥ सेवन्त इति । उपासते जानन्ति चेत्यर्थः ॥ धीरा भक्तिदार्ढ्यवन्तः । तेनैतदध्यायीयपादचतुष्टयार्थोऽत्र सङ्क्षेपतः सूचितो भवतीति ज्ञातव्यम् । उपरि उपासनापादे ॥ छन्दस इति । अन्यथा प्रत्ययस्थात्कात्पूर्वस्यात ‘इदाप्यसुप’ इत्यनेनेकारे सति साधिका इति स्यादिति भावः ॥

श्रीनिवासतीर्थीया

ननु फणच्छायासमीकृत्येति कथम् । फणानां छाया फणच्छायमिति भवति । तथा च समासे फणच्छायसमीकृत्येति भवेत् । छायाबाहुल्ये बाहुल्यम् । तच्चेत्पूर्वपदार्थस्य विवक्षितं तर्हि छायान्तस्तत्पुरुषो नपुंसकं स्यादित्युक्तेः । अत्र च षष्ठीतत्पुरुषस्य विवक्षितत्वात् । अत एवेक्षुच्छायनिषादिन्य इति रघुवंशे प्रयोग इति चेत् । सत्यम् । तत्र हीक्षूणां बहुत्वं यथा विवक्षितं तद्वदत्र न फणानां बहुत्वं विवक्षितम् । किन्त्वहिफणस्यैकत्वमेव । तथा चाहिफणस्य छायेत्येव विग्रह इति नोक्तदोष इति ध्येयम् ॥ नाकृष्यत इति । येन युक्तिविणत्वप्राप्त्या छान्दसो निर्देश इति समाधेयं स्यादिति इति ।

वाक्यार्थरत्नमाला

वेदव्यासं पूर्णबोधं जयव्यासमुनी तथा ॥

विद्याधीशं महापूज्यं मद्गुरुं च सदा भजे ॥

टीकाकारो मङ्गलमाचरति ॥ सर्वाभीष्ठेति ॥ आतोऽनुपसर्गेक इत्यनेन सोपसर्गत्वेन आकारान्ताद्ददातेः कप्रत्ययाप्राप्तावपि सोपसर्गार्थं प्रवृत्तेन प्रदोज्ञ इति सूत्रेण प्रशब्दोपसृष्टाद्ददातेर्जानातेश्च कप्रत्यय विधानात्प्रदमित्युक्तम् ॥ एतेनात इत्यनेन काप्रवृत्तौ कर्मण्यणित्यणि आतोयुगिति युकि गोसन्दाय इतिवत्प्रदायमित्यापद्येतेति शङ्का गर्भस्रावेणैव गता ॥ शिष्टमुत्तराध्यायप्रथमपद्यव्याख्यावसरे वक्ष्यते । सर्वानिष्ठेति । आध्यात्मिकाधिदैविकाधिभौतिकभेदभिन्नाशेषानिवृत्तिनाशकमित्यर्थः ॥ तृजकाभ्यां कर्तरीत्यनेन कर्तृषष्ट्या समासनिषेधेऽपि षष्ठ्याः समासनिषेधाभावात् सर्वानिष्टानां विनाशकमिति षष्टीसमासो युक्तः । एतच्च मोक्षादिदातृत्वस्य श्रुतत्वत इत्येतदनुव्याख्यानसम्बन्धिमूलव्याख्यावसरे टीकायां विशदीभविष्यति । जानिकीजानिमिति । जानकी जाया यस्येति जायान्तबहुव्रीहेर्जायायानिङिति सूत्रेण निङादेशे निङो ङित्वात् ङिच्चेति अन्त्यस्य अकारस्यैव तत्प्राप्तौ लोपो व्योर्वलीति यलोपे लक्ष्मीजानिरूपवज् जानकीजानिरूपं साधु । न कोपधाया इति निषेधाद्भाषितपुंस्कत्वेऽपि पुंवद्भावे इति न स्त्रीप्रत्ययलोपप्रसङ्गः । अधिकं युक्तिपादीयटीकापद्यव्याख्यानावसरे प्रागुक्तम् ।

