ॐ तथा प्राणाः ॐ
चतुर्थः पादः
अथ प्राणाधिकरणम्
ॐ तथा प्राणाः ॐ
ॐ ‘‘तथा प्राण’’ इत्यधिकरणे । प्राणानामुत्पत्त्यङ्गीकारे ‘‘प्राणा एवा नादय’’ इति स्पष्टार्थवच्छतिर्बाधिकाऽस्ति स्पष्टार्थवच्छतिरित्युपलक्षणम् । स्पष्टार्थविशेषश्रुतिरित्यपि ग्राह्यम् । अतस्स्पष्टार्थवद्विशेषश्रुतिवैरूप्यमेव पूर्वपक्षप्रापकम् । ‘‘आत्मैवेदमग्र आसीत्’’ ‘‘स प्राणमसृजत’’ ‘‘स प्राणानि’’ति श्रुतेस्स्पष्टार्थवद्विशेषश्रुतिवैरूप्यं तवैव नममेति स्पष्टार्थवद्विशेषश्रुतिवैरूप्यमेव सिद्धान्तस्थापकम् । ‘‘इदं सर्वमसृजते’’ति सामान्यश्रुतेस्सत्त्वादाधिक्यं सिद्धान्ते । विशेषमात्रश्रुतेस्सकाशादुभयत्रश्रुतेः प्राबल्यादिति भावः ॥ १ ॥
तत्प्राक् श्रुतेश्चेत्यधिकरणे ‘‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वादिति विशेषश्रुतिवैरूप्यं पुनः पूर्वपक्षप्रापकम् । ‘‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि चे’’ति विशेषश्रुतेस्तवैव विशेषश्रुतिवैरूप्यं नममेति तदेव सिद्धान्तस्थापकम् ॥ २ ॥
तत्पूर्वकत्वाद्वाच इत्यधिकरणे ‘‘वाग्वाव नित्ये’’ति विशेषश्रुतिवैरूप्यं पूर्वपक्षप्रापकम् । मनसो वागुदपद्यत । वाचो व्याहरणमिति श्रुतेर्विशेषश्रुतिवैरूप्यं मनोनित्यत्ववादिनस्तवैव नममेति विशेषश्रुतिवैरूप्यमेव सिद्धान्तस्थापकम् ॥ ३ ॥
सप्तगतेर्विशेषितत्वादित्यधिकरणे ‘‘दशमे पुरुषे प्राणा आत्मैकादशः’’ । ‘‘सप्त प्राणाः प्रभवन्ति तस्मादि’’ति सङ्ख्याविशेष श्रुत्योरेव परस्परविरोधाद्विशेषश्रुतिवैरूप्यं विशेषश्रुत्योरेव परस्परं वैरूप्यं पूर्वपक्षप्रापकम् । ‘‘गुहाशयां निहितास्सप्तसप्ते’’ति सप्तभावस्य बुद्धीन्द्रियविषयत्वेन बुध्या सह मन आदिषडिन्द्रियत्वेन विशेषितत्वात् । सङ्ख्याश्रुत्योस्संख्याविशेषश्रुत्योर् विशेषवैलक्षण्यात्कारणाद्विशेषश्रुत्योर्विषयवैलक्षण्याख्यवैरूप्यं विविधरूपत्वमेव सिद्धान्तस्थापकम् ॥ ४ ॥
अणवश्चेत्यधिकरणे ‘‘दिवीव चक्षुराततमि’’ति व्याप्त्याख्यविशेषवाचकश्रुतिवैरूप्यमेव पूर्वपक्षप्रापकम् । ‘‘अणूनि वा इन्द्रियाणि तेषां प्रकाशो व्यातत’’ इति ततोऽपि तव श्रुतितोऽपि प्रबलाणुत्ववाचकश्रुतिविरोधात्तवैव विशेषश्रुतिवैरूप्यम् । अतो विशेषश्रुतिवैरूप्यमेव सिद्धान्तस्यापि स्थापकम् । ‘‘तेषां प्रकाशो व्यातत’’ इति व्याप्तिवचनस्यापि गतिदर्शनादणुत्वप्रापिका मदीयश्रुतिरेव प्रबलेति भावः । एवं चाधिकरणपञ्चकस्थपूर्वपक्षसिद्धान्तयुक्तीनामेकमेव सङ्ग्राहकमित्यतिचमत्कारोऽयमनुव्याख्यानकारस्य ॥ ५ ॥
