०१ न्यायोपेतश्रुतिविरोधपरिहारः

श्रुत्यर्थः श्रतियुक्तिभ्यां विरुद्ध इव दृश्यते

अथ द्वितीयाध्यायस्य चतुर्थः पादः

॥ श्रीगुरुभ्यो नमः ॥ हरिः ॐ ॥

न्यायोपेतश्रुतिविरोधपरिहारः

श्रुत्यर्थः श्रतियुक्तिभ्यां विरुद्ध इव दृश्यते

सुधा

यद्यपि चतुर्थपादेऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते । तथाऽप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् । प्रकारान्तरेण पादभेदं दर्शयितुमाह श्रुत्यर्थ इति ।

अनुव्याख्यानम्

श्रुत्यर्थः श्रतियुक्तिभ्यां विरुद्ध इव दृश्यते ॥

यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ॥

करोत्यनेन पादेन ………………

यद्यपि श्रुतिरित्येवोक्तेऽपि सिध्द्यत्यर्थ इति । वाक्यानामर्थद्वारैव विरोधस्थितेः । तथाऽप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयायातो न मीमांसात्वहानिरिति दर्शयितुमर्थ इत्युक्तम् । यद्यपि युक्तयः पूर्वपादेऽपि सन्ति तथाऽप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः । पारमार्थिके विरोधे निर्णयो दुष्कर इत्यत इवेत्युक्तम् । यत्र प्राणादिविषये । श्रुत्यर्थो जन्मादिः । युक्त्युपसर्जनाभिः श्रुतिभिर्विरुद्ध इव दृश्यते । तन्निर्णयमिति योजना । युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तं सुविशिष्टेति । अनेन बुद्धिसन्निहितेन ।

तथा प्राणा इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तीः सङ्गृह्याह तत्रेति ।

अनुव्याख्यानम्

………….. तत्र स्पष्टार्थवच्छतिः ॥

विश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणः ॥

दृष्टा युक्तिः समानत्वं कर्तृशक्तिर्विमिश्रिता ॥

युक्तयः पूर्वपक्षेषु सुनिर्णीतास्तु तादृशाः ॥

युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने

द्वितीयाध्यायस्य चतुर्थः पादः ॥ २४ ॥

तत्र चतुर्थपादे । तादृशास् तच्छब्दवाच्याः । निर्णयस्य सिद्धान्तस्य । तादृशाश्चेत्कथं निर्णयं कुर्युरित्यत उक्तं सुनिर्णीतास्त्विति । तादृशार्था इति शेषः । कुत एतदित्यत उक्तं स्वयमिति । स्वयमेवेति सम्बन्धः ।

इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।

कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयेऽध्यायेऽस्मिंश्चरमचरणः पर्यवसितः

॥ २४ ॥

इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः सम्पूर्णः ॥

वाक्यार्थचन्द्रिका

ननु ‘श्रुत्यर्थः श्रुतियुक्तिभ्यामि’त्यादिभाष्यमनर्थकम् । न च श्रुतिविरोधपरिहारकत्वेऽस्य पादस्य तृतीयपादाद्भेदो न स्यात्रत्तापि श्रुतीनां परस्परविरोधस्यापाकरणादिति पादभेदानुपपत्तिशङ्कापरिहारार्थं पादभेदकथनार्थत्वान्नानर्थक्यमिति वाच्यम् । ‘अथासमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मानामि’त्यादिना पूर्वपाद एव पादद्वये श्रुतीनां परस्परविरोधस्यैव परिहारेऽपि तृतीयेऽध्यात्मेतरविषयश्रुतिविरोधस्यात्र चाध्यात्मविषयश्रुतिविरोधस्य परिहारात्पादभेदस्य समर्थितत्वादित्यतः सत्येव तस्मिन्प्रकारे प्रकारान्तरेण पादभेदसमर्थनार्थत्वान्नानर्थक्यमिति भावेन प्रकारान्तरेण पादभेदाभिधायकतयैतद्भाष्यं योजयितुं पादभेदानुपपत्तिशङ्कोत्थापनपूर्वकं प्रागुक्तं परिहारं तावत्स्मारयति यद्यपीत्यादिना ॥ युक्तय इति । वियदनुत्पत्तिमद्विभुत्वादित्याद्या इत्यर्थः । अत्र टीकायां ‘प्रबला इति वि’ इत्येव पाठः । मूलकोशेषु दर्शनात् ।