सूत्रकर्त्रादिप्रणामपूर्वकं चिकीर्षितं प्रतिजानीते । वेदव्यासमित्यादिश्लोकद्वयात्मककुलेन । अत्र गुरुमिति स्वगुरुविद्याधीशतीर्थग्रहणम् । उत्तराध्याये सर्वानिति पदस्थाने साक्षादिति पठितम् । अत्र तु गुरुपदस्यानन्दतीर्थादिविणत्वमेवाभिप्रेतमिति न तत्र पुनरुक्तिशङ्कावकाशः । अत्रापि गुरुमित्यस्य वृत्तौ आनन्दतीर्थगुरुं जयमुनिं गुरुं व्यासतीर्थमिति तत्वोपदेशकत्वेन गुरुशब्दस्य आनन्दतीर्थादिविणत्वमित्यप्याहुः । सर्वान् गुरूनिति सम्बन्धः । यथामति प्रकाश्यत इति सम्बन्धः । भावगूढायाः सुधाया यस्तृतीयाध्यायस् तत्पञ्चिकेति नित्यसापेक्षत्वात्समासः । आदावाचरतीति । आदावित्येतदुत्तरत्र ग्रन्थव्याख्यानाभिप्रायेण । कथमेतदध्यायगतपादचतुष्टयार्थप्रतिपादकत्वमेतस्या वैराग्यभक्तयुपासासाक्षात्कारणां प्रतिपादकपदानामभावात् । प्रथमार्धेनापरं विषयजन्यमित्यादियोजनया कथञ्चित्प्रथमपदार्थलाभेऽपि सेवन्त इत्यनेन चोपासत इत्यर्थकेन तृतीयपादार्थलाभेऽपि द्वितीयचतुर्थपादार्थालाभ एवेत्यतः प्रथमार्धेनैव पूर्वपदार्थलाभात्सेवन्त इत्यस्यावृत्या तन्त्रेण वा तेन द्वितीयतृतीयपादार्थलाभाद्धीरा इत्यनेनैवार्थतश्चतुर्थपादार्थलाभाच्च न दोष इत्युपपादयति । अत्रापरमित्यादिना ॥ अपरमित्यनूद्य विषयजन्यमिति व्याख्यानम् । फणछायासमीकृत्येति मूले ऊर्यादिच्चिडाचश्चेति सूत्रेण प्रागसमं समं कृत्वा समीकृत्येति अभूततद्भावार्थकच्विप्रत्ययेति समीशब्दस्य गतिसंज्ञायां तस्य कृत्येति ल्यबन्तेन कुगतिप्रादय इत्यनेन समासः । शुक्लीकृत्येति यथा फणछायया समीकृत्येति तृतीया तत्कृतार्थेतिसूत्रीय तृतीयेति योगविभागात्समासः । कर्तृकरणे कृताबहुलमित्यत्र बहुलग्रहणाद्वा ॥ प्रकृत्या चारुरित्यादिरूपसिध्यर्थकप्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । अत एव शक्तिपयोनिधिरित्यदिव्याख्यावसरेऽन्यत्रापि टीकायामुपासनापादे ज्ञानेन सूर्य इत्येतद्-व्याख्यावसरे ज्ञानेनेत्यादिकं तत्र तत्र व्युत्पादयता टीकाकृतोक्तरीत्यैव समासादिव्युत्पादनं कृतमिति द्रष्ठव्यम् । भजन्त इत्यर्थकेति । उपासनारूपसेवाया इव भक्तेरपि षेवृसेवने इति षेवधात्वर्थत्वम् । षेवृधातुभजधात्वोः समानार्थत्वात् । भजधातोश्चोभयार्थत्वात् । ततश्च सेवन्त इत्यस्य भजन्त इत्यर्थकत्वे यत्पदे भक्तिमन्त इत्यर्थो लभ्यत इति ज्ञेयम् । क्त्वादेशेति । समानकर्तृकयोः पूर्वकाल इति पूर्वकाले वाच्ये तद्विधानादिति भावः । ल्यपः पूर्वकालवाचित्वमाने तुमेतत् ।