श्रेष्ठश्चेत्यधिकरणे ‘‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यत’’ इत्यादिमाहात्म्यवचनान्मुख्यप्राणस्य नोत्पत्तिरिति माहात्म्यमेव पूर्वपक्षप्रापकम् । ‘‘महत्वान्महतां विष्णुः कर्ता प्राणस्य चैकराट् । किं नाम न सृजेदेषः येन शक्तयेदमावृतमि’’ति श्रुतेस्ततोऽपि विष्णोर्माहात्म्यं सिद्धान्तस्थापकम् ॥ ६ ॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य इत्यधिकरणे । ‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः’ । इति परोदीरितश्रुतितोऽपि ‘‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेदि’’ति भारतोक्तसर्वचेष्टकत्वयुक्तयुपबृंहितायाः ‘‘प्राणादिदमाविरासीत्प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रित’’ इत्यभिवेश्यश्रुतेः प्राबल्यात्पुनः प्राणस्य स्वातन्त्र्याख्यमाहात्म्यमस्तीति माहात्म्यमेव पूर्वपक्षप्रापकम् । ‘‘सर्वं ह्येतत्परमेऽवतिष्ठते, प्राणश्च प्राणाश्च प्राणिनश्च स एक एवैतान्नयत्युन्नयति वशीकरोती’’ति गोपवनश्रुतौ चक्षुरादिभिस्सह प्राणस्यापि तद्वशत्वेनैव श्रवणात् । ‘‘सर्वकर्ताऽपि सन् प्राणः परमाधारतस्स्थितः । कथमेवान्यथा स स्याद्यतो नैवेश्वरद्वयमि’’ति वाक्योक्तयुक्तया स्वतन्त्रद्वयासम्भवाच्चावान्तरस्वातन्त्र्यं प्राणस्य महास्वातन्त्र्याख्यमाहात्म्यं विष्णोरेवेति माहात्म्यमेव सिद्धान्तस्थापिका युक्तिः । इदं तु भाष्य एव स्पष्टत्वान्न न्यायविवरणे विशिष्योक्तम् ॥ ७ ॥
पञ्चवृत्तिर्मनोवद्य्वपदिश्यत इत्यधिकरणे प्राणादिपञ्चकस्य सर्वशरीरेषु द्वासप्ततिसहस्रनाडीषूर्ध्वाधोमध्यस्थानेषु सञ्चरणाख्यव्यक्तसद्गुणत्वात्प्राणादिपञ्चकस्य मुख्यप्राणस्वरूपत्वमिति व्यक्तसद्गुणत्वमेव पूर्वपक्षप्रापकम् । ‘‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान’’ इति श्रुतेर्मुख्यदासानामपि सुव्यक्तगुणत्वसम्भवात्तेऽपि प्रतिपाद्या भवन्तीति चेन्न । स्वामिभृत्ययोरुभयोरपि सुव्यक्तगुणत्वासम्भवात् । ‘‘प्राणापानादयस्सर्वे मुख्यदासा यतोऽनिशम् । अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वत’’ इति स्मृत्युक्तयुक्तयुपबृंहितस्वामिभृत्यभावस्य त्यक्तुमशक्यत्वाच्च । तर्हि दासानां प्राणपञ्चकत्वप्रतिपादकश्रुतेः का गुतिरिति चेत् प्रबलश्रुतिविरुद्धत्वेनाप्रामाण्यमेवेति शङ्कितुर्हृदयम् । ‘‘अशेषगुणपूर्णानि मुख्यरूपाणि पञ्च च । तद्दासाः पञ्च चान्येऽपि प्राणाद्याः षड्गुणैर्युता’’ इति श्रुतेर्दासानामपि सद्गुणैर्युता इति वचनेन स्वयोग्यव्यक्तसद्गुणत्वात् ‘‘स्वानि कर्माणि कुर्वत’’ इति स्मृतेः प्राणाज्ञया प्राणनादिव्यापारहेतुत्वाच्च तेषामपि प्राणादिपञ्चकत्वम् । न च स्वामिभृत्ययोरुभयोरपि व्यक्तसद्गुणत्वानुपपत्तिः । राजाज्ञया राजमन्त्रिणोऽपि स्वयोग्यछत्रवत्त्वदर्शनात् । कथञ्चिदर्थसम्भवे नित्याया अप्रामाण्यकथनासम्भवात् । तर्हि त एव सन्तु किं मुख्यप्राणेनेति चेत्तस्य ततोऽपि व्यक्तसद्गुणत्वेन मुख्यतः प्राणादिना व्यापारहेतुत्वेन च त्यागायोगात् । न चैतदयुक्तम् । द्विविधपञ्चरूपमनोवदुपपत्तेरिति व्यक्तसद्गुणा एव सिद्धान्तस्थापकाः ॥ ८ ॥
अणुश्चेत्यधिकरणे प्राणमहत्त्व चराचरव्यापित्वाख्यदृष्टाऽयुक्तिः पूर्वपक्षप्रापिका । ‘‘अणुर्वै मुख्यप्राणो य उत्क्रामति नाडीभिरि’’ति श्रुतेरनणुत्वे दृष्टाऽयुक्तिरेव सिद्धान्तसाधिका ॥ ९ ॥