विस्पष्ट इत्यत इति । विस्पष्ट इत्यतः परमतो न तत्र वक्तव्यमस्ति परमाख्यविद्याव्याख्याङ्करोमीति च प्रतिज्ञातमिति शेषः । इत्यत इत्यस्य तदुभयसिध्द्यर्थमित्यर्थः । तादृशार्था इति वि इत्येव पाठः । सुनिर्णीतार्था इत्यर्थः । अतो हेतोर्युक्तं तासां निर्णयकारित्वमित्याशयः । एतत्सिद्धान्तयुक्तीनां सुनिर्णीतार्थत्वमित्यर्थः । निर्णयस्यैवेत्येवशब्दस्य वैयर्थ्येन यथाश्रुतान्वयासम्भवाद्भिन्नक्रमतामाह स्वयमेवेति सम्बन्ध इति । ततश्च स्वयमेव भगवता न तु परोपदेशमपेक्ष्य येन स्वतः सर्वज्ञत्वं न स्यादिति सूत्रकारस्य स्वतः सार्वज्ञ्यरूपविसूचनद्वारा तदुपन्यस्तयुक्तीनां भ्रान्त्यादिमूलत्वाभावसूचनार्थत्वान्नैवशब्दवैय्यर्थ्यमित्याशय इत्यमतिमङ्गलम् ।

सर्वाभीष्टप्रदं रामं सर्वानिष्टनिवारकम् ॥

जानकीजानिमनिशं वन्दे सद्गुरुवन्दितम् ॥

विद्वन्मत्तेभकुम्भाद्रिविपाटनविचक्षणः ॥

विद्याधीशनृसिंहो मे गुरुर्नित्यं भवेन्मुदे ॥

यद्विद्याधीशगुरोः शुश्रूषाऽन्या न रोचते तस्मात् ॥

अस्त्वेषा भक्तियुक्ता श्रीविद्याधीशपादयोः सेवा ॥

इति श्रीमत्पदवाक्यप्रमाणविदामग्रेसराणां श्रीमत्सकलविद्वच्चक्रचूडामणीनां श्रीमद्विद्याधीशतीर्थपूज्यपादानां निजशिष्यस्य केशवस्य कृतौ श्रीमद्गुरुराजोपदिष्टमार्गानुवर्तिन्यां श्रीमन्न्यायसुधाविषमपदवाक्यार्थविवृतौ वाक्यार्थचन्द्रिकायां द्वितीयाध्यायस्य चतुर्थः पादः ॥ २४ ॥

परिमल

पादार्थोक्तेर्बीजं वदन् प्रागुक्तमपि स्मारयति यद्यपीत्यादिना ॥ प्रागेवेति । पूर्वपादोपक्रमे अधिदैवाधिभूतजीवपरात्मनां स्वरूपनिर्णयायेत्युक्त्या अस्यपादस्य अध्यात्मविषयत्वसूचनादिति भावः ॥ न मीमांसात्वहानिरिति । प्रामाण्यनिर्णयार्थत्वे हि अस्य तर्कशास्त्रत्वापत्त्या मीमांसाशास्त्रत्वभङ्गः स्यादिति भावः ॥ पूर्वोत्तरपक्षीययुक्तीरिति । अयमत्र विवेकः । तथा प्राणाः । स्पष्टार्थवच्छतिः पूर्वपक्षयुक्तिः । इयमेव निरवकाशा सिद्धान्तयुक्तिः । एवमग्रेऽपि । तत्प्राक्श्रुतेश्च । विश्रुतिवैरूप्यम् । सप्तगतेर्विशेषितत्वाच्च विश्रुतिवैरूप्यम् । अणवश्च विश्रुतिवैरूप्यम् । श्रेष्ठश्च माहात्म्यम् । चक्षुरादिवन् माहात्म्यम् । ततोऽपि माहात्म्यं सिद्धान्तयुक्तिः पञ्चवृत्तिः । व्यक्तसद्गुणो ऽणुश्च दृष्टा युक्तिः । त इन्द्रियाणि समानत्वम् । संज्ञामूर्तिवलृप्तिः कर्तृशक्तिः । मांसादिभौमं विमिश्रतेति । तादृशार्था इति । सुनिश्चितार्था इत्यर्थः । ननु युक्तिविणत्वे तादृश्य इति स्यादित्यतोऽर्थपदसंयोजनेन बहुव्रीह्याश्रयणे सति न दोष इति भावेन तादृशा इत्यनूद्यार्थपदसंयोजनमाह तादृशार्था इति इति । एतदिति । सुनिर्णीतार्थत्वमित्यर्थः ॥