धिया रमन्त इति । अत्र धिया रा धीरा इति विग्रहे प्रदर्शनीये रमन्तेर्ञमन्ताड्ड इति डप्रत्यये टिलोपेच रा इत्येतद्भवतीति दर्शनमुखेन ज्ञानमात्रेणेति वक्ष्यलाणु मुपपादयितु रमन्त इति व्याख्यानं कृतम् । विग्रहस्तु धियारा इत्येवेति ज्ञेयम् । उपपदमतिङि्ङत्यनेन कुंभकार इत्यादाविव समासः । अस्वपदविग्रहत्वाद्रमन्त इत्युक्तमित्यप्याहुः । छायाबाहुल्य इति सूत्रे बाहुल्य इति निमित्तसप्तमी । तथा च बाहुल्ये सति या छाया तद्वाची यश् छायाशब्दस् तदन्तस्तत्पुरुषो नपुंसकं स्यादिति प्रतिपादिकस्येति बाहुल्यमित्यपेक्षायां छायाया आवरकद्रव्यनिमित्तकत्वाद् आवरकद्रव्यस्यैव बाहुल्यमिति सिद्धे तच्चावरकं द्रव्यं भवत् पूर्वपदार्थभूतमेवेति पूर्वपदार्थबाहुल्यस्यैव निमित्ततया लाभ इत्यभिप्रेत्य सूत्रार्थमनुवदति । पूर्वपदार्थबाहुल्य इत्यादिना । गम्यमान इति । छायां प्रति निमित्ततया गम्यमान इत्यर्थः । हृस्वोनपुंसक इति हृस्वतायां चेति पाठः । नपु•सकत्वहृस्वत्वयोः सतोरिति उपलक्षणमेतत् । फणछायेन समीकृत्येति समासे सुब्लोपे च सति इत्यपि द्रष्टव्यम् । इच्छक्षुछायानिषदिन्य इत्यादाविति । इत्येतच्चतुर्थरघुवंशश्लोके इक्षूणां छाया इक्षुछायं तत्र निषादिन्यः निषण्णा इत्यर्थानुसारेण इक्षुछायानिषादिन्य इत्येव भवितव्ये आनिषादिन्य इति आङ्प्रश्लेषाश्रयणेन इक्षुछायानिषादिन्य इति प्रयोगस्योपपत्तिरिति तट्टीकाकारैरुक्तत्वेन तद्वदेव प्रकृतेप्याङ्प्रश्लेषे सति फणच्छायासमीकृत्येति प्रयोगस्योपपन्नत्वादित्यर्थः । कुड्यस्य छाया कुड्यच्छायेतिवत् फणस्य छाया फणच्छायेति विग्रहाश्रयणे पूर्वपदार्थबाहुल्यस्य निमित्तस्याभावादेवछाया बाहुल्य इत्यनेन नपुंसकत्वाप्राप्त्याफणछायेति स्त्रीलिङ्गपाठ एवसाधुरिति किं नाश्रीयत इत्यतस् तं प्रकारं दूषयितुं तं प्रकारमभिदधतां पक्षमनुवदति । केचित्विति । यद्यपि विभाषासेनासुराछायाशशलानिशानामिति सूत्रेण सेनासुरादिशब्दान्ततत्पुरुषस्य नपुंसकत्वविधानाद् द्विजसेनं यवसुरं कुड्यछायम् इत्यादिवत् फणस्य छायेति विग्रहेपि छायान्तत्वेन विभाषासेनेति सूत्रेण नपुंसकत्वप्राप्तौ फणछायमित्येव प्राप्तमिति फणच्छायासमीकृत्येति प्रयोगापत्तिर्दुर्वारेति फणस्य छायेति पूर्वपदार्थबाहुल्यानापादकविग्रहाश्रयणं व्यर्थमित्याभाति । तथापि विभाषासेनेति सूत्रेण विकल्पेन नपुंसकत्वविधानान् नपुंसकत्वपक्षे च्छायमिति प्राप्तावपि नपुंसकत्वाभावपक्षे कुड्यस्य छाया कुड्यच्छाया । यवसुरा द्विजसेनेत्यादिवत् फणछायेत्याकारान्तशब्दस्यापि सिद्धत्वेन फणच्छायेति विग्रहाश्रयणे फणछायासमीकृत्येति प्रयोगसाधुत्वलाभ इति तेषामाशयः । अत्राहुरित्यस्वरसोद्भावनं तद्बीजं तु फणानां छायेति विग्रहाश्रयणे वैराग्यातिशयलाभेऽपि फणस्य छायेति विग्रहाश्रयणे तदलाभाद् आङ्प्रश्लेषाश्रयणेन फणच्छायासमीकृत्येति प्रयोगस्योपपत्तेश्चावृथाविग्रहान्तराश्रयणं