०५ अंशाधिकरणम्

ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ

अथ अंशाधिकरणम्

ॐ अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके ॐ

पुंस्त्वादिवदित्यनेनैवेदं गतार्थमधिकरणमित्यस्य पुंस्त्वादिवदित्यधिकरणे यथा शिशुदशायामेव विद्यमानं ‘‘पुंस्त्वादिकं कदाचिद्य्वज्यते एवं जीवस्याप्यनादिकालमारभ्य विद्यमाना एवानन्दादयः कदाचिद्य्वज्यन्ते । अन्यथा जीवपरयोर्बिम्बप्रतिबिम्बत्वरूपांशांशिभाव एव न स्यादिति पुंस्त्वादिवदित्यधिकरणेऽप्यंशत्वमभिप्रेतम् । ‘‘अंशो नाना व्यपदेशादि’’त्यत्राप्यंशत्वमेवोच्यते । अतो गतार्थतेति शङ्का । एतेनांशत्व साधनेन निरस्ता । तत्रांशत्वं सिद्धवत्कृत्य समाधानं कृतम् । अत्र पुनरंशत्वस्याप्युपपादनमिति प्रमेयभेदान्न पौनरुक्तयमिति भावः । किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयमित्यत्रोभयथा सज्जीवेष्वानन्दादिनाऽपि सादृश्यम् । अन्यत्र सत्त्वचित्त्वादिमात्रेणेत्यर्थः । सुपांसुलुक् पूर्वसवर्णेति पूर्वसवर्ण इत्यत्र पूर्वसवर्णः पूर्वश्चासौ सवर्णश्च पूर्वसवर्णः । प्रथमात्वेन सदृशं प्रकृतिमानिनीति पूर्वरूपमित्यर्थः । युवोरनाकाविति यथेत्यत्र युश्च युवू तयोर्युव्वोरिति वक्तव्ये युश्च वुश्च युवुरिति पुल्लिङ्गान्तद्वन्द्वैकवद्भावमाश्रित्य युवोरिति षष्ठ्येकवचनान्तप्रयोगो यथा तथेत्यर्थः ॥ २३१८,१९ ॥

इति श्रीमद्वादिराजपूज्यचरणविरचितायां गुर्वर्थदीपिकायां द्वितीयाध्यायस्य तृतीयः पादः ॥