इति श्रीमन्न्यायसुधाटिप्पण्यां सुधीन्द्रगुरुपादशिष्यराघवेन्द्रयतिकृतायां परिमाभिधेयायां द्वितीयाध्यायस्य चतुर्थः पादः ॥

यादुपत्यम्

प्रागेव सूचितमिति । ‘अथासमाम्नायविरोधापाकृतिं प्रभुः । करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् । स्वरूपनिर्णयायैवे’त्यनेनाध्यात्मभिन्नानामेव पूर्वपादप्रतिपाद्यतयोक्तत्वेनास्य पादस्याध्यात्मविषयकत्वं सूचितमिति भावः ॥ तादृशार्था इति । सुनिर्णीतार्था इत्यर्थः । अत्रार्था इत्येव शेषो ज्ञातव्यः ॥ स्वयमेवेति । न परोपदेशमपेक्ष्य येन भ्रान्त्यादिकं सम्भावितं स्यादिति भाव इत्यमतिमङ्गलम् ।

वेदेशगुरुभिः प्रोक्तो भावो जयमुनेरयम् ॥

सुधाऽविरोधाध्यायदुःस्थवाचां प्रदर्शितः ॥ १ ॥

विदोषभाश्चिन्तितसन्मनोरथप्रदः सुधीमण्डलमण्डनायितः ॥

सदा ममाज्ञानतमोविनाशकः श्रुतीशचिन्तामणिरस्तु भूतिदः ॥ २ ॥

इति श्रीमद्वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां श्रीमन्न्यायसुधाटिप्पण्यां

द्वितीयाध्यायस्य चतुर्थः पादः ॥

श्रीनिवासतीर्थीया

श्रुतियुक्तिभ्यां श्रुतेर्विरोध इत्युक्ते श्रुत्यर्थस्यैव विरोध इति सिध्यतीत्येतत्कुत इत्यत आह वाक्यानामिति ॥ अर्थद्वारैवेति । विरोधस्य स्वतोऽर्थदोषत्वादिति भावः ॥ न प्रामाण्यनिर्णयायेति । अन्यथा तर्कशास्त्रत्वप्रसङ्ग इति ज्ञेयम् ॥ हानिरिति । ‘मीमांसा मेयशोधनमि’त्युक्तत्वादिति ज्ञेयम् ॥ तादृशश्चेदिति । स्पष्टार्थवच्छतिरित्यादिशब्दवाच्यास्ताः पूर्वपक्षीया एव युक्तयः सिद्धान्तेऽपि यदि स्युरित्यर्थः । निर्णयं सिद्धान्तस्य ।

इति श्रीयदुपत्याचार्यपूज्यपादाराधकेन श्रीनिवासेन विरचिते श्रीमन्न्यायसुधाटीकाऽगृहीतवाक्यार्थविवरणे द्वितीयाध्यायस्य चतुर्थः पादः ॥

वाक्यार्थरत्नमाला

अस्य पादस्येति । इदं च मध्यदीपिकान्यायेन पूर्वत्रापि सम्बध्यते । नानर्थक्यमिति । भाष्यमिति प्रथमान्तं भाष्यस्येति विभक्तिविपरिणामेनात्रवर्तत इति ज्ञेयम् । एवमुत्तरत्रापीत्यनिशं गुरुप्रीतिरस्तु ॥

आनन्दाब्धिप्रजातत्रिदशतरुगुरुश्रीनिवासानुजश्री

विद्याधीशाख्यरत्नाद्भुतविदमृतगोः केशवाचार्यवर्यात् ।

श्रीरुग्मिण्यायीप्रजातश्री विबुधनरसिंहीयगुर्वीयसौध

व्याख्यापाठादिशोधात्मकविवृतिकृतावैन्नयेत श्रुतेः पात् ॥

इति श्रीमत्सकलविद्वद्वृन्दशिखामणिश्रीपाण्डुरङ्गिकेशवाचार्यवर्यनामकश्रीगुरुराजवर्यविरचित श्रीमन्यायसुधाविषमपदवाक्यव्याख्यानरूपवाक्यार्थचन्द्रिकाया व्याख्यापाठादिशोधात्मकविवृतौ वाक्यार्थरत्नमालाभिधायां गुरुराजपुत्रपाण्डुरङ्गिनरसिंहसूरिविरचितायां द्वितीयाध्यायस्य चतुर्थः पादः ॥

॥ गुर्वन्तर्गतलक्ष्मीनारायणार्पणमस्तु ॥

इति द्वितीयाध्यायस्य चतुर्थः पादः

॥ समाप्तश्चायं द्वितीयोऽध्यायः ॥