न कर्तव्यमिति । एकवाक्यत्वादीति । आदिपदेन पूर्वोत्तरभेदस्य अवधेयवचनत्वस्य परिग्रहः । अत्रायं विवेकः । अध्यायप्रतिपाद्यं हि स्वस्मिन्नेकवाक्यतासिध्यर्थं पूर्वोत्तराध्यायाभ्यां भेदसिध्यर्थं च वक्तव्यम् । पादप्रतिपाद्यमपि स्वस्मिन्नेकवाक्यतासिध्यर्थं पूर्वोत्तरपादाभ्यां भेदसिध्यर्थं च वक्तव्यमेव । असङ्गतार्थवचने अनवधेयवचनत्वप्रसङ्गात् । अवधेयवचनसिध्यर्थं सङ्गतिरपि वक्तव्यैवेति ।

तन्निमित्तेति । अनुक्तिनिमित्तेत्यर्थः । निमित्तकथनेनेत्यादेर्भाष्यकाराभिप्रेतन्यूनतापरिहारप्रकारं दर्शयन्नित्यर्थः । इत्याशयवानित्युक्ताशये स्फुटत्वस्यापि प्रविष्टित्वात् । एवमुत्तरपादेऽपि योजना ज्ञेया । उपरीत्यनूद्योपासनापाद इति व्याख्यानम् । बहुवचनमितीति । इतिसूत्रेणेत्यर्थः । जातिरूपार्थस्येति । जातिर्नामाऽयमेकोऽर्थस्तदभिधानविवक्षायामित्यर्थः । व्यक्तिपुरस्करेण व्यक्तीनामनेकत्वेन बहुवचनप्रसङ्गेऽपि तद्गतिजातिपुरस्कारो नामतज्जातीयत्वेन तासामभिधानविवक्षा न तु जातेरेवाभिधानम् । तत्र पूर्वपक्षसाधकत्वादेरसम्बन्धात् । अधिकं तु चतुर्थस्य प्रथमे द्रष्टव्यम् । पुनर्मञ्जर्यादिनिष्कासनेनात्र वक्ष्यमाणं प्रमेयं संशोध्य लेख्यम् । अत्रत्यजातिपदस्य सादृश्यार्थत्वकथनादिकं तदुपपादनं चोत्तरत्र ज्ञेयम् । अन्यत्रापि जातावेकवचनमिति वाक्यस्य टीकोक्तं व्याख्यानं तत्र तत्र क्रियमाणमत्रोत्तरत्रचोक्तरीत्या व्युत्पाद्यम् । कुतः सादृश्यपरं जातिपरमेव किं नस्यादित्यत आह । सिद्धान्त इति । तत्रापि प्राप्तानुपपत्तिं तर्कताण्डवानुसारेणाशङ्क्य परिहरति । यद्यपि चेति । एकेन सम्बन्धेनोभयत्र सत्ताभावादनुगततुल्यमेवेत्युक्तम् । अत्र पक्षे यद्वेत्येतदनास्थायम् । न तु पूर्वापेक्षया स्वरसत्वाभिप्रायेण । जातिपदार्थस्यैकत्वात्तद्विवक्षयेत्येवं पूर्वं समाधानमेव तत्वम् । ननु स्वमतेजातेरेकत्वाभावात् कथं व्यक्तिपरित्यागेन जातिपुरस्कारोपपत्तिः स्यादिति चेत्सत्यम् । अत्र हि व्याकरणप्रक्रियानुसारेण व्यवहारः । व्याकरणलक्षणे च जात्याख्यायामेकस्मिन्नित्यादौ जातिपदार्थः परसङ्केतित एव । तथा च जातेः स्वमतेऽनेकत्वेपि तदेकत्वविवक्षया तत्रैकवचनमित्येवोपपादनं मूलाभिप्रेतम् । समन्तं च टीकाकृतः । जातावेकवचनमित्युपासनापादीयवाक्यव्याख्यनपरान्यथाख्यातिनिराकरणाय प्रवृत्तेन जातेरनेकत्वेऽप्येकत्वविवक्षयैकवचनोपपत्तेरित्युक्तत्वात् । तथा जातिरूपार्थस्यैकत्वात्तद्विवक्षयेत्यत्रैकभूतजातिरूपार्थविवक्षयेति व्याख्यानवज् जातिरूपार्थस्य परपक्षे एकत्वात्तद्विवक्षयेत्यपि व्याख्यानं