ज्योतिराद्यधिष्ठानं तु तदामननादित्यधिकरणे ‘‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः । यस्मात्तद्वशगा एते दृश्यन्ते सर्वदेहिष्वि’’ति श्रुतेः प्राणपदोदितेन्द्रियाणां जीवाकरणत्वे देवदत्तस्य कुठारवज्जीववशत्वाख्यदृष्टाऽयुक्तिः पूर्वपक्षप्रापिका । अनाघ्रेयस्याप्याघ्राणनेन दशनेन क्वचिदतद्वशत्वस्यापि दृष्टत्वाज्जीवाकरणत्वेऽपि दृष्टाऽयुक्तिरेव सिद्धान्तसाधिका । करणत्वे सर्वत्र तद्वशता स्यात् । करणानामीशावशत्वे च ‘‘यश्चक्षुषि तिष्ठन्नि’’त्यादि श्रुत्युक्तदृष्यप्रमेयायुक्तेरीशवशतैव वक्तव्येति दृष्टायुक्तिपदमिति द्वेधाऽपि योजनीयम् । लौकिकदृष्टेर् लौकिकानां क्वचिज्जीववशत्वदृष्टेः पिशाचाविष्टचेतनस्योरुतरभारोद्धरणवदीशेनैव जीवानुसारित्व क्लृप्त्योपपत्तेः । एवं चात्रापि दृष्टाऽयुक्तिरेव सिद्धान्तसाधिकेति भावः ॥ १० ॥
त इन्द्रियाणि तद्-व्यपदेशादन्यत्र श्रेष्ठादित्यधिकरणे ‘‘प्राणा इन्द्रियाणि प्राणा हीदं द्रवन्ती’’ति इदं द्रवणाख्ययुक्तिसहितपौष्यायण श्रुतेः । प्राणपदवाच्यद्वादशेन्द्रियमुख्यप्राणानामिदं द्रवणसाम्यात्सामान्य श्रुत्युक्तत्वसाम्यादीश वशत्वसाम्याच्च त्रयोदशानामपीन्द्रियत्वमिति त्रेधा समानत्वमेव पूर्वपक्षप्रापकम् । ‘‘यस्मिन्निदमध्यार्ध्नोत्’’ ‘‘प्राणस्यैतद्वशे सर्वं त्रिदिवे यत्प्रतिष्ठित’’मिति श्रुतेः प्राणस्य त्रिदिवस्थसकलनियामकत्वाख्यधर्मेणेश्वरसाम्यस्यापि सत्त्वात् । ‘‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् । द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एक राडि’’ति श्रुत्येन्द्रियनियामकत्वेन प्राणस्य द्वेधापीश्वरसाम्यान्नैवेन्द्रियत्वमिति समानत्वमेव समानत्वमेव सिद्धान्तस्थापकम् । किंतु ‘‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थित’’ इति श्रुतेरीश्वरादवरत्वम् । अन्येभ्यः सर्वेभ्यः श्रेष्ठत्वमिति मध्यमत्वोपपत्तेः ॥ ११ ॥
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशादित्यधिकरणे विरिञ्चस्यापि कर्तृत्वशक्तेस्स एव शरीरादिस्रष्टेति कर्तृशक्तिः कर्तृत्वशक्तिः पूर्वपक्षप्रापिका । ‘‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया’’ । इति श्रुतौ त्रिवृत्करणशक्तिमत एव रूपपदोक्तमूर्तिकर्तृत्वं सयुक्तिकमुच्यते । अतस्त्रिवृत्करणशक्तिमत एव त्र्यात्मकदेहकर्तृत्वशक्तिरपीति कर्तृशक्तिरेव सिद्धान्तस्थापिका । विरिञ्चस्य तु द्वारत्वमात्रेणैव क्वचित्कर्तृत्वोक्तिरिति ॥ १२ ॥
मांसादिभौमं यथाशब्दमितरयोश्चेत्यधिकरणे मिश्रत्वाद्भूतानां मिश्रतायामविशेष इति विमिश्रतैव पूर्वपक्षप्रापिका । सर्वस्यापि विमिश्रितत्वसाम्येऽपि विशेषतो मांसरूपेण भौमांशस्यैव विशिष्टत्वान्न साम्यमिति विशेषमिश्रितत्वरूपविमिश्रतैव सिद्धान्तसाधिका ॥
इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥
द्वितीयाध्यायः समाप्तः ।