कार्यमिति टीकाभिप्रेतमेव । अवश्यं चैतदेवं विज्ञेयम् । कथमन्यथाकथास्तिस्रो विजानताम् । सतां जल्प इत्यादिव्याख्यानमूले विजानतामिति जातौ बहुवचनमित्याद्युक्तेर्निर्वाहः स्यात् । न हि तत्र जातिस्थानेऽभिषिक्तं सादृश्यमादाय बहुवचनोपपत्तिः शक्यते कर्तुम् । एकवचनस्य द्य्वेकयोरित्यनेनेव बहुवचनस्य जात्याख्यायामिति लक्षणेन विना निर्वाहाभावात् । नह्येतत्सूत्रस्थमपि जातिपदं सादृश्यपरमिति व्याख्यातुं शक्यम् । व्याकरणप्रक्रियानुसारेण तत्र तत्रोपसङ्ख्यानछान्दसत्वबाहुलकाद्यनाश्रयणापत्तेः । सादृश्यं चैकमेवाभ्युपगन्तव्यम् । तस्यापि बहुत्वाङ्गीकारे व्यक्तिसाम्येन विजानतोः कथायामव्याप्त्यादिप्रसङ्गानुसारापातात् । तस्माद्विजानतामित्यादौ सादृश्यमादाय बहुवचनोपपत्ययोगात् परसङ्केतितजातिविवक्षाया एव वाच्यत्वात्प्रकृतेऽपि तद्विवक्षयेकवचननिर्वाहोपपत्तेर्निमित्तविशेषाभावे चार्धजरतीयायोगात्सर्वत्र जातावित्यादिवाक्ये जातिपदस्यानुगतजातिरेव मूलटीकयोरभिप्रेतार्थ इत्यतः प्रथमपक्ष एव स्वरसः ।

यद्वेत्युक्तपक्षाभिधानं तु यत्रैकवचनमात्रनिर्वाहस्तत्र जातिरूपार्थैक्यविवक्षावत्सादृश्य रूपार्थैक्यविवक्षयापि निर्वाहः शक्य इति प्रकारान्तरकथनाभिप्रायेण । न तु तस्य प्रकारस्य सार्वत्रिकत्वाभिप्रायेण अन्यथा जातेरेकत्वविवक्षयेत्युदाहृतटीकाकारोक्तिविरोधः स्यात् । तत्रैकवचनं यत्तद्विप्राणां भोजनं वैशेषिकाधिकरणे भोजनसमुदायापेक्षमेकवचनमिति मूलकारीयोक्तिरपि सादृश्यरूपप्रकारान्तरेणाप्येकवचननिर्वाहरूपप्रकारान्तर वत्सत्यप्यस्मिन्प्रकारे सार्वत्रिके जातिरूपार्थे समुदायरूपप्रकारान्तरविवक्षयाऽपि एकवचननिर्वाहाभिप्रायेण । न तु जातिरूपार्थविवक्षायां दोषसम्भावनाभिप्रायेण । तथा सति शतसहस्रस्थले जाताविति व्यवहारो नस्यात् । बहुवचनस्थले च समुदायबहुत्वाभावेन तदर्थविवक्षानुपपत्या तत्रानन्यगत्या पराभिप्रेतजातिविवक्षाया एवाभिप्रेतत्वस्य वाच्यत्वात् । यत्तु विद्यैवेत्यधिकरणीयविषयान् प्रति स्थितं ह्यक्षमित्यत्रत्याक्षमिति जातावेकवचनमित्येन्मूलव्याख्यावसरे अन्यथाख्यातौ । अत्र जातिपदेन समुदायो विवक्षितः । अत एव विप्राणां भोजनं यथेत्यत्र भोजनमित्येकवचनं समुदायापेक्षमिति व्याख्यातम् । एवं चास्मन्मते जातेरेवकत्वाभावात्कथं तत्रैकवचनमिति शङ्कानवकाश इति निरूपितम् । तत्तूक्तरीत्या निरस्तमेव । जातिरूपार्थविवक्षाभावेत्यत्र निर्वाहाभावेन सार्वत्रिकनिर्वाहार्थं परप्रक्रियानुसारेण जातित्वविवक्षाया अवश्यं वाच्यत्वात् । अत एव वाक्यार्थविनोदे जातेरनेकत्वेऽपि तदेकत्वविवक्षयैकवचनोपपत्तेरिति तद्-व्याख्याने दूषणमुक्तम् । समुदायापेक्षमित्येव वैशेषिकाधिकरणीयमूले उक्तेस्तत्र तथाऽङ्गीकारोपपत्तावपि प्रकृते जातावित्युक्ते सति समुदायार्थत्वस्य यत्नेनानुपपाद्यत्वाच्च । किं च युक्तिपादे विजानतामित्येतद्विषये जातौ बहुवचनमुपपादयता जात्याख्यायामेकस्मिन्नित्यनुशासनादिति भाव इत्यभिधाय तथाचात्र बहुवचनेन जात्यैक्यलाभेऽपि तदवछिन्नव्यक्तयनेकत्वलक्षणाप्रतिपाद्यमित्यभिधानात् समुदायपरत्वे तदर्थाङ्गीकारायोगः । जात्यर्थत्वमाश्रित्य तदवच्छिन्नव्यक्त्यनेकत्वलक्षणापेक्षया समुदायसमुदायिनोरभेदेन शब्दसंकरमाश्रित्य व्यक्तिरूपेणाप्यभिधानमाश्रित्यानेकत्वलाभाश्रयणस्य स्वरसतया तस्यैव पूर्वतद्ग्रन्थे स्वीकार्यत्वेन जात्यवच्छिन्नव्यक्तयनेकत्वलक्षणायोगाच्च । जातौ बहुवचनमित्यस्य तज्जातीयत्वेन व्यक्तीनामभिधानविवक्षा नतु व्रीहित्वं गोत्वमित्यादाविव जातेरेवाभिधानम् । तत्र संपन्नादिपदार्थन्वयेन यवः संपन्नो व्रीहिः संपन्न इत्यादेरयोग इत्यादिप्रमेयस्य मञ्जर्यादावभिधानेन जातिवाचितामाश्रित्य व्यक्तयनेकत्वलक्षणोक्तययोगाच्च । बहुवचने जात्यैक्यलाभेऽपीति तु न परामर्शमूलम् । एकस्मिन्नप्यर्थे बहुवचनं विधाय जात्याख्यायामित्यनेनैकस्यां जातौ प्रयोगाय विहितेन बहुवचनेन जातेरेकत्वस्य लाभायोगात् । जातौ बहुवचनस्य व्यक्तिगतजात्यभिधायकत्वेन तद्बलाज् जातिरूपार्थमात्रलाभेऽपि तद्गतैकत्वलाभायोगेन तल्लाभमङ्गीकृत्यैव लाभेऽपीत्युक्तययोगाच्च । व्यक्तयनेकत्वं लक्षणयेति तु दुर्घटमेव । कस्य कुत्र लक्षणेति ज्ञातुमशक्यत्वात् । बहुवचनेन जात्यैक्यलाभेऽपीति पूर्वानुसारेण बहुवचनस्यैव लक्षणाप्रतीतेः । न च साङ्गीकर्तुमुचिता । न हि जातौ विद्यमानं बहुवचनं व्यक्तिगतमनेकत्वं लक्षयितुमलम् । सम्बन्धस्यैवाभावात् । जात्यैक्यस्य लाभास्यैवाभावेन तेनापि लक्षणायोगात् । सम्बन्धाभावाच्च । एक्यं हि जातिगतम् । जातिश्च व्यक्तिगता । अनेकत्वं च व्यक्तिगतमिति कथं सम्बन्धः । अपि चात्र द्विकर्तृककथायामव्याप्तिवारणार्थं बहुवचनस्य सर्वसाधारणत्वोपपादनाय जात्यर्थकत्वाश्रयणेन विद्वत्वरूपजातेस्तु बहुकर्त्रिकायामिव द्विकर्त्रिकायामपि कथायां सत्वमस्तीति प्रतिपादनाभिप्रायेण प्रवृत्तमूलजात्यैक्यप्रतिपादनद्वारा व्यक्तयनेकत्वलक्षणाभिप्रायकथनायोगः । बहुत्वलक्षणायां द्विकर्तृकवादाद्यसङ्ग्रहभयेनानेकत्वव्याख्यानं चायुक्तम् । सतां जल्प इत्यत्र जात्यर्थत्वे बहुवचनस्य च जात्यर्थकत्वेनैकसत्कर्तृकत्वमादायाप्युपपत्तिप्रतिपादनपरोत्तरमूलानुसारेण कर्तृरेकत्वद्वित्वबहुत्वानात्रं याणामपि बहुवचनलभ्यत्वस्य सिध्या नियमेनानेकत्वस्यैव लक्षणायां प्रापकाभावाच्च । तस्माद्युक्तिपादीयजात्यर्थकत्वकथनस्यात्यन्तायुक्तत्वमेव । अस्तु वा तद्यथाकथञ्चित्तत्तथापि तदनुसारेणात्र चात्रेव तत्र वाक्यार्थकथने कार्ये अभिमानिदेवतेत्येकवचनान्तः प्रयोगः समुदायविवक्षयेत्यभिमानि व्यपदेशस्त्वितिसूत्रीयभावबोधदर्शनवता समुदायापेक्षमित्युदाहृतसुधापक्षस्वारस्याभिमानिना सर्वत्र समुदायस्यैव व्याख्येयतयाऽर्धजरतीयायोगेन जात्यर्थत्वं क्वचिदाश्रयता वा समुदायापेक्षमित्येव यत्र सुधायां स्पष्ठमुक्तं न जाताविति तत्रैव समुदायविवक्षा तदितरत्र तु जातिरूपार्थतैवेति विवेकस्य वा जातिपदस्य सर्वत्र समुदायार्थताया वा वक्तव्यतया तथा मूलस्य स्थलभेदेन भिन्नभिन्नार्थाश्रयणायोग इत्यलं प्रसक्तानुप्रसक्तया युक्तिपादीयैतस्थलेऽयं विचारो लेख्यः । अनादिमनसीत्याद्युत्तरभाष्यमूलेऽन्यत्रापि यत्र जातावित्यादिकं तत्राप्युपयोगानुसारेणात्रात्यं प्रमेयमवधेयम् । ननु प्रत्ययस्थात्कादिति । प्रत्ययस्थात्ककारात् पूर्वस्य अकारस्य इकारः स्यात् । आपि परे । आप् सुबन्तात्परो नचेदिति सूत्रार्थः । कारिकेत्यादिकमुदाहरणम् । छन्दसि सर्व इति । षष्टीयुक्तश् छन्दसि वेति सूत्रीय छन्दसि वेति योगार्थः सर्वे विधयश् छन्दसि विकल्पन्त इत्येतदित्यादिकं प्राक्तत्र तत्रोक्तमस्माभिः । वक्ष्यते च । सर्वेविधयश् छन्दसीति वाक्यस्यार्थानुवादोऽयम् । वैय्याकरणग्रन्थे छन्दसि सर्व इत्येवंविधोऽपि पाठोऽस्तीत्यप्याहुः । पूर्वोक्तमुपलक्षणमपवदति । उपलक्षणमिति । पूर्वपक्षस्येत्यत्रापीति । आकर्षणादिनिमित्तं तु तर्हि साकाङ्क्षत्वाद्वाक्यद्वयस्यापीत्युत्तरटीकायां व्यक्तम् । सम्बन्धिन्यो युक्तय इत्येवार्थ इति मूलम् । युज्यतेऽनयेति युक्तिरिति व्युत्पत्या युक्तिपदेनैव साधकत्वलाभादिति भावः । यद्वा पूर्वपक्षस्येति षष्ट्यर्थः सम्बन्धः साधकत्वम् । तथा च साधकपदाभावेपि तदर्थलाभोऽस्तीति न साकाङ्क्षत्वमिति भावः । न्याया इति इति । ततश्च साधका इति पुल्लिङ्गोपपत्तिरिति भावः । यद्यपि न्यायपदेनैव स्वन्यायैः साधनमित्यादावस्माभिर् व्युत्पादितप्रकारेण युक्तिपदेनैव साधकत्वलाभात्सिद्धान्तस्य न्याया इत्येतावतैव पूर्तेः साधका इति व्यर्थमित्याभाति । तथापि सन्निपातपरिभाषया न्याया इत्यस्य साधका इत्युपजीवनेन प्रवर्तितस्य तद्वैय्यर्थ्यापादकत्वासम्भवाच्चक्षुषापश्यतीत्यादाविव न्यायपदेऽवयवार्थविवक्षाभावमाश्रित्येदमुक्तमिति न दोषः । यथार्थज्ञानजनका इति युक्तिपादीयभाष्योपपादनमप्यनुकूलं चेल्लेव्यम् ।

॥ प्रथमपादपूर्वपक्षसिद्धान्तन्यायाः ॥